177 वैशसं सर्वथैवाश्रद्दधाना दूरदूरतरदूरतमरथ्याभागावलोकनार्थिनी शालागृहमारोहति, ततस्तस्मादुच्चैस्तमङ्गगम् अट्टालकम्, अनन्तरं तस्मादुच्चतरां वलभीमुपरितनकुटीमिति । अत एवाञ्चनक्रियैवात्रावृत्तेति ‘क्रियासमभिहारे लोट्र लोटो हिस्वौ वा च तध्वमोः’ (३।४।२) इत्यनुशिष्यते । अत एव च ‘यथाविध्यनुप्रयोगः पूर्वस्मिन्’ (३।४।४।) इति तस्यैव धातोरनुप्रयोगोऽपि । एवमप्यनागच्छति नायके दूतीव्यापारः शरणं यत्कुण्ठनायां स्वयं वा तत्र गमनमित्युपदिश्यते तेन तत्तदभिप्रायसंवर्धकसंदेशप्रकर्षः सोऽयमाभीक्ष्ण्यद्विरुक्त्या व्यज्यते । अत एव लोटः समभिव्याहारो विषयो न तु घञादिवदभिधेय इति पूर्वाचार्याः । इतिशब्दादधिकं चतुर्थवाक्यानुप्रविष्टमिति यावच्छब्देनावच्छिनत्ति संदिश संदिशेति यावदिति दिक् ॥

उक्तिप्रकारो भणितिः संभवेऽसंभवे च सा ।
विशेषसंवृत्त्याश्चर्यकल्पनासु च कल्प्यते ॥ ५२ ॥

उक्तीति । उक्तिरभिधानमुच्चारणक्रिया लक्षणक्रिया सा सर्ववाक्यसाधारणी कथमलंकार इत्याशङ्क्य प्रकारपदम् । प्रकारो भङ्गीरूपता । लौकिकशास्त्रीयवचनातिगामी विशेषः । स एव कैश्चिदव्याप्तिमननुसंदधानैरलंकारसामान्ये उक्तः । उक्तिरूपत्वाविशेषे कथमयमेव संगच्छतामित्यतो विभागप्रदर्शनव्याजेन विषयविशेषादेव तद्रूपतामुपपादयति—संभव इत्यादि । तत्र बहिरसंभाव्यमानस्यापि प्रतिभानिर्भितचित्रतुरगवत्प्रतीतिः संभवस्तामर्पयन्ती संभावनात्मिका भणितिः । सैव हि ‘किंत्वस्ति काचिदपरापि पदानुपूर्वी यस्यां न किंचिदपि किंचिदिवावभाति’ इति न्यायेन तत्तदर्थनिर्माणप्रवीणा ‘यथास्मै रोचते विश्वं तथैव परिवर्तते’ इति व्यवहारकारणं भवतीति तथाविध एव विषये शास्त्रप्रसिद्धप्रकारवैपरीत्येन बाधवर्णनमसंभावना । तदुच्यते—

‘इह ते जअंति कइणो जअमिण मोजाणसअलपरिणामम् ।
वाआसु ठिअं दीसइ आमोअ घणं व तुच्छं व ॥’

अतएवेयं निषेधरूपा तज्जातीयव्यावृत्तो धर्मो विशेषस्तं क्वचिद्विदधाना कवेरभिप्रायविशेषमर्पयन्ती ‘निषेधप्रसङ्गे विशेषभणितिर्विधिरूपा भवति’ इति तामवलम्बमाना चमत्कारकारिणी विशेषे पर्यवस्यन्ती वर्णना पल्लवप्रसङ्गे संकोचमवगाहमाना विधौ निषेधरूपा पर्यवस्यति । अतर्कितोपनतं विस्मयजनकमाश्चर्यं तस्य निषेधे विधातव्ये यत्किंचिद्विधानं तदाश्चर्यरूपतामन्तरेण काव्यकक्षामारोढुं न क्षमत इति नूनमनया विस्मयार्पणमेव सर्वस्वभूतमवलम्बनीयमिति निषेधविधि-