086

अत्राभीष्टस्य नायकनायिकासंगमस्य भङ्ग्या भणनमुक्तिः ॥

उक्तिरिति । स्वीयोऽभीष्टोऽर्थः स्वार्थः । तस्य साक्षात्प्रतिपादनमनुचितमिति अर्थान्तरभङ्गिभिः प्रतिपादनमर्थगुणः । भव्यो मनोहरः । सुगममन्यत् । नायकनायिकासंगमस्येति । नायकस्य नायिकया तस्याश्च नायकेनेति परस्परोत्कण्ठाप्रकर्षो विवक्षितः । तेनैकशेषो न भवति ॥

विवक्षितार्थनिर्वाहः काव्ये प्रौढिरिति स्मृता ॥ ८८ ॥

यथा—

‘त्वद्वक्त्रेन्दुविलोकनाकुलधिया धात्रा त्वदीयां श्रियं निक्षिप्य प्रतिराजकेषु विदुषां लक्ष्म्या त्वमापूरितः ।
तेनैते नियतं दरिद्रति गृहेष्वेषामियं दृश्यते नैनामाद्रियसे त्वमिच्छसि नु तां त्वामेव सा धावति ॥ १२२ ॥’

अत्र त्वद्वक्त्रविलोकनाकुलेन धात्रा त्वदीया लक्ष्मीः शत्रुषु निक्षिप्य विदुषां च लक्ष्मीस्त्वय्यारोपिता । 18अतस्त्वं विपक्षलक्ष्मीमाद्रियसे सा च त्वामनुधावति । या च विदुषां लक्ष्मीस्तया त्वमापूरितस्तेन ते दरिद्राः । अत एव त्वमेनां नाद्रियसे । इयं च विद्वद्गेहेष्वेव दृश्यते इत्येतावतः प्रभूतस्यार्थस्यानेकवाक्येन प्रतिपादितत्वाद्विवक्षितार्थनिर्वहणं प्रौढिः ॥

विवक्षितेति । कवेरभिमतस्य भूयसोऽप्यर्थस्य स्वल्पेनैव वाक्येन प्रतिपादनं प्रौढिः । तथा हि—त्वां निर्माय जगद्विलक्षणवस्तुनिर्वहणचमत्कृतस्य धातुस्त्वद्वक्त्रेन्दुविलोकनं तदासङ्गेन त्वदर्थनिर्भितायाः श्रियः प्रतिराजकेषु भ्रमणक्रमेण संचारणं तत्पूर्वापरप्रतिसंघात (न)बलाद्विद्वभ्द्यो लक्ष्मीमाकृष्येत्यादिको भूयानर्थः स्तोकेन वाक्येनोपनीत इति ॥

  1. ‘यतः’ ग