मिश्रा यथा—
सैषा प्रायः कठोराणामोष्ठ्यकण्ठ्यमूर्धन्यानां बाहुल्यादिभिरुपलभ्यते ॥
बाहुल्यादिभिरिति । बाहुल्याल्पत्वमिश्रणैः प्रादेशिकैरित्यर्थः ॥
परुषा यथा—
सैषा प्रायेणोष्मणामन्तःस्थादिसंयोगैरवस्थाप्यते ॥
ललिता यथा—
सैषा प्रायेण दन्त्यौष्ठ्यतालव्यानां मध्येऽन्तःस्थादिसंयोगैः स्थाप्यते ॥
द्राविडीनामिति । किंचिदुन्नमनं रेचितम् । तेनाधिज्यकोदण्डक्रियाकारिभ्रूलतासनाथे दुःखराज्यभारारोपः । सुगममुदाहरणम् ॥
अमिता यथा—
सेयममितयोरेव ककारलकारबन्धयोरनुप्रासेन प्रसूयते ॥
तदेतत्सर्वेषां मतं दूषयति—न गुणेभ्य इति । समतासौकुमार्यादिगुणेषु भारतीप्रभृतिषु च वृत्तिषु यथायथमन्तर्भावोऽवगन्तव्यः ॥