113 वसरः । कथं परमार्थवादिन्युत्तरं दातव्यमित्यनुपपत्तावयं समाधानप्रकारो भवति । अस्ति ग्राम्यस्य ‘किल श्रूयते’ इत्येताभ्यां संदिहानत्वं किंचिव्द्युत्पन्नत्वं चोन्नीतमिति किमप्यलीकमेव बुद्धिकौशलात्तथा प्रतीयमानमभिधाय प्रतारणमुपपद्यते । तन्मात्रपरत्वाच्च सर्वाकारमधिकाव्युत्पत्तिराहत्य दर्शयितुमर्हतीति तर्कितमित्यादिपदे यावती ग्राम्यस्य व्युत्पत्तिस्ताबदनुकरणं कियदधिकव्युत्पत्तिपुरस्कारमर्हतीत्याशयवानुत्तरमवतारयति—अथेति । पादस्तर्कितमित्यादिग्राम्यप्रयुक्तस्तस्यानुरोधो व्युत्पत्त्यनुकरणम् । पच्छा पश्चात् । ऐ एषः । ‘ऐ दूए’ इति पाठे दूअं व्याजोऽनेन व्याजेन । भूतपतिः पशुपतिः । ननु न क्वचिदेवं श्रूयते तत्कथं ग्राम्यस्य प्रबोधो भवतीत्याह—गौरीविवाहोत्सव इति । मा श्रूयतामुपपत्त्या तु सिद्धो द्वितीयो यदि कामप्रादुर्भावो न स्यात्कथं गौरीपाणिग्रहे भगवत उत्साह इत्यतस्तेनैव करुणासंतानशान्तात्मना भूयः सृष्टः स्यादित्यर्थः । पच्छेति प्रकृतिस्थम्, ऐ इति कठोरम्, किअलेउ इति कोमलम्, भूतपतिनेति तथा, गौरीविवाहोत्सव इति प्रकृतिस्थम् । 'एँदूएँ’ इति पाठे द्वयमपि कठोरम् । तदत्र कठोरनिवेशनं व्युत्पत्त्याधिक्यसूचनाय । एतावत्युक्ते परीक्षणव्युत्पत्तिर्न किंचिद्ग्राम्यं प्रतिभाति । न च तस्याद्यापि निःशङ्कता वर्तते । ततो नागरकप्रामाण्यदत्तभरः प्रश्नो घटत इत्याशयवानवतारयति—अथ ग्राम्य इति । प्रकृत्यापन्न एव, तेन यथा प्रथमं ‘हा तो’ इत्यादिप्रश्ने गतिस्तथात्रापीति ग्राम्यप्रकृतिस्थयोरुपन्यासः । भाषाचित्रेण परस्परसंघर्षादेककाव्यरचनाप्रवृत्तयोर्ग्राम्यस्यापि श्लोकश्लोकसमाप्तिपदारम्भो योग्य एव । यदि चायमेव समस्तं निर्वाहयन्नशेषशङ्कानिवृत्त्युपयुक्तमुत्तरं नागरस्य निवेशितं स्यादिति तदुत्तरानुरोधेन पादार्ध एव विलम्बोऽप्युचितः । ‘ऐसें’ एवमित्यत्रार्थे काकुगर्भम् । ‘सच्च जि बोल्लु’ इति जिरवधारणे । सत्यमेवैतदुक्तम् । यदि सत्यपुरःसरं ब्रूयास्तदा प्रत्येमीत्यर्थः । एवं ग्राम्यताप्रतारणसिद्धौ किमत्र सर्वलोकसाक्षिके वस्तुनि वक्रोक्त्यैव पूर्वव्युत्पत्तिमात्रनिवेशनेनोत्तरं दत्त्वा श्लोकपूरणमेव नागरस्योचितमित्याशयेनोत्तरमवतारयति—अथेति । हस्ते इति प्रकृतिस्थम्, कटकमिति कोमलम्, दर्पणेनेक्ष्यते इत्येते प्रकृतिस्थे, इति प्रकृतिस्थादीनां सुपरिचेयत्वाद्ग्राम्यादीन्येव व्याचष्टे—तत्र चेति । प्रकृतिव्यतिकराव्यतिकरत्वयोरौचित्यापन्नत्वाद्भाषासंकरः शोभावहत्वेन गुण एव भवतीत्युक्तमुपसंहरति—तदिति ॥

वाक्यान्तरसगर्भं यद्वाक्यं तद्वाक्यगर्भितम् ।
रसान्तरतिरस्कारे तदिष्टं नेष्टमन्यथा ॥ ११९ ॥