2

स्यान्मतम्, निरवयवाः परमाणवः कथं प्रत्यक्षे स्थूलेनाकारेणाव
भासेरन्, स्थूलसूक्ष्मयोर्विरोधादिति ? तदपि न युक्तम्, परमाणव एव हि
पररूपदेशपरिहारेणोत्पन्नाः परस्परसहिता अवभासमाना देशवितानवन्तो
भासन्ते । विततदेशत्वं च स्थूलत्वम् ।


यत् तूक्तम्, स्थूलसूक्ष्मयोर्विरोध इति, तत् किं पररूपदेशपरिहारवती
निरवयवानामुत्पत्तिः, परस्परसहितानामेकविज्न्ँआनावभासित्वं 6वाविरुद्धमिति
वक्तुमध्यवसितम् ।


इदं चेदविरुद्धम्7, स्थूलाकारः किं विरुद्धः ? अतएव निरवयवेषु
बहुष्वेकस्मिन् विज्न्ँआने प्रतिभासमानेषु भवन् प्रतिभासकालभावी प्रतिभास
धर्मः स्थूलाकारो न तु वास्तवः, प्रत्येकमभावात् । प्रतिभासात् प्राग् उर्ध्वं
वा न तर्हि स्थूल इति चेत्--न, तदापि प्रतिभासयोग्यतासं79a
भवात् । यदैव हि संचिता भवेयुः, तदैव प्रतिभासयोग्याः परमाणवः । यदा
च प्रतिभासयोग्यास्तदा स्थूलाः ।


यस्त्वाह निरवयवेषु बहुषु प्रतिभासमानेष्ववश्यमन्तरेणापि प्रति
भासितव्यम् । अन्तरानवभासे परस्परविविक्ता एव नावभासिताः स्युः ।
विविक्तानवभासे चाणुमात्रकं पिण्डो भवेत् । न चान्तरमवभासमानमुत्प
श्यामः । तदयं निरन्तर एक एव स्थूलो न8 निरवयवानेकात्मको भवितु
मर्हति, अपि त्वेकः स्थूलात्मक एवेति । सोऽप्येवं वाच्यः । किं विजातीय
परमाण्वन्तरमन्तरम्, आहोस्वित् शून्याकाशयोगः ? तत्र शून्याकाश
योगस्तावदवस्तुतया नेन्द्रियप्रत्यक्षगोचरः, अर्थसामर्थ्यभाविनि तत्रार्थस्यैव
प्रतिभासोपपत्तेः । विजातीयं त्विन्द्रियान्तरग्राह्यं कथमिन्द्रियान्तरज्न्ँआने
अवभासेत, अविषयत्वात् ? तत्र केनान्तरेणावभासितव्यमिति न विद्मः ।


यत् पुनरुच्यते, अन्तरालानवभासे विविक्ता नावभासेरन्निति, तत्रापि
किमेषामन्तरं विवेकः पररूपशून्यता वेति चिन्त्यम् । निरूपयन्तस्तु पररूप
शून्यतामेव विवेकं वस्तूनां पश्यामः । पररूपशून्याश्चेमे भासमानाः कथं
विविक्ता नावभासेरन्निति ?



  1. वा विरुद्धम् S

  2. चेद् विरुद्धम् S

  3. om S