188

अत्र श्रावणादीनामिति । प्रकीर्णं विकीर्णमनेकत्र प्रतीतमिति यावत् । तद्द्विविधम्—कालतः, देशतश्च । अत्र हि श्रावणादिमासर्तुषट्कस्य युगपदसंभवत एकत्र विरहिणीशरीरे युगपद्भावो निबद्धः, सगुणवृत्तिव्यपाश्रयेण श्रावणादिपदे प्रतिपाद्यमानः प्रवासविप्रलम्भप्रकर्षमावेदयतीति । एवं देशविकीर्णघटनाप्युदाहार्या । यथा—‘अमृतमभृतं चन्द्रश्चन्द्रस्तथाम्बुजमम्बुजं रतिरपि रतिः कामः कामो मधूनि मधून्यपि । इति न भजते वस्तुप्रायः परस्परसंकरं तदियमबला धत्ते भावान्कथं सकलात्मकान् ॥’ यस्त्वत्र सिद्धादिभेदः कश्चिदुपवर्णितः स तथा न चमत्कारकारीति ग्रन्थगौरवभयादुपेक्षितोऽस्माभिः । तत्तदनेकासाधारणरूपाण्यपि प्रकीर्णानि प्रकीर्णपदेन ग्राह्याणि । तेषामनुक्तान्य (?) तया वोपग्रहोऽपि प्रयुज्यत इत्याह—प्रकीर्णशब्दश्चायमिति । व्याख्यानान्तरप्रयोजनमाह—तेनेति । शब्दस्यार्थप्रतिपादनशक्तिरभिधा । सा त्रिधा—मुख्या, गौणी, लक्षणा च । तासु मुखमिव प्रथमं यस्यामर्थः प्रतीयते सा मुख्या, तथाभूतार्था तद्भावापत्तिश्च । तत्रावान्तरार्थसंबन्धविषया तथाभूतार्था । यथा—‘स्वात्मेन्दुवह्निपवनार्कमहीपयोभिरष्टाभिरेव तनुभिर्भवता समस्ते । व्याप्ते जगत्यपरमिच्छति योऽत्र वक्तुं कोऽन्यो गतत्रपतया सदृशोऽस्ति तेन ॥’ सैवार्थान्तरस्वार्थसंबन्धविषया तद्भावापत्तिः । अतथाभूतस्य तथात्वापादनं हि सा । अत एव स्वतोऽन्यतो वा स्वार्थावच्छिन्नस्य साक्षादभिधानशक्तिरेव मुख्येत्याचार्याः । यथा—‘कमला अण्णसणीआ हंसा उड्डाविआण अपि उच्छा । केण वि गामतडाए अब्भं उत्ताणअं वूढम् ॥’ गुणव्यवहितार्था गौणी । [साद्विधा] गुणनिमित्ता उपचारनिमित्ता च । तत्र द्वयोर्द्रव्यवचनयोर्यत्र सामानाधिकरण्येन वैयधिकरण्येन वा प्रयोगे विशेषणविशेष्यभावान्यथानुपपत्त्या प्रतीयमानाभिधीयमानगुणद्वारकसंबन्धो भवति सा गुणनिमित्ता । यथा—‘पडिवक्खमण्णुपुञ्जे लावण्णकुडे अणङ्गगअकुम्भे । पुरिससअहिअअभरिए कीस खलन्ती थणे वहसि ॥’127 मुख्यया गौण्या वान्यविशेषणस्यान्यत्र प्रयोग उपचरिता सापि गुणयोगमुपजीवन्ती गुणवृत्तिरेव । एतावांस्तु विशेषो यद्गुणनिमित्तायामभिधेयगुणयोगः, इह तु स्वाभिधेयविशेष्यगुणयोग इति । यथा—‘परार्थे यः पीडामनुभवति निर्व्याजमधुरो यदीयः सर्वेषामिह खलु विकारोऽप्यभिमतः । न संप्राप्तो वृद्धिं सपदि भृशमक्षेत्रपतितः किमिक्षोर्दोषो यन्न पुनरगुणाया मरुभुवः ॥’ स्वार्थसंबन्धव्यवहिता

  1. ‘प्रतिपक्षमन्युपुञ्जौ लावण्यकुटावनङ्गगजकुम्भौ । पुरुषशतहृदयधृतौ किमिति स्खलन्ती स्तनौ वहसि ॥’ [ इति च्छाया ।]