179

विशेषभणितिर्यथा—

‘रेवतीदशनोच्छिष्टपरिपूतपुटे दृशौ ।
वहन्हली मदक्षीबः पानगोष्ठ्यां पुनातु वः ॥ ६१ ॥

अत्र रेवतीदशनोच्छिष्टयोरपि हलिदृशोर्यत्पूतत्वं, मदक्षीबस्यापि हलिनो यत्पावनत्वमसौ विशेष इतीयं विशेषभणितिर्निषेधे विधिरूपा ॥'

रेवतीति । दशनोच्छिष्टं चुम्बितम् । उच्छिष्टक्षीबयोर्न क्वचित्पूतत्वं पावनत्वं वा दृष्टचरमिति हलिनेत्रपुटहलिनोर्विधीयमानं देवताचरितस्य लोकोत्तरतां गमयतीति निषेधप्रसङ्गे विधिरूपेयं भणितिः ॥

संवृत्तिभणितिर्यथा—

‘आभरणस्याभरणं प्रसाधनविधेः प्रसाधनविशेषः ।
उपमानस्यापि सखे प्रत्युपमानं वपुस्तस्याः ॥ ६२ ॥’

अत्र प्रसिद्धवर्णनाप्रपञ्चविधेराभरणस्याभरणं वपुरित्यादिवाक्यैः संवरणादियं संवृत्तिभणितिर्विधौ निषेधरूपा ॥

आभरणस्येति । अत्र चन्द्रमुखी दुग्धधवलनयना बिम्बोष्टी करिकुम्भस्तनीत्यादिकविसमयप्रसिद्धवर्णनाप्रपञ्चप्रसङ्गे यथोक्तरूपेण तस्य संकोचो निषेधस्तत्प्रतिष्ठाभणितिरलंकरणमेवानया क्रियत इति कान्तिविशेषं व्यञ्जयन्ती विधौ प्रसक्ते निषेधरूपा भवति ॥

आश्चर्यभणितिर्यथा—

‘ज्योतिर्भ्यस्तदिदं तमः समुदितं जातोऽयमभ्द्यः शिखी पीयूषादिदमुच्छ्रितं विषमयं च्छायाप्तजन्मातपः ।
को नामास्य विधिः प्रशान्तिषु भवेद्बाढं द्रढीयानयं ग्रन्थिर्यत्प्रियतोऽपि विप्रियमिदं सख्यः कृतं सान्त्वनैः ॥ ६३ ॥’

अत्र ज्योतिःप्रभृतिभ्यस्तमःप्रभृतीनामुत्पत्तेराश्चर्यरूपत्वादियमाश्चर्यभणितिर्निषेधविधौ विधिनिषेधरूपा ॥

ज्योतिर्भ्य इति । प्रियो हि नाप्रियमाचरतीत्युत्सर्गसिद्धाप्रियानाचरणं दैव-