602

569वैषयिकीषु शब्दे यथा—

‘विलासमसृणोल्लसन्मुसललोलदोष्कन्दलीपरस्परपरिस्खलद्वलयनिःखनोद्बन्धुराः ।
लसन्ति कलहुंकृतिप्रसभ570कम्पितोरःस्थल571त्रुटद्गमकसंकुलाः 572कलमकण्डनीगीतयः ॥ ८७ ॥’

स्पर्शे यथा—

‘बध्नन्नङ्गेषु रोमाञ्चं कुर्वन्मनसि निर्वृतिम् ।
नेत्रे निमीलयन्नेष प्रियास्पर्शः प्रवर्तते ॥ ८८ ॥’

रूपे यथा—

‘ता राघवं दृष्टिभिरापिबन्त्यो नार्यो न जग्मुर्विषयान्तराणि ।
तथा हि शेषेन्द्रियवृत्तिरासां सर्वात्मना चक्षुरिव प्रंविष्टा ८९’

रसे यथा—

‘कस्य नो कुरुते 573मुग्धे पिपासाकुलितं मनः ।
अयं ते विद्रुमच्छायो मरुमार्ग इवाधरः ॥ ९० ॥’

574गन्धे यथा—

‘रन्धणकम्मणिउणिए मा जूरसु575 रत्तपाडलसुअन्धम् ।
मुहमारुअं पिअन्तो धूमाइ सिही ण पज्जलइ ॥ ९१ ॥’
[रन्धनकर्मनिपुणिके मा 576क्रध्यस्व रक्तपाटलसुगन्धम् ।
मुखमारुतं पिबन् धूमायते शिखी न प्रज्वलति ॥]
  1. ‘वैषयिकी शब्देषु यथा’ क
  2. ‘कम्पितोरःस्थली’ ख
  3. ‘लुटद्गमकसंकुलाः’ ख
  4. ‘कलमकण्डनी’ घ
  5. ‘तन्वि’ क ख
  6. ‘गन्धो यथा’ ख
  7. ‘मा ऊर सु’ क, ‘मा सुरसु’ ख
  8. ‘मा खिद्यस्व’ इति घ-पुस्तके च्छाया