साहित्यं नाम सहकारित्वं तच्च द्विविधम्, परस्परातिशयाधानाद्वा स्यादेकार्थका
रित्वाद्वा । तत्र न तावदाद्यस्यातिशयाधानलक्षणस्य सहकारित्वस्य कल्पना युक्ता,
कस्मात् ? तयोरीश्वरप्रधानयोर्नित्यत्वेन निर्विकारत्वात् । नापि द्वितीयस्य, कल्पना
युक्तेति प्रकृतेन संबन्धः । कस्मात् ? कार्याणां यौगपद्यप्रसङ्गात् । अविकलाप्रतिह
तसामर्थ्यस्येश्वरप्रधानाख्यकारणस्य सदा सन्निहितत्वेनाविकलकारणात् । अत्र च
पूर्ववद्यदविकलकारणमित्यादि प्रसङ्गसाधनं वाच्यम् ॥ ९५ ॥ ९६ ॥
अथोच्यत इत्यादिना परमतेन यदविकलकारणमित्यस्य हेतोरसिद्धतामुद्भावयति ।
यद्यपि कारणद्वयमेतन्नित्यसन्निहितम् । तथाऽपि क्रमेणैवाऽमी कार्यभेदाः प्रवर्त्ति
ष्यन्ते, यत ईश्वरस्य प्रधानगतास्त्रयो गुणाः सत्वादयः सहकारिणः, तेषां च क्रमवृ
त्तित्वात्तत्कार्येष्वपि क्रमो भवति । तथा हि—यदोद्भूतवृत्तिना रजसा युक्तो भवति
महेश्वरस्तदा सर्गहेतुः प्रजानां भवति, प्रसवकार्यत्वाद्रजसः । यदा तु सत्त्वं समु
द्भूतवृत्तिं संश्रयते तदा लोकानां स्थितिकारणं भवति, सत्वस्य स्थितिहेतुत्वात् । यदा
तु तमसोद्भूतशक्तिना समायुक्तो भवति तदा प्रलयं नाशं सर्वजगतः करोति, तमसः
प्रत्यहेतुत्वात् यथोक्तम्—रजोजुषे जन्मनि सत्त्ववृत्तये स्थितौ प्रजानां प्रलये तमः
स्पृशे । अजाय सर्गस्थितिनाशतन्त्रिणे त्रयीमयाय त्रिगुणात्मने नमः ॥ इति ।
किलशब्दोऽसंभावनायाम् ॥ ९७ ॥ ९८ ॥ ९९ ॥ १०० ॥