299
चित्रोक्तिर्द्विधा । चित्रा विचित्रा च । तयोश्चित्रा यथा—
‘लभ्यन्ते यदि वाञ्छितानि यमुनाभागीरथीसंगमे
देव प्रेष्यजनस्तदेष भवतो भर्तव्यतां वाञ्छति ।
नन्वेतन्मरणेन किं नु मरणं कायान्मनोविच्युति-
र्दीर्घं जीव मनस्तवाङ्घ्रिकमले कायोऽत्र नस्तिष्ठति ॥ ३५६ ॥’
तदिदं स्वकल्पितोक्तिप्रत्युक्तिभ्यां जीवतोऽपि जन्मान्तरावाप्तिसाधनेनाश्चर्यहेतुरिति चित्रा नाम चित्रोक्तिप्रत्युक्तिर्वाकोवाक्यम् ॥
द्वितीया यथा—
‘कोऽयं भामिनि भूषणं कितव ते शोणः कथं कुङ्कुमा-
त्कूर्पासान्तरितः प्रिये विनिमयः पश्यापरं क्वास्ति मे ।
पश्यामीत्यभिधाय सान्द्रपुलको मृद्नन्मृडान्याः स्तनौ
हस्तेन प्रतिनिर्जितेन्दुरवताद्द्यूते हसन्वो हरः ॥ ३५७ ॥’
अत्रोक्तिप्रत्युक्त्योरनन्तरं स्तनमर्दनवैचित्र्यादिना परिसमाप्तेर्विचित्रसंज्ञमिदं वाकोवाक्यम् ॥
प्रहेलिका सकृत्प्रश्नः सापि षोढा च्युताक्षरा ।
दत्ताक्षरोभयं मुष्टिर्बिन्दुमत्यर्थवत्यपि ॥ १३३ ॥
क्रीडागोष्ठीविनोदेषु तज्ज्ञैराकीर्णमन्त्रणे ।
परव्यामोहने चापि सोपयोगा प्रहेलिका ॥ १३४ ॥
तासु च्युताक्षरा यथा—
‘पयोधरभराक्रान्ता संनमन्ती पदे पदे ।
पदमेकं न का याति यदि हारेण वर्जिता ॥ ३५८ ॥’