242

मिश्रा यथा—

‘पिनष्टीव तरङ्गाग्रैरुदधिः फेनचन्दनम् ।
तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाः ॥ १९८ ॥’

सैषा प्रायः कठोराणामोष्ठ्यकण्ठ्यमूर्धन्यानां बाहुल्यादिभिरुपलभ्यते ॥

बाहुल्यादिभिरिति । बाहुल्याल्पत्वमिश्रणैः प्रादेशिकैरित्यर्थः ॥

परुषा यथा—

‘जह्रे निह्रादिह्रादोऽसौ कह्लाराह्लादितह्रदः ।
प्रसह्य मह्या गर्ह्यत्वमर्हणाहः शरन्मरुत् ॥ १९९ ॥’

सैषा प्रायेणोष्मणामन्तःस्थादिसंयोगैरवस्थाप्यते ॥

ललिता यथा—

‘द्राविडीनां ध्रुवं लीलारेचितभ्रूलते मुखे ।
आसज्य राज्यभारं स्वं सुखं स्वपिति मन्मथः ॥ २०० ॥’

सैषा प्रायेण दन्त्यौष्ठ्यतालव्यानां मध्येऽन्तःस्थादिसंयोगैः स्थाप्यते ॥

द्राविडीनामिति । किंचिदुन्नमनं रेचितम् । तेनाधिज्यकोदण्डक्रियाकारिभ्रूलतासनाथे दुःखराज्यभारारोपः । सुगममुदाहरणम् ॥

अमिता यथा—

‘बकुलकलिकाललामनि कलकण्ठीकलकलाकुले काले ।
कलया कलावतोऽपि हि कलयति कलितास्त्रतां मदनः ॥ २०१ ॥’

सेयममितयोरेव ककारलकारबन्धयोरनुप्रासेन प्रसूयते ॥

इति द्वादशधा वृत्तिः कैश्चिद्या कथितेह सा ।
न गुणेभ्यो न वृत्तिभ्यः पृथक्त्वेनावभासते ॥ ८७ ॥

तदेतत्सर्वेषां मतं दूषयति—न गुणेभ्य इति । समतासौकुमार्यादिगुणेषु भारतीप्रभृतिषु च वृत्तिषु यथायथमन्तर्भावोऽवगन्तव्यः ॥