738

द्वादशमः प्रस्तावः


१२ निक्षेपसिद्धिः


नयानन्तरं तत्फलत्वान्निक्षेपान् दर्शयितुं मुखवृत्तमाह--निक्षेपोऽनन्तकल्प इत्यादि ।


11465निक्षेपोऽनन्तकल्पश्चतुरवरविधः प्रस्तुतव्याक्रियार्थः11466,

तत्त्वार्थज्ञानहेतुर्द्वयनयविषयः संशयच्छेदकारी ।

शब्दार्थप्रत्ययाङ्गं विरचयति यतस्तद्यथाशक्ति भेदम्,

वाच्यानां वाचकेषु श्रुतविषयविकल्पोपलब्धेस्ततः सः ॥ १ ॥

धर्मिणि क्वचिद् धर्माणां नयाधिगतानां निक्षेपणं योजनम् अध्यारोपणं निक्षेपः ।
कतिविधः ? इत्याह--अनन्तकल्पः11467 अनन्तभेदः तद्विषयानन्त्यात्; कथमन्यत्र11468 चतुर्विधो
निक्षेप उक्तः11469 ? इत्याह--चतुरवरविधः चत्त्वारो नामस्थापनाद्रव्यभावलक्षणैः अवर11470 वान्तररूपा विधा भेदो यस्य स तथोक्तः । सः किंप्रयोजनः ? इत्याह--प्रस्तुतव्याक्रियार्थः ।
प्रस्तावगतं वस्तु प्रस्तुतं ५७३ क तस्य विशेषेण अनिष्टनिवृत्त्यादिलक्षणेन समन्तात्
करणं व्युत्पादनं व्याक्रिया तस्मै तदर्थः । कुतः ? इत्याह--तत्त्वार्थज्ञानहेतुः यतः
तत्त्वार्था जीवादयः तेषां ज्ञानं तस्य हेतुः कारणम् । नहि शब्दादिनिक्षेपमन्तरेण शब्दादिभ्योऽ
र्थप्रतीतिः । स किं कारणः ? इत्याह--द्वयनयविषयः नन्यत्र11471भावः--द्वयोपलक्षि
तान्नयात् द्रव्यार्थिकपर्यायार्थिकरूपादि11472न्यतो न भवति किन्तु तत एव इति तद्विषय
इत्युच्यते । न केवलं तत्त्वार्थज्ञानहेतुरेव, अपि तुसंशयच्छेदकारी विपर्ययादिव्यवेच्छेदो
पलक्षणमेतत् । पूर्वेण तत्त्वार्थज्ञानहेतुता अनेन समारोपव्यवच्छेदहेतुता उक्ता इति विभागः ।

  1. विस्तरेण लक्षणतो विधानतश्चाधिगमार्थं न्यासो निक्षेपः ।--तत्त्वार्थाधि॰ भा॰ १ । ५ । णिच्छ+ए
    णिण्ण+ए खिवदि त्ति णिक्खेवो ।
    --धवला टी॰ सत्प्ररू॰ ।

  2. सः किमर्थः ? अप्रकृतनिराकरणाय प्रकृतनिरू
    पणाय च ।
    --स॰ सि॰ १ । ५ । लघी॰ स्ववृ॰ श्लो॰ ७६ । अथ किमिति निक्षेपः क्रियते इति चेत्; उच्यते—
    त्रिविधाः श्रोतारः अव्युत्पन्नः अवगताशेषविवक्षितपदार्थः एकदेशतोऽवगतविवक्षितपदार्थ इति । तत्र
    प्रथमोऽव्युत्पन्नाध्यवस्यतीति विवक्षितपदस्यार्थम् । द्वितीयः संशेते कोऽर्थोऽस्य पदस्याधिकृत इति,
    प्रकृतार्थादन्यमर्थमादाय विपर्यस्यति वा । द्वितीयवत्तृतीयोऽपि संशेते विपर्यस्यति वा । तत्र यद्यव्युत्पन्नः
    पर्यायार्थिको भवेन्निक्षेपः; अव्युत्पन्नव्युत्पादनमुखेन अप्रकृतनिराकरणाय । अथ द्रव्यार्थिकः; तद्द्वारेण
    प्रकृतनिरूपणाय अशेषनिक्षेपा उच्यन्ते व्यतिरेकधर्मनिर्णयमन्तरेण विधिनिर्णयानुपपत्तेः । द्वितीयतृतीययोः
    संशयविनाशायाशेषनिक्षेपकथनम् । तयोरेव विपर्यस्यतोः प्रकृतार्थावधारणार्थं निक्षेपः क्रियते । उक्तं हि—
    अवगयणिवारणर्ट्ठ पयदस्स परूवणाणिमित्तं च । संसयविणासणट्ठं तच्चत्थवधारणट्ठं च ॥
    --धवला टी॰
    सत्प्ररू॰ पृ॰ ३० ।

  3. जत्थ य जं जाणेज्जा निक्खेवं निक्खिवे निरवसेसं । जत्थ वि अ न जाणेज्जा च+उक्कगं
    निक्खिवे तत्थ ॥
    --अनु॰ सू॰ ८ ।

  4. तत्त्वार्थसूत्रादौ ।

  5. नामस्थापनाद्रव्यभावतस्तन्न्यासः ।
    त॰ सू॰ १ । ४ ।

  6. रा अ
  7. अयमत्र