115 प्रघट्टकेन सूत्रेण संनिपातितैरपि हास्यकरुणभयानकैर्न तिरस्कारः, ‘स्वाङ्गमव्यवधायकम्’ इति न्यायात्, तथेह वीरस्याद्भुतेनात एवाद्भुतादुद्वेलस्य प्रादुर्भूतपुत्रकाङ्कुरलक्षणानुभावप्रदर्शनम्—‘पश्यत’ इति । न चात्र दोषोदाहरणे ‘मया’ इति कारकविभक्तेरुत्थिताकाङ्क्षाया ‘रक्षैनम्’ इत्यादिना स्वरसंबाधस्तथात्र संभवति, 'सिद्धा’ इत्येतावत्यपि दर्शिते वाक्यार्थपर्यवसानात् । न च संपूर्णे रसे ‘वदन्त एव’ इत्यादिकमभिधातुमर्हति । अद्भुतता च पार्थिवानुभावस्य तन्मात्रपूरणापेक्षत्वात् । एवं रसानुभावनातृप्तस्य तत्रैव पुनः पुनरुत्कण्ठायां जिगीषुकरणीयलव्धपात्रप्रतिपत्तिविशेषस्फोरणे ‘विप्राय प्रतिपाद्यते’ इत्युक्तम् । दानवीरोऽपि वीर एव । अत एवाधिकस्य कर्तव्यस्याभावे किमपरमित्यादिरुपसंहारः । तदेतत्सर्वं व्याचष्टे—अत्रेति ॥

यद्भिन्नलिङ्गमित्युक्तं विभिन्नवचनं च यत् ।
उपमादूषणं तन्न यत्रोद्वेगो न धीमताम् ॥ १२० ॥

यथा—

‘अन्यदा भूषणं पुंसः शमो लज्जेव योषितः ।
पराक्रमः परिभवे वैयात्यं सुरतेष्विव ॥ १६१ ॥’

अत्र ‘पुंसो योषित इव’ ‘शमो लज्जेव’ ‘पराक्रमो वैयात्यमिव’ इति लिङ्गभेदः । ‘परिभवे सुरतेष्विव’ इति तु लिङ्गभेदो वचनभेदश्च दृश्यते । स चैषामेव परस्परमुपमानोपमेयभावविवक्षायां पर्यायान्तराभावादन्यथाकर्तुं न शक्यत इति सहृदयानुद्वेजकत्वान्न दुष्यतीति दोषस्यापि गुणत्वम् । तदिदं द्वयोरप्येकमुदाहरणम् ।

अथ भिन्नलिङ्गस्यैव यथा—

‘यस्य त्रिवर्गशून्यानि दिनान्यायान्ति यान्ति च ।
स लोहकारभस्त्रेव श्वसन्नपि न जीवति ॥ १६२ ॥’

अत्र प्राग्वदेव पर्यायान्तराभावात् ‘स लोहकारभस्त्रेव’ इति लिङ्गभेदस्य न दोषः ॥