310

पञ्चमः प्रस्तावः


५ वादसिद्धिः


एवम् अनन्तरप्रस्तावद्वयेन अशब्दयोजनं स्मरणादि श्रुतं व्याख्यातम् । यदुक्तमः 4438 शब्दैः परमन्यद्योजितं श्रुतम् इति; तत्4439 संप्रति व्याख्यातुम् अवसरप्राप्तम्, तच्च परार्थ
मिति, परप्रतिपादनाय च त4440त्प्रयोगे न्यायवादिनमपि केचिदेकान्तवादिनो वचनाद्युपालम्भच्छलेन
पराजयेन योजयन्तः समुपलभ्यन्ते तन्निषेधार्थं वादन्यायप्रस्तावं प्रस्तुवन् तदादौ संग्रहवृत्तमाह—
पक्षस्थापनया इत्यादि ।


पक्षस्थापनया निरस्तविषयं वादे निगृह्णाति न,

स्वाकूतोज्झमसाधनाङ्गवचनादोषोक्तिसंकीर्तनैः ।

स्वार्थं साधितवन्तमस्तविषयस्तूष्णीम्भवन्तं ब्रुवन्,

अन्यद्वा प्रलपन् परेण स समः स्वार्थासाधने 4441 ॥ १ ॥

पक्षोक्ष्यमाणलक्षणः तस्य स्थापना समर्थनं तथा वादी प्रतिवादी वा निगृ
ह्णाति
विजयते । क्व ? वादे । कम् ? इत्याह--निरस्तो विषयः पक्षो यस्य स तथोक्तः तं
वा4442दिनं प्रतिवादिनम् । वादी अ4443न्यथा कुवोत् भिज्ञाति 4444 इत्याह-- इत्यादि ।
स्वाकूतशब्देन स्वपक्षः परामृश्यते तस्य उत्स 4445 त्यागः क्रियाविशेषणमेतत्,
स्वाकूतोज्झा यथा भवति तथा न निगृह्णाति । पक्षस्थापनाहीनो न निगृह्णाति इत्यर्थः । कैः
कृत्त्वा ? इत्याह--२५३ क असाधनाङ्गम् न साधनाङ्गम् असाधनाङ्गम4446 तस्य वच
नम्, अथवा न साधनाङ्गवचनम्4447 न दोषोऽदोषः तस्य उक्तिः, यदि वा न दोषोक्तिः
अदोषोक्तिः विद्यमानस्यापि दोषस्य अनुच्चारणम्, असाधनाङ्गवचनं वादोक्तिश्च 4448 तयोः संकीर्त्तनानि प्रकाशनानि तैरिति । कं तैः न निगृह्णाति ? इत्याह—
स्वार्थं साधितवन्तम् । किंभूतः ? इत्याह--अस्तविषयः निरस्तपक्षः । नन्वयमर्थः स्वाकू
तोज्झम्
इत्यनेन उक्तः किमर्थं पुनरुच्यते ? सत्यम् उक्तः, तथापि पूर्वमनाश्रितपक्षो4449
निगृह्णाति इत्यस्य प्रतिपादनार्थम् । तदुक्तम्4450--यतो वादिना उभयं कर्त्तव्यं स्वपक्षसाधनं
परपक्षदूषणं च
इति । जाचं 4451 पुनः आश्रितपक्षोऽपि निरस्तविषयो न निगृह्णाति अस्येति
विशेषः । इदमपरं व्याख्यानम्--स्वाकूतो ज्ञानं 4452 निगृह्णाति, न च स्वार्थं
साधितवन्तं तत्संकीर्तनैः अस्तविषयः
असिद्धमहामहीप्रा4453न्तरितविषयः4454


  1. म्
  2. श्रुतम् ।

  3. शब्दप्रयोगे कर्त्तव्ये सति ।

  4. स्वार्थे असंसाधिते
  5. कथयन्तम् ।

  6. अन्यैः छलादिभिः उपायैः ।

  7. कुतो न निगृह्णाति ?
  8. उज्झा
  9. ङ्गं
  10. साधनाङ्गस्य अवचनम् ।


  11. अदोषोक्तिश्च
  12. वैतण्डिकः ।

  13. विजिगीषुणा उभयं कर्त्तव्यं स्वपरपक्षसाधनदूषणम्
    --अष्टश॰, अष्टसह॰ पृ॰ ८७ ।

  14. अयं
  15. तोज्झं न
  16. पा
  17. असिद्धश्चासौ महामहीपः महाभूपालः तेन अन्तरितः आक्रान्तः
    विषयः पक्षः यस्य असिद्धपक्ष इति यावत् ।