603

प्रीतिविशेषेषु नैसर्गिकी यथा—

‘आलक्ष्य दन्तमुकुलान577निमित्तहासा- नव्यक्तवर्णरमणीयवचःफ्र्वृत्तीन् ।
अङ्काश्रयप्रणयिनस्तनयान्वहन्तो धन्यास्तदङ्गरजसा 578मलिनीभवन्ति ॥ ९२ ॥’

579अत्र यदा यदा रतिर्जायते तदा तदा पुत्रेषु स्निह्यति पुत्ररूपेण वा जायत इति जन्मान्तरवासनारूपो निसर्गः संगच्छते ॥

सांसर्गिकी यथा—

‘विश्वंभरा भगवती भवतीमसूत राजा प्रजापतिसमो जनकः पिता ते ।
तेषां वधूस्त्वमसि नन्दिनि पार्थिवानां येषां 580कुले च सविता च गुरुर्वयं च ॥ ९३ ॥’

अत्र विश्वंभरादिसंसर्गात् सीतायां वसिष्ठमिश्राः स्निह्यन्ति ।

औपमानिकी यथा—

‘कुवलयदलस्निग्धश्यामः शिखण्डकमण्डनो बटुपरिषदं पुण्यश्रीकः श्रियैव सभाजयन् ।
पुनरिव शिशुर्भूत्वा वत्सः स मे रघुनन्दनो झटिति कुरुते दृष्टः कोऽयं दृशोरमृताञ्जनम् ॥ ९४ ॥’

अत्र रामौपम्याल्लवे जनकः प्रीयते ॥

आध्यात्मिकी यथा—

‘परितस्तं पृथासूनुः स्नेहेन परितस्तरे ।
अविज्ञातेऽपि बन्धौ हि बलात्प्रह्लादते581 मनः ॥ ९५ ॥’
  1. ‘निमित्तसारान्’ क, ‘निमित्तहासैः’ ख
  2. ‘परुषीभवन्ति’ ग
  3. ‘अत्र यदा रतिर्जायते तदा पुत्रेषु स्निह्यति’ ख
  4. ‘कुलेषु’ क ख
  5. ‘प्रह्नादते’ घ