031

यथा—

‘अनङ्गकमलंचक्रे मयमाना मरालिका ।
यस्यानत्यर्जुनाब्जन्म सदृक्षाङ्को वलक्षगुः ॥ ४४ ॥’

अत्र शब्दानामनतिप्रसिद्धत्वादनतिप्रसन्नत्वमिति सोऽयमर्थप्रधानः प्रसादविपर्ययो दोषः ॥

या तु कान्तीति । ‘कान्तिप्रसादार्थव्यक्तीनाम्’ इति प्रमादात्पाठः । विवरणक्रमानुरोधेन ‘प्रसादार्थव्यक्तिकान्तीनाम्’ इति पठनीयम् । अप्रसन्नमिति । श्रुतमात्रस्यैव यस्यार्थश्चित्ते प्रतिफलति स प्रसन्नः शब्दः । तथा चार्थस्य प्राकट्यं झटिति प्रतिबन्धयोग्यत्वम् । ‘पश्चादिव गतिर्वाचः पुरस्तादिव वस्तुन’ इति सहृदयव्यवहारार्थविषयत्वं प्रसादोऽर्थनिरूपणीय इति भवत्यर्थप्रधानः । न चासौ पदमात्रमुल्लिखतीति वाक्यांशो भवति । तेन तद्विपर्ययोऽपि वाक्यगामी । ‘अर्थस्य यन्न झटिति प्रतीतिरुपजायते । तत्र तत्र महाराज शब्द एवापराध्यति ॥’ इति वाक्यदोषेषु परिगणनमभ्यच्छतया च शब्दानां प्रतीतिः स्खलन्ती दूषणतामस्य स्थापयति—अनङ्गकमिति । न विद्यतेऽङ्गं यस्येत्यनङ्गकमाकाशं मयमाना गच्छन्ती । अयमयेति दण्डकेषु पठितान्मयधातोः शानच् । मरालिका हंसी । अलंचक्रे शोभितवती । ननु हंस्यागमनपथालंकरणकालो रात्रिस्तस्यां च तुषारकिरण एव तदलंकारकारी किमनया वराक्येत्यत आह—यस्येति । यदनत्यर्जुनं न भवति अब्जन्म तोयभवम् । नीलोत्पलमिति यावत् । तत्सदृशलाञ्छनो वलक्षगुर्वलक्षो गौः किरणो यस्य शुभ्रांशुश्चन्द्रः । तेनासौ सकलङ्कतया न तथालंकाराय यथेयमित्यर्थः । पश्येति वाक्यार्थकर्मकमेके पठन्ति । तन्न युक्तम् । चक्र इति परोक्षतया स्वरसभङ्गापत्तेः । उक्तयुक्त्या वाक्यदोषत्वमाह—अत्र शब्दानामिति । न च मयमानादीनां श्लिष्टता । तल्लक्षणाविरहात् । नापि गूढार्थत्वं तत एव ॥

वाक्यं भवति नेयार्थमर्थव्यक्तेर्विपर्ययात् ॥ ३४ ॥

यथा—

‘मही महावराहेण लोहितादुद्धृतोदधेः ।
इतीयत्वेव निर्दिष्टे नेया लौहित्यहेतवः ॥ ४५ ॥’

तदिदं निगदेनैव व्याख्यातमित्यर्थप्रधानोऽयमर्थव्यक्तिविपर्ययः ॥