603
प्रीतिविशेषेषु नैसर्गिकी यथा—
579अत्र यदा यदा रतिर्जायते तदा तदा पुत्रेषु स्निह्यति पुत्ररूपेण वा जायत इति जन्मान्तरवासनारूपो निसर्गः संगच्छते ॥
सांसर्गिकी यथा—
‘विश्वंभरा भगवती भवतीमसूत
राजा प्रजापतिसमो जनकः पिता ते ।
तेषां वधूस्त्वमसि नन्दिनि पार्थिवानां
येषां 580कुले च सविता च गुरुर्वयं च ॥ ९३ ॥’
अत्र विश्वंभरादिसंसर्गात् सीतायां वसिष्ठमिश्राः स्निह्यन्ति ।
औपमानिकी यथा—
‘कुवलयदलस्निग्धश्यामः शिखण्डकमण्डनो
बटुपरिषदं पुण्यश्रीकः श्रियैव सभाजयन् ।
पुनरिव शिशुर्भूत्वा वत्सः स मे रघुनन्दनो
झटिति कुरुते दृष्टः कोऽयं दृशोरमृताञ्जनम् ॥ ९४ ॥’
अत्र रामौपम्याल्लवे जनकः प्रीयते ॥
आध्यात्मिकी यथा—
‘परितस्तं पृथासूनुः स्नेहेन परितस्तरे ।
अविज्ञातेऽपि बन्धौ हि बलात्प्रह्लादते581 मनः ॥ ९५ ॥’