066 प्रतीतिस्तत एव भवन्ती ध्वननमुपस्थापयतीत्यादिकमस्माभिः काव्यप्रकाशविवरणे प्रपञ्चितम् । इह तु ग्रन्थगौरवभिया विरम्यते ॥

व्यासेनोक्तिस्तु विस्तरः ॥ ७३ ॥

यथा—

‘जनः पुण्यैर्यायाज्जलधिजलभावं जलमुच- स्तथावस्थं चैनं निदधतु शुभैः 7शुक्तिवदनैः ।
ततस्तां श्रेयोभिः परिणतिमसौ विन्दतु यथा रुचिं तन्वन्पीनस्तनि हृदि तवायं विलुठति ॥ ९१ ॥’

अत्र कथमहं त्वत्कुचतटे विलुठामीत्यभिप्रायस्य विस्तरेण प्रकाशितत्वादयं विस्तरः ॥

व्यासेनेति । यत्र स्तोकेऽपि वाच्ये वचनपल्लवश्चमत्कारकारी तत्र स एव गुणकक्षाधिरोहणक्षम इति शब्दगुणेषु युक्तो विवेक्तुमत एवोक्तिं विशेष्यतया निर्दिशति । जनः पुण्यैरित्यादौ कथमहमित्यादौ निर्दिष्टोऽपि वक्राभिप्रायरूपोऽर्थ उक्तिपल्लवेन प्रकर्षमानीयते । तथा हि जन इति तटस्थोक्त्या न ममेदृशानि भागघेयानि येनाहत्य मनो निर्वहति । पुण्यैरिति बहुवचनेनानेकजन्मोपात्तानामेवेदं फलम् । यायादिति संभावनाभिप्रायेण लिङा मुक्ताफलपरिणतियोग्यजलधिजलप्राप्तिसंभावनापि कस्यचिदेव धन्यजन्मन इति प्रकाशिते कोऽपि कारणप्रकर्षः । जलमुच इत्यनेन येषां न जलदानमेव व्यापारः, अपि तु विश्वसंतापच्छिदुराणामन्योपकारप्रवणतया शुक्तिमुखपर्यन्तमपि नयनमुपपद्यत इति । तथावस्थमित्यनेन यदैव स्मरावस्था तदैव जलधरैः पानमाशंसामात्रगोचरो न तु पूर्ववत्संभावनामात्रगोचरः, अत एव शुभैरिति समयविलम्बनस्य प्राक्तनपुण्यमानहेतुकत्वादित्यादि स्वयमवसेयम् । एतेन ‘पदर्थे वाक्यरचनम्’ इति यदन्यैर्गुणान्तरमभिहितं तद्विस्तारमेकमेव । घटनासौष्ठवमात्रोपयुक्तस्तु पल्लवो विशेषगुणेष्वस्माभिरभिधास्यते । त्वत्कुचतटे लुण्ठनमत्यल्पपुण्यस्य न संपद्यत इत्येतावानेवार्थो विवक्षाविषय इति कार्यविकासस्यैव चमत्कारार्पणे प्रागल्भ्यमिति शब्दप्रधानकतया युक्तमत्र परिसंख्यानमिति ॥

  1. ‘शुक्तिवदने’ इति मूलपुस्तकपाठः