601

आभियोगिकी यथा—

‘अलसवलितमुग्धस्निग्घनिष्पन्दमन्दैरधिकविकसदन्तर्विस्मयस्मेरतारै; ।
हृदयमशरणं565 मे पक्ष्मलाक्ष्याः काटाक्षैरपहृतमपविद्धं पीतमुन्मूलितं च ॥ ८४ ॥’

सेयमनुरागातिशयसूचकमालतीकटाक्षाभियोगे माधवस्य 566रतिरतीवोत्पद्यते ॥

सांप्रयोगिकी यथा—

‘उन्नमय्य सकचग्रहमास्यं चुम्बति प्रियतमे हठवृत्त्या ।
हुंहुँ मुञ्च मममेति च मन्दं जल्पितं जयति मानधनायाः ॥ ८५ ॥’

अत्र तर्जनार्थ—मोक्षार्थ—वारणार्थानां मन्दं मन्दं प्रयोगान्मानवत्याः संप्रयोगे रत्युत्पत्तिः प्रतीयते ॥

आभिमानिकी यथा—

‘इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयो- रसावस्याः स्पर्शो वपुषि 567बहलश्चन्दनरसः ।
अयं बाहुः कण्ठे शिशिरमसृणो568 मौक्तिकसरः किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ॥ ८६ ॥’

अत्र रुचिविशेषोऽभिमानस्तत एवंप्राया रतयो भवन्ति ॥

  1. ‘हृदयमशरणं मे’ क
  2. ‘रतिरेवोत्पद्यते’ क ख
  3. ‘बहुलः’ ख
  4. ‘शिशिरसमृणो’ घ