129

एवं गतार्थमपि यथा—

‘हृत्कण्ठवक्त्रश्रोत्रेषु कस्य नावस्थितं तव ।
श्रीखण्डहारकर्पूरदन्तपत्रप्रभं यशः ॥ १७९ ॥’

अत्रैकेनैवोपमानेन 98शौक्ल्यप्रतीतौ शेषोपमानपादानां व्यर्थत्वेऽपि यशसः स्मर्यमाणत्वगीयमानत्वस्तूयमानत्वश्रूयमाणत्वैर्हृदयादिषु श्रीखण्डादिवदनस्थानस्य प्रतीयमानत्वाद्गुणत्वम् ॥

एवं गतार्थमपीति । श्रीखण्डेनैवोपमाने यशसः शुद्धत्वमवगतं श्लेषोपमानपदानि केवलकृतकराणीति व्यर्थत्वप्रसङ्गे स्मरणादिविशेषविवक्षया तिरस्क्रियते, यथासंख्यादिभङ्गिसौभाग्येन च गुणीभाव इति ॥

अविशेषेण पूर्वोक्तं यदि भूयोऽपि कीर्त्यते ।
तदेकार्थं रसाक्षिप्तचेतसां तन्न दुष्यति ॥ १३८ ॥

यथा—

‘असारं संसारं परिमुषितरत्नं त्रिभुवनं निरालोकं लोकं मरणशरणं बान्धवजनम् ।
अदर्पं कन्दर्पं जननयननिर्माणमफलं जगज्जीर्णारण्यं कथमसि विधातुं व्यवसितः ॥ १८० ॥’

'असारं संसारम्’ इत्युक्त्वा ‘परिभुषितरत्नं त्रिभुवनं निरालोकं लोकम्’ ‘जगज्जीर्णारण्यम्’ इति यदुक्तम्, तस्य विशेषानभिधायकत्वेऽपि रसाक्षिप्तेन वक्त्राभिहितत्वाद्गुणत्वम् ॥

अविशेषेणेति । पूर्वोक्तपूर्वोक्ताभिन्नतात्पर्यकमविशेषेण तात्पर्यावृत्तिप्रयोजनमन्तरेण तन्मयीभवनं चेतस आक्षेपः । ‘असारं संसारम्’ इत्यनेन स्थावरजङ्गमप्रपञ्चस्य निःसारतां प्रतिपाद्य ‘जातौ जातौ यदुत्कृष्टं तद्धि रत्नं प्रचक्षते’ इति । 'परिभुषितरत्नम्’ इत्यत्रापि तावानेव तात्पर्यार्थः । एवं ‘निरालोकं लोकं', ‘जगज्जीर्णारण्यम्’ इत्यत्रापि द्रष्टव्यम् । सुगममन्यत् ॥

  1. ‘शुभ्रत्व’ ग