604

अत्राविज्ञातोऽपि वासवः स्वसूनुमर्जुनं दृष्टः प्रीणयति ॥

आभियोगिकी यथा—

582अज्ञातबन्धुरयमृक्षहरीश्वरो मे पौलस्त्य एष समरेषु पुरः प्रहर्ता ।
इत्यादृतेन कथितौ रघुनन्दनेन 583व्युत्क्रान्तलक्ष्मणमुभौ भरतो ववन्दे ॥ ९६ ॥’

अत्र सीतान्वेषणादेरभियोगाद्रामस्य सुग्रीवबिभीषणयोः प्रीतिरुदयते584 । सांप्रयोगिकीस्थाने आभ्यासिकी यथा—

‘इति विस्मृतान्यकरणीयमात्मनः सचिवावलम्बितधुरं नराधिपम् ।
परिवृद्धरागमनुबद्धसेवया मृगया जहार चतुरेव कामिनी ॥ ९७ ॥’

अत्र

‘शब्दादिभ्यो बहिर्भूता या कर्माभ्यासलक्षणा ।
प्रीतिः साभ्यासिकी ज्ञेया मृगयादिषु कर्मसु ॥’

इति लक्षणं घटते ॥

आभिमानिकी यथा—

‘दत्तेन्द्राभयदक्षिणैर्भगवतो वैवस्वतादामनो- र्दृप्तानां दहनाय दीपितनिजक्षात्त्रप्रतापाग्निभिः ।
आदित्यैर्यदि विग्रहो नृपतिभिर्धन्यं ममैतत्ततो दीप्तास्त्रस्फुरदुग्र585दीधितिशिखानीराजितज्यं धनुः ॥ ९८ ॥’
  1. ‘दुःखैकबन्धु’ क ख
  2. ‘व्युत्क्रम्य’ क ख ग
  3. ‘रुत्पद्यते’ क ख
  4. ‘दीधितिभरैनींराजितज्यं’ क ख