एतदेव स्पष्टयन्नाह—ज्ञातादित्यादि ।


ज्ञातादव्यतिरिक्तं चेत्तस्यापि ग्रहणं भवेत् ।

तद्वदेव न वा तस्य ग्रहणं भेद एव वा ॥ ८०९ ॥

तथाहि—दृष्टव्यक्तिसमवेतसामान्यरूपाद्विज्ञातादव्यतिरिक्तं चेद्व्यक्त्यन्तरालवर्त्ति
सामान्यरूपं तदा तस्यापि ग्रहणं भवेत्, गृहीतादभिन्नत्वात्, गृहीतस्वरूपवत् । अथ
तस्य ग्रहणं न भवति, तथासत्यगृहीतरूपाव्यतिरेकात्तद्वद्दृष्टव्यक्तिसमवायिनोऽपि
ग्रहणं न स्यात् । अथोभयरूपताऽङ्गीक्रियते तदा स्वभावभेदप्रसङ्गः, परस्परविरु
262 द्धधर्माध्यासात् । न ह्यन्योन्यप्रत्यनीकग्रहणाग्रहणधर्माध्यासितमपि सदेकमिति युक्त
मभिधातुं स्वच्छचेतसः, अतिप्रसङ्गात् । एवं हि विश्वमेकमेव द्रव्यं स्यात्, ततश्च
सहोत्पादविनाशादिप्रसङ्गः, अन्यथैकमिति नाममात्रमेव स्यात्, नच नाम्नि विवादः
॥ ८०९ ॥