604
अत्राविज्ञातोऽपि वासवः स्वसूनुमर्जुनं दृष्टः प्रीणयति ॥
आभियोगिकी यथा—
अत्र सीतान्वेषणादेरभियोगाद्रामस्य सुग्रीवबिभीषणयोः प्रीतिरुदयते584 । सांप्रयोगिकीस्थाने आभ्यासिकी यथा—
‘इति विस्मृतान्यकरणीयमात्मनः
सचिवावलम्बितधुरं नराधिपम् ।
परिवृद्धरागमनुबद्धसेवया
मृगया जहार चतुरेव कामिनी ॥ ९७ ॥’
अत्र
‘शब्दादिभ्यो बहिर्भूता या कर्माभ्यासलक्षणा ।
प्रीतिः साभ्यासिकी ज्ञेया मृगयादिषु कर्मसु ॥’
इति लक्षणं घटते ॥
आभिमानिकी यथा—
‘दत्तेन्द्राभयदक्षिणैर्भगवतो वैवस्वतादामनो-
र्दृप्तानां दहनाय दीपितनिजक्षात्त्रप्रतापाग्निभिः ।
आदित्यैर्यदि विग्रहो नृपतिभिर्धन्यं ममैतत्ततो
दीप्तास्त्रस्फुरदुग्र585दीधितिशिखानीराजितज्यं धनुः ॥ ९८ ॥’