206

मध्ययमकं पुनरनुल्लेखीति परिह्रियते ॥

रमणं वल्लभं मुदा हर्षेणान्वीतं संगतं कर्तुं क्षमा इत्यन्वयः । उदारमुत्कृष्टम् । मदेन भ्रमन्ती श्यामान्ता । अदभ्रं विपुलम् । अत्र यद्यपि चतुर्षु पादेषु यमकमस्ति, तथापि द्वयोर्द्वयोरेवावृत्तिः पर्यवस्यतीत्युदाहरणद्वयमिदं द्रष्टव्यम् । एवं प्रथमतृतीययोः प्रथमचतुर्थयोर्द्वितीयतृतीययोर्द्वितीयचतुर्थयोश्च व्यपेतमादियमकमवसेयम् । अनुल्लेखो व्याख्यात एव ॥

अन्तयमकं यथा—

‘इह मुहुर्मुदितैः कलभै रवः प्रतिदिशं क्रियते कलभैरवः ।
स्फुरति चानुवनं चमरीचयः कनकरत्नभवां च मरीचयः ॥ ११७ ॥’

कलभाः करिशावकाः । रवः शब्दः । कलो मधुराव्यक्तः । भैरवो भयंकरः । अनुवनमिति वीप्सायामव्ययीभावः । चमरी चमरगवी । चयः समूहः । मरीचयः किरणाः । अत्रापि पूर्ववदेव द्विपादयमकं व्याख्येयमिति ॥

एकपादयमकमिह शुद्धं न संभवति, तस्य स्थाने द्विपादयमकमेवोदाहियते । तदादियमकं यथा—

‘मधुरेणदृशां मानं मधुरेण सुगन्धिना ।
सहकारोद्गमेनैव शब्दशेषं करिष्यति ॥ ११८ ॥’

इहापि मध्ययमकमनुल्लेखीति परिह्नियते ।

एकपादयमकमिति । नैरन्तर्येणावृत्तावव्यपेतत्वम् । सान्तरत्वे त्वादिमध्यादिभावप्रसङ्ग इति शुद्धं न भवति तत्किमनुदाहरणीयमेवैतदित आह—तस्येति । आवृत्तिरेकत्रैव संभवतीत्येकपादगोचरता । सा तु प्रतियोगितया द्वितीयमपेक्षत इति पादान्तरस्वीकार इति कथंचित्प्रकृतिगणनासमाधानमेतत् । मधुश्चैत्रः । अनेन पूर्वावयवेन वसन्तो लक्ष्यते । एणदृशां हरिणलोचनानाम् । मधुरेण मधुरास्वादेन । सहकारोद्गमेनैवेत्येवकारेणासतामतीव तावद्विख्यातप्रभावातिशयाः पिकपञ्चमादयः । सहकारप्रथमोद्भेदमात्रेणैव तु मानिनीमानग्रहवार्ता निरवशेषितेत्युद्दीपनताप्रकर्षो ध्वन्यते ॥