211 शशानां च ललनं क्रीडनं यत्र सा । नौ आवयोरबन्धुं वैरिणं धुनाना नाशयन्ती हि निश्चितं मम हितं तनोति सा । अविद्यमानमाननं मुखं यस्य सः । मुखं विनैव जायमान इत्यर्थः । ईदृशो यः स्वस्वनः शब्दस्तत्र अनाः प्राणा यस्यां सा । उदकशब्दवतीत्यर्थः ॥]

विविधेति । विविधानि धववनानि यस्यां सा तथा । धवो विट्खदिरः । नागान् सर्पान् हस्तिनो वा गृध्यन्त्यभिलषन्तीति नागगर्धाः । अर्द्धा उपचिता नानावयो विचित्राः पक्षिणस्तैर्विततं व्याप्तं गगनं यस्यां सा तथा । कल्लोलपरम्पराभिरनामं नमनशून्यम् । मज्जन्तः स्नान्तो जना यस्यां सा । अना स्त्रीरूपा । रुरूणां शशानां च ललनमुत्फालो यस्यां सा तथाभूता । नौ आवयोरबन्धुं शत्रुं धुनाना क्षिपन्ती । हरिप्रबोधे बलभद्रस्य कृष्णं प्रत्युक्तिः । यस्मान्मम हिततना हितं तनोति । अनाननो मुखशून्यः यः स्व आत्मा तेन स्वनाना शब्दायमाना । शीले चानश् । ‘अनित्यमागमशासनम्’ इति मुगभावः । यदि वा अनाननो मुखं विना कृतः स्वकीयः स्वनो यस्याः सा । अनितीत्यना प्राणयुक्ता । अन्तर्णीतेवार्थं चैतत् । वर्णद्वयपर्यन्तमावृत्तिः सूक्ष्मता । सैवैकवर्णगोचरा सूक्ष्मतरा ॥

पादसंधावन्यभेदोच्छेदेन स्थूलं यथा—

‘उपोढरागाप्यबला मदेन सा मदेनसा मन्युरसेन योजिता ।
न योजितात्मानमनङ्गतापितां गतापि तापाय ममास नेयते ॥ १२८ ॥’

अत्रान्तादिसंदंशादव्यपेतं प्रवर्तते । व्यपेतं तु पादसंधिषु निवर्तत इत्यस्थानयमकमिदं स्थूलावृत्तेः, संधिस्थूलाव्यपेतमुच्यते ॥

पादसंधाविति । ‘स्वभेदे चान्यभेदे च’ इत्यत्र व्यपेताव्यपेतयोः स्वत्वमन्यत्वं च व्याख्येयं प्रकरणात् । तत्त्वे प्रसङ्गे च यथासंभवं सप्तमी योजनीया । मदेन प्राप्तरागापि तत एव मन्मथोन्मादेन तापिता उत्तापं गतापि यदात्मानमबला न योजितवती तन्नूनं मदेनसा मदीयदुरितेन भूयोऽपि मानरसं प्रापिता स्यात् । अत एवेयते वक्तुमशक्याय संतापाय नासेति काक्वा तापप्रकर्षभणनम् । योजितेति । योजयतेर्गत्यर्थत्वमाश्रित्य कर्तरि क्तः । ‘गत्यर्थाकर्मक-’ इत्यादौ चकारस्यानुक्तसमुच्चयार्थत्वाद्वा । अत्र प्रथमद्वितीययोस्तृतीयचतुर्थयोश्चान्तरतो विच्छिद्य पाठे क्रियमाणे संधिषु व्यपेतप्रसङ्गः स्यात् । निरन्तरपठितौ तु स निवर्तते ।