071

विशिष्टेति । लोकोत्तराः सन्ति हि भणितिप्रकारा लोकप्रसिद्धाः । यथा सुप्तोऽसीति प्रश्ने गृहे देवकुले वेत्यादि । एतत्प्रसिद्धिव्यतिक्रमेण तु या काचित्कविप्रतिभया भणितिराकृष्यते सा भवति लोकोत्तरा । तथा च प्रतिभाकृष्टतया चमत्कारित्वाद्गुणत्वम् । अत एव कवय इत्याह । कविसहृदयानामेव तादृशोक्तिपरिचयसंभवात् । तथा हि—प्रकृतोदाहरणे कुशलप्रश्ने कुशलं वेति लोकप्रसिद्धमतस्तदेव वक्तुमर्हति । यत्तु तदपहाय जीवतीत्युपात्तमपरत्रापि प्रश्ने तथैवोक्तं तत्प्रतिभाकृष्टतया सामिप्रायमुन्नीयत इत्याह—अत्र कुशलमकुशलमित्यादि ॥

संप्रति प्रकर्षकाष्ठालक्षणं वाक्यस्य गुणं लक्षयति—

उक्तेः प्रौढः परीपाकः प्रोच्यते प्रौढिसंज्ञया ।

यथा—

‘अभ्युद्धृता वसुमती दलितं रिपूरः क्षिप्तक्रमं कवलिता बलिराजलक्ष्मीः ।
अत्रैकजन्मनि कृतं यदनेन यूना जन्मत्रये तदकरोत्पुरुषः पुराणः ॥ ९८ ॥’

अत्र प्रकृतिस्थकोमलकठोरेभ्यो नागरोपनागरग्राम्येभ्यो वा पदेभ्योऽभ्युद्धृतादीनां ग्राम्यादीनामुभयेषां वा पदानामावापोद्वापाभ्यां सन्निवेशचारुत्वेन योऽयमाभ्यासिको नालिकेरपाको मृद्वीकापाक इत्यादिर्वाक्यपरिपाकः सा प्रौढिरित्युच्यते । तथा चैतद्वाक्यं नालिकेरपाक इत्युच्यते । एवं सहकारमृद्वीकापाके अप्युदाहरणीये इति ॥

उक्तेरिति । उक्तेर्वाक्यस्यायं पाकः सा प्रौढिः । शब्दानां पर्यायपरिवर्तासहत्वं पाकः । यदाह—‘यत्पदानि त्यजन्त्येव परिवृत्तिसहिध्णुताम् । तं शब्दन्यायनिष्णाताः शब्दपाकं प्रचक्षते ॥’ इति । प्रौढ इति । उपक्रमोपसंहारयोर्निर्व्यूढः स चायं नायं नालिकेरसहकारमृद्वीकोपलक्षणैस्त्रिविधो गीयते । तद्यथा—नालिकेरफलं पक्वं त्वचि कठिनं शिरास्वविवृतकोमलप्रायं कपालिकायां कठिनतरं तथा कश्चित्संदर्भो मुखे कठिनस्तदनन्तरं मृदुप्रायस्ततः कठिनतरो नालिकेरपाक इत्युच्यते । तथा हि—प्रकृतोदाहरणे प्रथमपादेऽभ्युद्धृतेति वर्णचतुष्टयमारम्मे कठिनं ‘वसुमती दलि’