287

द्वितीयश्लोको यथा—

‘कामदं चण्डकम्रं मदामर्दिनो नागदन्ताज्यजय्यं गदाकर्बुरम् ।
धीरशोभाभरव्यस्तकंसासुरं नौमि नारायणस्यासमं विभ्रमम् ॥ ३३२ ॥’

अभाग्यस्य रदं विलेखकम् । नाशकमिति यावत् । समितौ संग्रामे रावणस्य कैलासोद्धरणभग्नशक्तिकताशासनविक्रमावाज्ञापौरुषे येन तम् । वाञ्छितप्रदम् । चण्डमुग्रं कम्रं कमनीयं च । परेषां दर्पमर्दनशीलस्य नागस्य कालियाख्यस्य दंष्ट्राभिः, कुवलयापीडाख्यस्य हस्तिनो वा विषाणाभ्यां या आजिः सङ्ग्रामः तत्राजय्यं जेतुमशक्यम् । गदया नानारत्नखचितया कर्बुरम् । चित्रमिति यावत् ॥

संस्कृतप्राकृतगोमूत्रिकायां संस्कृतश्लोको यथा—

‘स्कन्दो रुन्दर्द्धिमिष्टां वितरतु सरलो दारितारातिवर्गे सस्पन्दो मन्दसज्जो भवभयकलने सङ्गरे केलिकारी ।
संदोहोल्लाघलासी जन इह बलिहा चण्डताभूरखर्वो देवौजोराजदेहे महिमनि निरतो विक्रमाडम्बरेण ॥ ३३३ ॥’

स्कन्दः कार्तिकेयः । रुन्दां विपुलाम् । दारिते शत्रुसमूहे सस्पन्दः स्फुरद्रूपो मन्दः स्वस्थचित्तः भवभयस्य संसारत्रासस्य कलने क्षेपणे इहजने मर्त्यलोके संदोहेन य उल्लाघः सामर्थ्यं नीरोगत्वात्तेन लसनशीलः । बलिनां हन्ता । चण्डतायास्तैक्ष्ण्यस्य भूराश्रयः । अखर्वः सर्वेषामुपरि वर्तमानः । देवौजसां राज्ञां खण्डयित्री ईहा चेष्टा यत्र तादृशे महिम्नि निरतः ॥

प्राकृतश्लोको यथा—

‘चन्दो कन्दप्पमित्तं विहरणसहलो हारितारापबन्धो सच्छन्दो वन्दणिज्जो कुवलयदलनो सङ्करे मेलिकारी ।
कन्दोदोल्लासलासी जअइ सिवसिहामण्डनीभूदखण्डो देन्ताजोण्हाजलोहो विहिअणिअरई विब्भमाणं बलेण ३३४’
[चन्द्रः कन्दर्पमित्त्रं विहरणसफलो हारिताराप्रबन्धः स्वच्छन्दो वन्दनीयः कुवलयदलनः शंकरे मेलिकारी ।