099

अत्र जन्मभूमिसंबाधसुभगभगिनीशब्दानामश्लीलार्थान्तरत्वेऽपि प्रथमार्थप्रभावभावनागुप्तत्वाद्गुणत्वम् ॥

यदाह—

‘वस्तुमाहात्म्यगुप्तस्य पदार्थस्य28 विभावनात् ।
भगिनीभगवत्यादि नासभ्यत्वेन भाव्यते ॥’

यस्य पदस्य व्युत्पत्तिलभ्यमर्थान्तरं ग्राम्यम्, यस्य वा समभिव्याहारलभ्यम्, तत्र गोपनं समाधानबीजम् । तदुभयं भवति रूढेर्वा बलवत्त्वं जलधरादिष्विव तथा तात्पर्योन्नयनप्रतिबन्धेन विपरीतार्थतात्पर्योन्नयनपर्यवसानं वा । यथोदाहरिष्यमाणे तथा च प्रतीतेरप्रत्यूहे दूषणताबीजाभावस्तत्र प्रथमकक्षापक्षीकरणेनाद्यमुदाहरति । रूढ्युपस्थापितः प्राथमिकोऽर्थस्तस्य भावो झटिति वाक्यार्थज्ञानं तस्य भावना वासना तया गोपनं चमत्कारार्पणमतिरोधानम् । अमुमेवार्थमाचार्यमतेन स्वहस्तयति—वस्तुमाहात्म्येति । अविभावनादिति । विरुद्धं व्रीडादायितया भावनं तस्याभावात् । तेन क्वचिद्योगोपादानेऽपि तथाभावसंपत्तौ न दोषः । एतदेवोदाहरणेन स्फुटयति—भगिनीति । एतेन भगवतीति पूर्वानुपात्तमुदाहरणं व्याख्यातम् । द्वितीयगोपनमशस्तार्थान्तरे व्यक्तीभविष्यतीति ॥

लक्षिते यथा—

‘ब्रह्माण्डकारणं योऽप्सु निदधे बीजमात्मनः ।
उपस्थानं करोम्येष तस्मै शेषाहिशायिने ॥ १४३ ॥’

अत्र ब्रह्माण्डोपस्थानशब्दयोरसभ्यस्मृतिहेतुत्वेऽपि अन्यत्र लक्षितत्वाद्गुणत्वम् ॥

यस्य पदस्यैकदेशो ग्राम्यानुगामी तस्य स्मृतिहेतुता । तत्र कुत्रचिदुक्तिवैचित्र्यादेकदेशो झटिति स्मारकः, क्वचित्तथैव समुदायशक्त्या विपरीतार्थोपस्थापनाज्झटिति स्वार्थं समुदाय एव प्रतिपादयति । आद्यो दूषणम् । द्वितीयस्तु वैजात्याभावाद्गुणः । तदेवं लक्षणं यत्राद्ये ग्राम्यत्वं ततोऽन्यत्रैव बहुधा लक्षणात्तदिदमुक्तम्—अन्यत्र लक्षितत्वादिति ॥

  1. ‘स्याविभावनात्’ इति पाठष्टीकानुसारी भवेत्