Adhikāra 3

आमपक्वक्रमं हित्वा नातिसारे क्रिया यतः ।
अतः सर्वातिसारेषु ज्ञेयं पक्वामलक्षणम् ॥ १ ॥
मज्जत्यामा गुरुत्वाद्विट् पक्वा तूत्प्लवते जले ।
विनातिद्रवसंघातशैत्यश्लेष्मप्रदूषणात् ॥ २ ॥
21-b
शकृद्दुर्गन्धिसाटोपविष्टम्भार्तिप्रसेकिनः ।
विपरीतं निरामं तु कफात्पक्वं च मज्जति ॥ ३ ॥
आमे विलङ्घनं शस्तमादौ पाचनमेव च ।
कार्यं चानाशनस्यान्ते प्रद्रवं लघुभोजनम् ॥ ४ ॥
लङ्घनमेकं मुक्त्वा न चान्यदस्तीह भेषजं बलिनः ।
समुदीर्णं दोषचयं शमयति तत्पाचयत्यपि च ॥ ५ ॥
ह्रीवेरशृङ्गवेराभ्यां मुस्तपर्पटकेन वा ।
मुस्तोदीच्यशृतं तोयं देयं वापि पिपासवे ॥ ६ ॥
भुक्तेऽन्नकाले क्षुत्क्षामं लघून्यन्नानि भोजयेत् ।
औषधसिद्धाः पेया लाजानां सक्तवोतिसारहिता ॥ ७ ॥
वस्त्रप्रस्रुतमण्डः पेयश्च मसूरयूषश्च ।
गुर्वी पिण्डी खरात्यर्थं लघ्वी सैव विपर्ययात् ॥ ८ ॥
शक्तूनामाशु जीर्येत मृदुत्वादवलेहिका ।
शालिपर्णी पृश्निपर्णी बृहती कण्टकारिका ॥ ९ ॥
बलाश्वदंष्ट्राबिल्वानि पाठा नागरधान्यकम् ।
22-a
एतदाहारसंयोगे हितं सर्वातिसारिणाम् ॥ १० ॥
शालिपर्णीबलाबिल्वैः पृश्निपर्ण्या च साधिता ।
दाडिमाम्ला हिताः पेयाः पित्तश्लेष्मातिसारिणाम् ॥ ११ ॥
यवागूमुपभुञ्जानो ननु व्यञ्जनमाचरेत् ।
शाकमांसफलैर्युक्ता यवाग्वोऽम्लाश्च दुर्जराः ॥ १२ ॥
धान्यपञ्चकसंसिद्धो धान्यविश्वकृतोऽथवा ।
आहारो भिषजा योज्यो वातश्लेष्मातिसारिणाम् ॥ १३ ॥
वातपित्ते पञ्चमूल्या कफे वा पञ्चकोलकैः ।
धान्योदीच्यशृतं तोयं तृष्णादाहातिसारनुत् ॥ १४ ॥
आभ्यामेव सपाठाभ्यां सिद्धमाहारमाचरेत् ।
दोषाः संनिचया यस्य विदग्धाहारमूर्च्छिताः ॥ १५ ॥
अतिसाराय कल्पन्ते भूयस्तान्संप्रवर्तयेत् ।
न तु संग्रहणं दद्यात्पूर्वमामातिसारिणे ॥ १६ ॥
दोषा ह्यादौ बध्यमाना जनयन्त्यामयान्बहून् ।
शोथपाण्ड्वामयप्लीहकुष्ठगुल्मोदरज्वरान् ॥ १७ ॥
दण्डकालसकाध्मानान् ग्रहण्यर्शोगदांस्तथा ।
क्षीणधातुबलार्तस्य बहुदोषोऽतिनिस्रुतः ॥ १८ ॥
आमोऽपि स्तम्भनीयः स्यात्पाचनान्मरणं भवेत् ।
स्तोकं स्तोकं विबन्धं वा सशूलं योऽतिसार्यते ॥ १९ ॥
अभयापिप्पलीकल्कैः सुखोष्णैस्तं विरेचयेत् ।
22-b
धन्याकं नागरं मुस्तं वालकं बिल्वमेव च ॥ २० ॥
आमशूलविबन्धघ्नं पाचनं वह्निदीपनम् ।
इदं धान्यचतुष्कं स्यात्पित्ते शुण्ठीं विना पुनः ॥ २१ ॥
पिप्पलीं नागरं धान्यं भूतिकं चाभयां वचाम् ।
ह्रीवेरभद्रमुस्तानि बिल्वं नागरधान्यकम् ॥ २२ ॥
पृश्निपर्ण्या श्वदंष्ट्रा च समङ्गा कण्टकारिका ।
तिस्रः प्रमथ्या विहिताः श्लोकार्धैरतिसारिणाम् ॥ २३ ॥
कफपित्ते च वाते च क्रमादेताः प्रकीर्तिताः ।
संज्ञा प्रमथ्या ज्ञातव्या योगे पाचनदीपने ॥ २४ ॥
त्र्यूषणातिविषाहिङ्गुबलासौवर्चलाभयाः ।
पीत्वोष्णेनाम्भसा हन्यादामातीसारमुद्धतम् ॥ २५ ॥
अथवा पिप्पलीमूलपिप्पलीद्वयचित्रकान् ।
सौवर्चलवचाव्योषहिङ्गुप्रतिविषाभयाः ॥ २६ ॥
पिबेच्छ्लेष्मातिसारार्तश्चूर्णिताश्चोष्णवारिणा ।
हरिद्रादिं वचादिं वा पिबेदामेषु बुद्धिमान् ॥ २७ ॥
खण्डयूषयवागूषु पिप्पल्यादिं प्रयोजयेत् ।
तक्रे कपित्थचाङ्गेरीमरिचाजाजिचित्रकैः ॥ २८ ॥
सुपक्वः खण्डयूषोऽयमयं काम्बलिकोऽपरः ।
दध्याम्लो लवणस्नेहतिलमाससमन्वितः ॥ २९ ॥
नागरातिविषामुस्तैरथवा धान्यनागरैः ।
तृष्णातीसारशूलघ्नं पाचनं दीपनं लघु ॥ ३० ॥
पाठावत्सकबीजानि हरीतक्यो महौषधम् ।
एतदामसमुत्थानमतीसारं सवेदनम् ॥ ३१ ॥
कफात्मकं सपित्तं च वर्चो बध्नाति च ध्रुवम् ।
पयस्युत्क्वाथ्य मुस्तां वा विंशतिं भद्रकाह्वयाः ॥ ३२ ॥
23-a
क्षीरावशिष्टं तत्पीतं हन्यादामं सवेदनम् ।
पक्वोऽसकृदतीसारो ग्रहणीमार्द्रवाद्यदा ॥ ३३ ॥
प्रवर्तते तदा कार्यः क्षिप्रं सांग्रहिको विधिः ।
पञ्चमूलीबलाविश्वधान्यकोत्पलबिल्वजाः ॥ ३४ ॥
वातातिसारिणे देयास्तक्रेणान्यतमेन वा ।
23-b
कञ्चटजम्बूदाडिमशृङ्गाटकपत्रबिल्वह्रीवेरम् ॥ ३५ ॥
जलधरनागरसहितं गङ्गामपि वेगिनीं रुन्ध्यात् ।
कृत्वालवालं सुदृढं पिष्टैर्वामलकैर्भिषक् ॥ ३६ ॥
आर्द्रकस्वरसेनाशु पूरयेन्नाभिमण्डलम् ।
नदीवेगोपमं घोरमतीसारं निरोधयेत् ॥ ३७ ॥
किराततिक्तकं मुस्तं वत्सकं सरसाञ्जनम् ।
पिबेत्पित्तातिसारघ्नं सक्षौद्रं वेदनापहम् ॥ ३८ ॥
पलं वत्सकबीजस्य श्रपयित्वा जलं पिबेत् ।
यो रसाशी जयेच्छीघ्रं सपैत्तं जठरामयम् ॥ ३९ ॥
मधुकं कट्फलं लोध्रं दाडिमस्य फलत्वचम् ।
पित्तातिसारे मध्वाक्तं पाययेत्तण्डुलाम्बुना ॥ ४० ॥
कुटजातिविषा मुस्तं हरिद्रा पर्णिनीद्वयम् ।
सक्षौद्रशर्करं शस्तं पित्तश्लेष्मातिसारिणाम् ॥ ४१ ॥
कुटजत्वक्फलं मुस्तं क्वाथयित्वा जलं पिबेत् ।
अतीसारं जयत्याशु शर्करामधुयोजितम् ॥ ४२ ॥
बिल्वचूतास्थिनिर्यूहः पीतः सक्षौद्रशर्करः ।
निहन्याच्छर्द्यतीसारं वैश्वानर इवाहुतिम् ॥ ४३ ॥
पटोलयवधन्याकक्वाथः पेयः सुशीतलः ।
शर्करामधुसंयुक्तश्छर्द्यतीसारनाशनः ॥ ४४ ॥
प्रियङ्ग्वञ्जनमुस्ताख्यं पाययेत्तु यथाबलम् ।
तृष्णातिसारच्छर्दिघ्नं सक्षौद्रं तण्डुलाम्बुना ॥ ४५ ॥
कलिङ्गकवचामुस्तं दारु सातिविषं समम् ।
कल्कं तण्डुसतोयेन पिबेत्पित्तानिलामयी ॥ ४६ ॥
कुटजं दाडिमं मुस्तं धातकीबिल्वबालकम् ।
लोध्रचन्दनपाठाश्च कषायं मधुना पिबेत् ॥ ४७ ॥
सामे सशूले रक्तेऽपि पिच्छास्रावेषु शस्यते ।
कुटजादिरिति ख्यातः सर्वातीसारनाशनः ॥ ४९ ॥
समङ्गातिविषा मुस्तं विश्वं ह्रीवेरधातकी ।
कुटजत्वक्फलं विल्वं क्वाथः सर्वातिसारनुत् ॥ ५० ॥
दलोत्थः स्वरसः पेयो हिज्जलस्य समाक्षिकः ।
जयत्याममतीसारं क्वाथो वा कुटजत्वचः ॥ ५१ ॥
वटारोहं तु संपिष्य श्लक्ष्णं तण्डुलवारिणा ।
तं पिबेत्तक्रसंयुक्तमतीसाररुजापहम् ॥ ५२ ॥
तण्डुलजलपिष्टाङ्कोठमूलकर्षार्धपानमपहरति ।
सर्वातिसारग्रहणीरोगसमूहं महाघोरम् ॥ ५३ ॥
कल्कः कोमलववोलदलात्पीतोऽतिसारहा ।
कुटजत्वक्कृतः क्वाथो घनीभूतः सुशीतलः ॥ ५४ ॥
24-a
लोहितोतिविषायुक्तः सर्वातीसारनुद्भवेत् ।
वदन्त्यत्राष्टमांशेन क्वाथादतिविषारजः ॥ ५५ ॥
प्रक्षिप्यत्वात्पादिकं तु लेहादिति च नो मतिः ।
24-b
सदार्व्यङ्कोटपाठानां मूलं त्वक् कुटजस्य च ॥ ५६ ॥
शाल्मलीशालनिर्यासधातकीलोध्रदाडिमम् ।
पिष्ट्वाक्षसम्मितान्कृत्वा वटकांस्तण्डुलाम्बुना ॥ ५७ ॥
तेनैव मधुसंयुक्तानेकैकान्प्रातरुत्थितः ।
पिबेदत्ययमापन्नो विड्विसर्गेण मानवः ।
अङ्कोटवटको नाम्ना सर्वातीसारनाशनः ॥ ५८ ॥
पयस्यर्धोदके छागे ह्रीवेरोत्पलनागरैः ।
पेया रक्तातिसारघ्नी पृश्निपर्ण्या च साधिता ॥ ५९ ॥
रसाञ्जनं सातिविषं कुटजस्य फलं त्वचम् ।
धातकी शृङ्गवेरं च प्रपिबेत्तण्डुलाम्बुना ॥ ६० ॥
क्षौद्रेण युक्तं नुदति रक्तातीसारमुल्बणम् ।
मन्दं दीपयते चाग्निं शूलं चापि निवर्तयेत् ॥ ६१ ॥
विडङ्गातिविषा मुस्तं दारु पाठा कलिङ्गकम् ।
मरिचेन समायुक्तं शोथातीसारनाशनम् ॥ ६२ ॥
25-a
सवत्सकः सातिविषः सबिल्वः
सोदीच्यमुस्तैश्चकृतः कषायः ।
सामे सशूले सह शोणिते च
चिरप्रवृत्तेऽपि हितोऽतिसारे ॥ ६३ ॥
कषायो मधुना पीतस्त्वचो दाडिमवत्सकात् ।
सद्यो जयेदतीसारं सरक्तं दुर्निवारकम् ॥ ६४ ॥
गुडेन खादयेद्बिल्वं रक्तातीसारनाशनम् ।
आमशूलविबन्धघ्नं कुक्षिरोगविनाशनम् ॥ ६५ ॥
बिल्वाब्दधातकीपाठाशुण्ठीमोचरसाः समाः ।
पीता रुन्धन्त्यतीसारं गुडतक्रेण दुर्जयम् ॥ ६६ ॥
शल्लकीबदरीजम्बुप्रियालाम्रार्जुनत्वचः ।
पीताः क्षीरेण मध्वाढ्याः पृथक् शोणितनाशनाः ॥ ६७ ॥
जम्ब्वाम्रामलकीनां तु पल्लवानथ कुट्टयेत् ।
संगृह्य स्वरसं तेषामजाक्षीरेण योजयेत् ॥ ६८ ॥
तं पिबेन्मधुना युक्तं रक्तातीसारनाशनम् ।
बिल्वं छागपयःसिद्धं सितामोचरसान्वितम् ॥ ६९ ॥
कलिङ्गचूर्णसंयुक्तं रक्तातीसारनाशनम् ।
ज्येष्ठाम्बुना तण्डुलीयं पीतं च ससितामधु ॥ ७० ॥
पीत्वा शतावरीकल्कं पयसा क्षीरभुग्जयेत् ।
रक्तातिसारी पीत्वा च तया सिद्धं घृतं नरः ॥ ७१ ॥
25-b
कुटजस्य पलं ग्राह्यमष्टभागजले शृतम् ।
तथैव विपचेद्भूयो दाडिमोदकसंयुतम् ॥ ७२ ॥
यावच्चैवं लसीकाभं शृतं तमुपकल्पयेत् ।
तस्यार्धकर्षं तक्रेण पिबेद्रक्तातिसारवान् ॥ ७३ ॥
अवश्यमरणीयोऽपि मृत्योर्याति न गोचरम् ।
क्वाथतुल्यं दाडिमाम्बुभागानुक्तौ समं यतः ॥ ७४ ॥
कल्कस्तिलानां कृष्णानां शर्कराभागसंयुतः ।
आजेन पयसा पीतः सद्यो रक्तं नियच्छति ॥ ७५ ॥
गुददाहे प्रपाके वा पटोलमधुकाम्बुना ।
सेकादिकं प्रशंसन्ति छागेन पयसापि वा ॥ ७६ ॥
गुदभ्रंशे प्रकर्तव्या चिकित्सा तत्प्रकीर्तिता ।
अवेदनं सुसम्पक्वं दीप्ताग्नेः सुचिरोत्थितम् ।
नानावर्णमतीसारं पुटपाकैरुपाचरेत् ॥ ७७ ॥
स्निग्धं घनं कुटजवल्कमजन्तुजग्ध-
मादाय तत्क्षणमतीव च पोथयित्वा ।
जम्बूपलाशपुटतण्डुलतोयसिक्तं
बद्धं कुशेन च बहिर्घनपङ्कलिप्तम् ॥ ७८ ॥
सुस्विन्नमेतदवपीड्य रसं गृहीत्वा
क्षौद्रेण युक्तमतिसारवते प्रदद्यात् ।
कृष्णात्रिपुत्रमतपूजित एष योगः
सर्वातिसारहरणे स्वयमेव राजा ॥ ७९ ॥
स्वरसस्य गुरुत्वेन पुटपाकपलं पिबेत् ।
पुटपाकस्य पाकोऽयं बहिरारक्तवर्णता ॥ ८० ॥
26-a
त्वक् पिण्डं दीर्घवृन्तस्य काश्मरीपत्रवेष्टितम् ।
मृदावलिप्तं सुकृतमङ्गारेष्ववकूलयेत् ॥ ८१ ॥
स्विन्नमुद्धृत्य निष्पीड्य रसमादाय यत्नतः ।
शीतीकृतं मधुयुतं पाययेदुदरामये ॥ ८२ ॥
शतं कुटजमूलस्य क्षुण्णं तोयार्मणे पचेत् ।
क्वाथे पादावशेषेऽस्मिंल्लेहं पूते पुनः पचेत् ॥ ८३ ॥
सौवर्चलयवक्षारबिडसैन्धवपिप्पली ।
धातकीन्द्रयवाजाजीचूर्णं दत्वा पलद्वयम् ॥ ८४ ॥
लिह्याद्बदरमात्रं तच्छृतं क्षौद्रेण संयुतम् ।
पक्वापक्वमतीसारं नानावर्णं सवेदनम् ।
दुर्वारं ग्रहणीरोगं जयेच्चैव प्रवाहिकाम् ॥ ८५ ॥
26-b
तुलामथार्द्रां गिरिमल्लिकायाः
संक्षुद्य पक्त्वा रसमाददीत ।
तस्मिन्सुपूते पलसम्मितानि
श्लक्ष्णानि पिष्ट्वा सह शाल्मलेन ॥ ८६ ॥
पाठां समङ्गातिविषां समुस्तां
बिल्वं च पुष्पाणि च धातकीनाम् ।
प्रक्षिप्य भूयो विपचेत्तु ताव-
द्दर्वीप्रलेपः स्वरसस्तु यावत् ॥ ८७ ॥
पीतस्त्वसौ कालविदा जलेन
मण्डेन वाजापयसाऽथवाऽपि ।
निहन्ति सर्वं त्वतिसारमुग्रं
कृष्णं सितं लोहितपीतकं वा ॥ ८८ ॥
दोषं ग्रहण्या विविधं च रक्तं
शूलं तथार्शांसि सशोणितानि ।
असृग्दरं चैवमसाध्यरूपं
निहन्त्यवश्यं कुटजाष्टकोऽयम् ॥ ८९ ॥
27-a
१०तुलाद्रव्ये जलद्रोणो द्रोणे द्रव्यतुला मता ।
वत्सकस्य च बीजानि दार्व्याश्च त्वच उत्तमाः ॥ ९० ॥
पिप्पली शृङ्गवेरं च लाक्षा कटुकरोहिणी ।
षड्भिरेभिर्घृतं सिद्धं पेयं मण्डावचारितम् ।
अतीसारं जयेच्छीघ्रं त्रिदोषमपि दारुणम् ॥ ९१ ॥
११क्षीरिद्रुमाभिरुरसे विपक्वं
तज्जैश्च कल्कैः पयसा च सर्पिः ।
सितोपलार्धं मधु पादयुक्तं
रक्तातिसारं शमयत्युदीर्णम् ॥ ९२ ॥
जीर्णेऽमृतोपमं क्षीरमतीसारे विशेषतः ।
छागं तु भेषजैः सिद्धं देयं वा वारिसाधितम् ॥ ९३ ॥
बालं बिल्वं गुडं तैलं पिप्पलीविश्वभेषजम् ।
लिह्याद्वाते प्रतिहते सशूले सप्रवाहिके ॥ ९४ ॥
पयसा पिप्पलीकल्कः पीतो वा मरिचोद्भवः ।
त्र्यहात्प्रवाहिकां हन्ति चिरकालानुबन्धिनीम् ॥ ९५ ॥
कल्कः स्याद्बालबिल्वानां तिलकल्कश्च तत्समः ।
दध्नः साराम्लः स्नेहाढ्यः खण्डो हन्यात्प्रवाहिकाम्
बिल्वोषणं गुडं लोध्रं तैलं लिह्यात्प्रवाहणे ॥ ९६ ॥
दध्ना ससारेण समाक्षिकेण
भुञ्जीत निश्चारकपीडितस्तु ।
सुतप्तकुष्यक्वथितेन वापि
क्षीरेण शीतेन मधुप्लुतेन ॥ ९७ ॥
दीप्ताग्निर्निष्पुरीषो यः सार्यते फेनिलं शकृत् ।
स पिबेत्फाणितं शुण्ठीदधितैलपयोघृतम् ॥ ९८ ॥
शोथं शूलं ज्वरं तृष्णां श्वासं कासमरोचकम् ।
छर्दिं मूर्च्छां च हिक्कां च दृष्ट्वातीसारिणं त्यजेत् ।
बहुमेही नरो यस्तु भिन्नविट्को न जीवति ॥ ९९ ॥
27-b
स्नानाभ्यङ्गावगाहांश्च गुरुस्निग्धातिभोजनम् ।
व्यायाममग्निसन्तापमतिसारी विवर्जयेत् ॥ १०० ॥