182
भ्रूविभ्रान्तिर्मदनधनुषो विभ्रमानन्ववादी- द्वक्रज्योत्स्नाशशधररुचं दूषयामास यस्याः ॥ ६७ ॥’

अत्र पत्रप्रदानपूर्वपक्षोपन्यासानुवाददूषणोद्भावनानां बुधजनप्रसिद्धक्रमेण रचितत्वादियं क्रमरचना ॥

नीलाब्जेति । पत्रदाने स्पर्धा व्यज्यते । सा च सादृश्यपर्यवसायिनीति प्रतीयमानोपमा । इभकुम्भपूर्वपक्षीकरणेन कुचाभोगस्य सिद्धान्तभावोऽवगम्यते । तथा च व्यतिरेको ध्वनितः । अनुवादेनाप्युपमा प्रतीयते दूषणेन व्यतिरेक इति प्रकृतपर्यवसाने समासोक्त्या यत्र दानादीनां विद्वद्वादिप्रसिद्धानां शब्दानभिधेय एव क्रम उपाधिभूतो ग्रथित इत्युदाहरणव्याख्यानग्रन्थार्थः ॥

पर्यायकृता यथा—

‘कणइल्लि च्चिअ जाणइ कुन्तपलस्साइ कीरसंलवई ।
पूसअभासं मुञ्चसु ण हु रे हं धव्ववाआडी ॥ ६८ ॥’
[शुक्येव जानाति शुकप्रलपितानि कीरसंलापिनी ।
कीरभाषां मुञ्च न खलु रेऽहं धृष्टशुकी ॥]

सेयं शुकनामपर्यायाणामर्थानुगुण्येन रचितत्वात्पर्यायरचना ॥

कणइल्लि च्चिअ इति । केनचिद्विटेन शुकभाषामनुकुर्वता प्रियायाः परिहास आरब्धः । सा तस्य दुर्विदग्धत्वमाकलयन्ती तदुचितमुत्तरमदात् शुकप्रलपितानि किल शुकी जानाति नान्या । न चाहं शुकी । ततो विफलस्तवायं प्रयास इत्यर्थः । अत्र कुन्त-कीर-पूस-शब्दाः शुकपर्यायाः । कणइल्ली-वाआडी-शब्दौ शुकीपर्यायौ । तत्रापि कीरशब्दस्तत्समः । अन्ये देशीरूपाः । तदेतेषां पर्यायाणां यथोक्तरूपानुगुणानामेकत्रवाक्ये गुम्फनमेव कविसंरम्भगोचर इति ॥

पदकृता यथा—

‘लोलल्लाङ्गूलवल्लीवलयितबकुलानोकहस्कन्धलोलैर्गोलाङ्गूलैर्नदद्भिः प्रतिरसितजरत्कन्दरामन्दिरेषु ।
खण्डेषूद्दण्डपिण्डीतगरतरलनाः प्रापिरे येन वेलामालम्ब्योत्तालतल्लस्फुटितपुटकिनीबन्धवो गन्धवाहाः ॥ ६९ ॥’