128 नायकस्य वासनापरिपाकवशाद्विप्रलम्भावेशेऽपि प्रथमं प्रादुर्भावः—‘क्वाकृत्यं शशलक्ष्मणः क्व नु कुलम्’ इति । तदेवं शान्तरसानुयायिनमनन्तरमेव बाधित्वा चित्तानुरञ्जकप्रकृतरसाव्यभिचारिणा औत्सुक्यस्य प्रादुर्भावः—‘भूयोऽपि दृश्येत सा’ इति । एवं ‘दोषाणामुपशान्तये श्रुतम्’ इत्याद्यौचित्यादीनां पूर्वपूर्वप्रादुर्भूतानामुत्तरोत्तरभाविभिश्चिन्ताप्रभृतिभिरपवादे प्रकृतवासना प्रौढिरवसेया । उन्मत्तवचनत्वादिति । रसाविष्टचेतसस्तदुत्कलिकाप्रायाणां भावानामव्यवस्थया कीर्तनमुन्मादः ॥

95यदप्रयोजनं यच्च गतार्थं व्यर्थमेव यत् ।
तस्यापि क्वापि निर्दोषः प्रयोगो दृश्यते यथा ॥ १३७ ॥

यथा—

‘गीता विदुरवाक्यानि धर्माः शान्तनवेरिताः ।
न श्रुता भारते येन तस्य जन्म निरर्थकम् ॥ १७८ ॥’

अत्र गीताविदुरवाक्यादीनां कथायामप्रयोजकत्वेऽपीतिहासव्याजेन चतुर्वर्गप्रतिपादनस्यारम्भ एव प्रतिज्ञानाद्गुणत्वम् । तदिदमप्रयोजनम् ॥

यद्प्रयोजनमिति । प्रबन्धार्थपोषा96नाधायकवाक्यमप्रयोजनम् । अर्थंलाभप्रतिपादकतया कृतकरं व्यर्थम् । एवकारो भिन्नक्रमस्तच्छब्दानन्तरं द्रष्टव्यः । दृश्यत इत्यनेन तत्र तत्र प्रकृतसंगतौ सत्यां दोषाभावोऽवसेय इति दर्शितम् । यद्यपि भगवद्गीतायां मोक्षाधिकारिणामस्त्येव प्रकृतशान्तरसपरिपोषकत्वम्, तथापि तदन्तर्गतानां भूयसामाहत्य नास्ति । भीष्मविदुरवाक्यानां तु धर्माधिकारे प्रकृतानां व्यक्त एव निष्प्रयोजनप्रस्तावः97 । सोऽयं यथा समाधीयते तद्विवृणोति—अत्रेति । इतिहासरूपे प्रबन्धे सत्यपि शान्तस्य वाक्यार्थाभावेन बहूनामितिहासानां त्रिवर्गाधिकारित्वाच्चतुर्वर्गप्रतिपादनमेव महर्षेरभिमतम्, धर्मादित्रितयस्य च प्रासङ्गिकतया न पूर्ववदस्यार्थैकताविरोधः । तदिदमुक्तम्—व्याजेनेति । एवं च व्युत्पादयितव्यविषयजिज्ञासोपादाने धर्मार्थप्रवृत्तये वाक्यमिदं सफलतामासादयद्गुण एव भवति ॥

  1. ‘प्रयोजकं’ ग
  2. ‘पोषो नाधायक’ पाठः
  3. ‘स्तावः’ पाठः