291 पदाधिक्यं तथाप्याद्यपदार्थानुरोधेन समुच्चीयमाननिषिध्यमानार्थानुरञ्जकत्वेन संबोध्यमानार्थानुयायितया चकारनकारयोस्तवेति च तत्पादावयवरूपा एवेति तदसत्कल्पमेव । तथा च षड्भ्यः पदत्रय उपादीयमाने सप्तदशाक्षरायां जातौ यथासंख्यानुरोधेनाद्येऽर्धे प्रस्ताररचनाक्रमेण दश विकल्पाः, तृतीयचतुर्थयोश्च पादयोस्तावन्तस्तावन्त एवेति दशभिराहतैर्दशभिः शतम् । शतेन चाहतैर्दशभिः सहस्रं तर्णकाः श्लोकाः समुत्पद्यन्त इतीयं सहस्रधेनुः ॥
अयुतधेनुर्यथा—
क्रिये इति । हे क्रिये कर्मन् । ‘मिष स्पर्धायाम्’, ‘पीङ् पाने’, ‘मृड सुखने’ तुदादौ, ‘होडृ अनादरे’, ‘कुड संहारे’, रज्यसे आसजसि । रजसि मत्सरयसि । राजसे शोभसे । भ्राजसे जाज्वल्यसे । एषेति । इह पृथ्वीनामनि छन्दसि षड्भ्यः संबोधनानुगे पदचतुष्टये उपादीयमाने एकादशाक्षरायां जातौ प्रस्ताराल्पत्वेन यदि वा छन्दोभेदस्य शब्देनाप्रतिपादितत्वात् तद्भेदोऽप्युदाहरणीय इति तस्यामेव रथोद्धताभिधाने छन्दसि दशसु विकल्पेषु प्रतिपादं भवत्सु दशभिः शतं शतेन सहस्रं सहस्रेण च दशसहस्राणि तर्णकाः श्लोकाः समुत्पद्यन्ते इतीयमयुतधेनुः ॥
लक्षधेनुर्यथा—