विच्छिन्नमित्यनेन ज्ञानाद्व्यतिरिक्तस्य ग्राह्यस्य सिद्धिमादर्शयति, विस्पष्टमित्यनेन
तु प्रत्यक्षताम् । एतदेव प्रसङ्गेन द्रढयन्नाह—तस्यैवमित्यादिना ॥ १९६५ ॥
॥ १९६६ ॥
भासमान इत्यादिना प्रतिविधत्ते ।
तत्र प्रत्यक्षसिद्धोऽर्थो बाह्यो भवन्ननेको वा परमाणुतोऽभिन्नो भवेत्, एको वा
तैरारब्धोऽवयवी, स्थूलोऽनारब्धो वेति पक्षाः । तत्र न तावदाद्यः, निरंशानामने
केषामणूनां मूर्त्तानां ग्राहकस्य प्रत्ययस्याप्रतिवेदनात् । नित्यं स्थूलाकारस्यैव ज्ञानस्या
नुभूयमानत्वात् । प्रत्यये तेषामप्रतिवेदनादिति सप्तम्यन्तस्य पाठोऽसमस्तः । प्रयोगः—
यः प्रत्यक्षाभिमते प्रत्यये न प्रतिभासते स्वेनाकारेण, न स प्रत्यक्षत्वेन ग्रहीतव्यः,
यथा गगननलिनम्, न प्रतिभासते च प्रत्यक्षाभिमते प्रत्यये स्थूलाकारोपग्राहिणि
परमाणुरनेको मूर्त्त इति व्यापकानुपलब्धिः । आत्माकारप्रतिभासित्वेन प्रत्यक्षस्य
व्याप्तत्वात् । तामेव व्याप्तिं प्रतिपादयन्नाह—व्यपेतेत्यादि ॥ १९६७ ॥ ११६८ ॥
॥ १९६९ ॥
अथापि स्यात्समुदिता एवोत्पद्यन्ते विनश्यन्ति चेति सिद्धान्तान्नैकैकपरमाणुप्र
तिभास इति, यथोक्तं भदन्तशुभगुप्तेन—प्रत्येकपरमाणूनां स्वातन्त्र्ये नास्वातन्त्र्येणास्ति सम्भवः ।
अतोऽपि परमाणूनामेकैकाप्रतिभासनम् ॥ इति । तदेतदनुत्तरमिति दर्शयन्नाह—
साहित्येनापीति ।
तासु दशास्विति । सहितावस्थासु । किंच—यदि निरंशाः परमाणवो न तर्हि