अक्षणिकस्य तर्हि स्थापकोऽसौ भवत्वित्याह—नान्यथेत्यादि ।
यो ह्यक्षणिकस्तस्यान्यथात्वासम्भवात्स्वत एव स्थितिरिति किं कुर्वाणस्तस्यासौ स्था
पको भवतीत्युक्तमेतत् । अथापि स्यात्—माभूदसौ स्थापकः, किन्तुं क्षणस्यैवोत्पा
दको भवतीत्याह—नचास्येत्यादि । प्रमाणाधीना हि प्रमेयस्य तत्त्वव्यवस्थितिः, न
चास्य प्रसिद्धकारणव्यतिरेकेण वस्त्रादिषु प्रत्यक्षानुपलम्भाभ्यां चक्षुरादिवद्वा कार्यव्य
तिरेकतो दृष्टं—निश्चितं हेतुत्वम्, येन तद्व्यवहारः स्यात् । अथादृष्टसामर्थ्यस्यापि
हेतुत्वं कल्प्यते, तदा संस्कारः, अन्योऽपि वा—शुकबकादिरुत्पत्तेर्हेतुर्भवेत् । कल्प
नीय इति शेषः । न ह्यदृष्टशक्तित्वेन कश्चिद्विशेषोऽस्ति, येनैकस्मिन्नेव संस्कारात्मन्य
परिनिश्चितसामर्थ्ये कल्पनापरितोषो भवतां स्यात् । नचाप्ययमुत्पादहेतुरिष्टो भ
वद्भिः, अपि तूत्पन्नस्य सतो वस्त्रादेरुत्तरकालं स्थापको गुण इष्यते । तत्र चाकिंचि
त्करत्वमस्येति पूर्वमुपवर्णितम् । अभ्युपगम्य तूत्पत्तिहेतुत्वं दूषणमिदमभिहितम् ।
कदाचित्कश्चित्स्वसमयसीमानमप्यतिपत्यैवं कल्पयेदिति भावः । गुणसंस्कारनामे
त्यादिना पूर्वमुपसंहरति ॥ ६८९ ॥ ६९० ॥
231
धर्माधर्मलक्षणगुणदूषणमाह—मन इत्यादि ।