189 लक्षणा । तदुक्तम्—‘अभिधेयाविनाभूतप्रतीतिर्लक्षणेति या । सैषा विदग्धवक्रोक्तिजीवितं वृत्तिरिष्यते ॥’ सा द्विधा—शुद्धा, लक्षितलक्षणा च । तत्र साक्षात्स्वार्थसंबन्ध्यविनाभूतविषया शुद्धा । यथा—‘यत्तालीदलपाकपाण्डुवदनम्’, 'अभिनवकरिदन्तच्छेदपाण्डुः कपोलः’ इति । यया पूर्वपूर्वलक्षितमेव लक्ष्यते सा लक्षितलक्षणेति केचित् । यथा—‘मधु द्विरेफः कुसुमैकपात्रे’, ‘भीमो भीमपराक्रमः’ इति । अत्र हि द्विरेफादिना शब्देन लक्षित एव भ्रमरप्रभृतिर्लक्ष्यते न तु कुररादिः । अन्ये तु लक्षणाव्यवहिता लक्षणा लक्षितलक्षणेत्याहुः । यथा—‘सुवर्णपुष्पां पृथिवीं चिन्वते पुरुषास्त्रयः । शूरश्च कृतविद्यश्च यश्च जानातिं सेवितुम् ॥’ तद्भावापत्त्यादिविशेषसमभिव्याहारेण मुख्यादिशब्दास्तदितरतथाभूतत्वागोचरा इति पूर्ववव्द्याख्येयम् । क्व पुनः पदैकावृत्तिरित्यत आह—अत्रेति । ‘एक्कहि अच्छिहिं अण्णहिं महिअलसत्थरे गण्डत्थले अङ्गहिं’ इत्यादि षडाधारवचनाः । अत्र यद्यपि गण्डस्थलपदं गौणमेव, तथाप्यनादिप्रयोगयोगितया मुख्यकल्पमिति षट्स्वाधारवचनेष्वित्युक्तम् । अङ्गादिपदानि च स्वार्थविशिष्टान्यपराण्येव प्रयुक्तानीति मुख्यैव वृत्तिः । एवं मुग्धाया इति संबन्धिपदेऽपि । 'सुहच्छितिलवणे मुहपङ्कअसरि’ इति द्वावाधारवचनौ शेषौ । अत्र तिलवनसरःपदयोः स्नेहनिर्भरत्वसरसत्वलक्षणगुणद्वारकैव सुखासिकामुखपङ्कजयोर्वृत्तिः । मुखपङ्कजसरसीत्यत्र यद्यपि पदद्वयं गौणं तथापि पङ्कजपदस्य वृत्तिरभिधातुल्येति न कविसंरम्भगोचरस्तेन व्यवहारोऽयुक्तः । ‘सावण-भद्दवअ-माहव-मग्गसिरु’ इति चत्वारो मासवचनाः । ते च स्वार्थसंबन्धव्यवहितं वर्षाप्रभृतिसभुदायं लक्षयन्तीति वक्ष्यमाणरीत्या वर्षादयः षडाधेयवचनास्ते च विरहवतीशरीरे युगपच्चासंभवदवस्थितयो जलादिसंपदादिस्वस्वप्रवृत्तिनिमित्ताध्यासेन प्रयुज्यमानास्तद्भावापत्तिरूपां वृत्तिमासादयन्ति । अस्याश्च विवर्तपरिणामाध्यासादयः षट्प्रकारा गौरवभिया न दर्शिताः । श्रुतार्थानुपपत्तिमूला कल्पना श्रुतार्थापत्तिः । राजादेरासिते आवासितशब्दो मुख्यवृत्त्यैव विशेषणतया रूढः । स स्वविशेषगुणव्यवहितेऽर्थान्तरे प्रयुक्तो गौणीवृत्तिमनुभवन् वसन्तादेरपि विशेषणतामासादयति । लक्षणाव्यवहिता लक्षणा लक्षितलक्षणा । सा कथमावासितेतिशब्दे संपद्यत इत्यत आह—स उपचारेणेति । कथंचित्सारूप्येण श्रावणादिषु प्रयोगादुपचारस्तमुपजीव्य प्रयुक्तः स्वार्थाविनाभूतं महत्त्वादिकं प्रकृतेषु लक्षणया संक्रामयतीति । आद्या लक्षणा तव्द्यवहितां द्वितीयामाह—प्रस्तुताया अपीति । आवासितस्यापि हि यथोक्तविशेषणस्य