163
अन्योक्तीनामनुकृतिश्छाया सापीह षड्विधा ।
लोकच्छेकार्भकोन्मत्तपोटामत्तोक्तिभेदतः ॥ ३९ ॥

अन्योक्तीनामिति। लोके बिम्बप्रतिबिम्बयोः प्रतिबिम्बं चमत्कारितया प्रसिद्धम् । अत एव ‘श्रव्यात्प्रेक्ष्यं ज्यायः’ इत्याह । शब्दालंकारकाण्डे वाक्यानुकरणमेव प्रतिबिम्बवाचिना छायापदेन गुणवृत्तेनाख्यायते । तदेतदनुकरणमनुकार्यभेदादेव षोढा व्यवतिष्टत इत्याह—छेकेति । छेकादीनां लोकविशेषाणामेव शोभाकारित्वेन पृथगुपादानेऽर्थात्तदितरानेकविचित्रतत्तदनुकार्यपरो लोकशब्दः । छेका विदग्धाः । ‘पोटा स्त्रीपुंसलक्षणा' । सहजकेलिरिति प्रसिद्धा पोटा । भुजिष्या दासीत्यन्ये । अत्र केचिदन्यच्छायायोनिजमपि काव्यं छायालंकारव्यवहारभूमिमाहुः ॥

प्रकृतिपरिणामः, परपुरप्रवेशः, खण्डसंघात्यम्, चूलिका, परिमल इति पञ्च योनिजकाव्यभेदाः । तत्र किंचिद्विकृतार्थः प्रकृतिपरिणामः । यथा—

‘धुअमेहं महुअरानुव्वणसमअहियओ णअविमुक्काओ ।
णहया अवसाहाओ णिअ अव्वाण वयडि गआओ दिसाओ ॥’

यथा च—

‘सिसिरपडिरोहमुक्कपरिहुत्तम्पअ अवलिअक्कम् ।
इहरइ अरया अलिअं वित्थरदि दिसाहिं कट्ठिअं वणहअलम् ॥’

अत्राकाशदिशां विस्तारभणनं मनाग्विकृतमुपलक्ष्यत इति प्रकृतिपरिणामनामायं योनिजकाव्यभेदः ॥

भाषामात्रभिन्नः परपुरप्रवेशः । यथा—

‘देवाधिपो वा भुजगाधिपो वा धराधिपो वा यदि हैहयः स्याम् ।
संदर्शनं ते गुणकीर्तनं ते सेवाञ्जलिं ते तदहं विदध्याम् ॥’

यथा च—

‘सविमो अणज्जुणमिअं अमहिन्दमवामुइअ अप्पाणम् ।
सेडं जालदंसण गुणकहामुत इजणूपज्जत्तम् ॥’

अत्र भाषामात्रं भिन्नमिति परपुरप्रवेशनामायं योनिजकाव्यभेदः ॥ विकीर्णमसमाहारः खण्डसंघात्यम् । यथा—

‘द्वित्राण्यम्बुजिनीदलानि सरसामुत्सङ्गमध्यासते मौलौ किंशुकशाखिनस्त्रिचतुरानाबिभ्रते कोरकान् ।