Adhikāra 50

अभ्यङ्गः कटुतैलेन सेकश्चोष्णाम्बुभिस्ततः ।
उदर्धे वमनं कार्यं पटोलारिष्टवारिणा ॥ १ ॥
त्रिफलापुरकृष्णाभिर्विरेकश्चात्र शस्यते ।
त्रिफलां क्षौद्रसहितां पिबेद्वा नवकार्षिकाम् ।
विसर्पोक्तममृतादि भिषगत्रापि योजयेत् ॥ २ ॥
सितां मधुकसंयुक्तां गुडमामलकैः सह ।
सगुडं दीष्यकं यस्तु खादेत्पथ्यान्नभुङ्नरः ॥ ३ ॥
तस्य नश्यति सप्ताहादुदर्धः सर्वदेहजः ।
सिद्धार्थरजनीकल्कैः प्रपुन्नाडतिलैः सह ॥ ४ ॥
कटुतैलेन संमिश्रमेतदुद्वर्तनं हितम् ।
दूर्वानिशायुतो लेपः कच्छुपामाविनाशनः ॥ ५ ॥
क्रिमिदद्रुहरश्चैव शीतपित्तहरः परः ।
अग्निमन्थभवं मूलं पिष्टं पीतं च सर्पिषा ॥ ६ ॥
शीतपित्तोदर्धकोठान्सप्ताहादेव नाशयेत् ।
कुष्ठोक्तं च क्रमं कुर्यादम्लपित्तघ्नमेव च ॥ ७ ॥
203-a
उदर्धोक्तां क्रियां चापि कोठरोगे समासतः ।
सर्पिः पीत्वा महातिक्तं कार्यं शोणितमोक्षणम् ॥ ८ ॥
निम्बस्य पत्राणि सदा घृतेन
धात्रीविमिश्राण्यथवोपयुञ्ज्यात् ।
विस्फोटकोठक्षतशीतपित्तं
कण्ड्वस्रपित्तं सहसा च जह्यात् ॥ ९ ॥
क्षारसिन्धूत्थतैलैश्च गात्राभ्यङ्गं प्रयोजयेत् ।
गम्भारिकाफलं पक्वं शुष्कमुत्स्वेदितं पुनः ॥ १० ॥
क्षीरेण शीतपित्तघ्नं खादितं पथ्यसेविना ।
तैलोद्वर्तनयोगेन योज्य एलादिको गणः ॥ ११ ॥
शुष्कमूलकयूपेण कौलत्थेन रसेन वा ।
भोजनं सर्वदा कार्यं लावतित्तिरिजेन वा ॥ १२ ॥
शीतलान्यन्नपानानि बुद्ध्वा दोषगतिं भिषक् ।
उष्णानि वा यथाकालं शीतपित्ते प्रयोजयेत् ॥ १३ ॥