559
उपसंख्यानमेतेषामनुभावेषु मन्वते ।
पश्चाद्भावानुभूतिभ्यां स्मरणाद्यनुभाववत् ॥ ४३ ॥
स्मृत्यादयोऽनुभावाश्च भावाः संचारिणश्च ये ।
नाट्येषु284 क्रियमाणास्ते नटैरभिनयाः स्मृताः ॥ ४४ ॥
भावो यदा रतिर्नाम प्रकर्षमधिगच्छति ।
नाधिगच्छति चाभीष्टं विप्रलम्भस्तदोच्यते ॥ ४५ ॥
पूर्वानुरागो मानश्च प्रवासः करुणश्च सः ।
पुरुषस्त्रीप्रकाण्डेषु चतुःकाण्डः प्रकाशते ॥ ४६ ॥
285प्रागसंगतयोर्यूनोरभिलाषः प्रवर्तते ।
संकल्परमणीयोऽनुरागः स प्राच्य उच्यते ॥ ४७ ॥
अहेरिव गतिः प्रेम्णः स्वभावकुटिलेति सः ।
अहेतोर्मेति286 नेत्युक्तेर्हेतोर्वा 287मान उच्यते ॥ ४८ ॥
देशान्तरादिभिर्यूनोर्व्यवधानं चिराय यत् ।
नवेऽनुरागे प्रौढे वा प्रवासः सोऽभिधीयते ॥ ४९ ॥
लोकान्तरगते यूनि वल्लभे वल्लभा यदा ।
भृशं दुःखायते दीना288 करुणः स तदोच्यते ॥ ५० ॥
रतिरेवेष्टसंप्राप्तौ पुष्टः संभोग उच्यते ।
सोऽपि पूर्वानुरागादेरानन्तर्याच्चतुर्विधः ॥ ५१ ॥
न विना विप्रलम्भेन संभोगः पुष्टिमश्नुते ।
कषायिते हि वस्त्रादौ भूयान्रागोऽनुषज्यते ॥ ५२ ॥
  1. ‘नाग्रेषु’ (?) क , ‘नाट्येऽनुक्रिमाणाः’ ख
  2. ‘प्रागसंकेतयोर्यूनोः’ ख
  3. ‘अहेतोर्नेति मेत्युक्ते’ क
  4. ‘स न उच्यते’ क
  5. ‘दीनः’ क