Adhikāra 51

203-b
वान्तिं कृत्वाम्लापित्ते तु विरेकं मृदु कारयेत् ।
सम्यग्वान्तविरिक्तस्य सुस्निग्धस्यानुवासनम् ॥ १ ॥
आस्थापनं चिरोद्भूते देयं दोषाद्यपेक्षया ।
क्रिया शुद्धस्य शमनी ह्यनुबन्धव्यपेक्षया ॥ २ ॥
दोषसंसर्गजे कार्या भेषजाहारकल्पना ।
ऊर्ध्वगं वमनैर्धीमानधोगं रेचनैर्हरेत् ।
तिक्तभूयिष्ठमाहारं पानं वापि प्रकल्पयेत् ॥ ३ ॥
यवगोधूमविकृतींस्तीक्ष्णसंस्कारवर्जिताः ।
यथास्वं लाजशक्तून्वा सितामधुयुतान्पिबेत् ॥ ४ ॥
निस्तुषयववृषधात्री
क्वाथस्त्रिसुगन्धिमधुयुतः पीतः ।
अपनयति चाम्लपित्तं
यदि भुङ्क्ते मुद्गयूषेण ॥ ५ ॥
कफपित्तवमीकण्डूज्वरविस्फोटदाहहा ।
पाचनो दीपनः क्वाथः शृङ्कवेरपटोलयोः ॥ ६ ॥
पटोलं नागरं धान्यं क्वाथयित्वा जलं पिबेत् ।
कण्डुपामार्तिशूलघ्नं कफपित्ताग्निमान्द्यजित् ॥ ७ ॥
पटोलविश्वामृतरोहिणीकृतं
जलं पिबेत्पित्तकफोच्छ्रये तु ।
शूलभ्रमारोचकवह्निमान्द्य-
दाहज्वरच्छर्दिनिवारणं तत् ॥ ८ ॥
यवकृष्णापटोलानां क्वाथं क्षौद्रयुतं पिबेत् ।
नाशयेदम्लपित्तं च अरुचिं च वमिं तथा ॥ ९ ॥
204-a
वासामृतापर्पटकनिम्बभूनिम्बमार्कवैः ।
त्रिफलाकुलकैः क्वाथः सक्षौद्रश्चाम्लनाशनः ॥ १० ॥
फलत्रिकं पटोलं च तिक्ताक्वाथः सितायुतः ।
पीतः क्लीतकमध्वाक्तो ज्वरच्छर्द्यम्लपित्तजित् ॥ ११ ॥
पथ्याभृङ्गरजश्चूर्णं युक्तं जीर्णगुडेन तु ।
जयेदम्लपित्तजन्यां छर्दिमन्नविदाहजाम् ॥ १२ ॥
204-b
वासानिम्बपटोल-
त्रिफलाशनयासयोजितो जयति ।
अधिककफाम्लपित्तं
प्रयोजितो गुग्गुलुः क्रमेण ॥ १३ ॥
छिन्नाखदिरयष्ट्याह्वदार्व्यम्भो वा मधुद्रवम् ।
सद्राक्षामभयां खादेत्सक्षौद्रां सगुडां च ताम् ॥ १४ ॥
कटुका सितावलेह्या पटोलविश्वं च क्षौद्रसंयुक्तम् ।
रक्तस्रुतौ च युक्त्या वा खण्डकूष्माण्डकं श्रेष्ठम् ॥ १५ ॥
पटोलधन्याकमहौषधाब्दैः
कृतः कषायो विनिहन्ति शीघ्रम् ।
मन्दानलं पित्तबलासदाह-
च्छर्दिज्वरामानिलशूलरोगान् ॥ १६ ॥
छिन्नोद्भवानिम्बपटोलपत्रं
पलत्रिकं सुक्वथितं सुशीतम् ।
क्षौद्रान्वितं पित्तमनेकरूपं
सुदारुणं हन्ति हि चाम्लपित्तम् ॥ १७ ॥
पटोलत्रिफलानिम्बशृतं मधुयुतं पिबेत् ।
पित्तश्लेष्मज्वरच्छर्दिदाहशूलोपशान्तये ॥ १८ ॥
सिंहास्यामृतभण्डाकी क्वाथं पीत्वा समाक्षिकम् ।
अम्लपित्तं जयेज्जन्तुः कासं श्वासं ज्वरं वमिम् ॥ १९ ॥
वासाघृतं तिक्तघृतं पिप्पलीघृतमेव च ।
अम्लपित्ते प्रयोक्तव्यं गुडकूष्माण्डकं तथा ॥ २० ॥
205-a
पक्तिशूलापहा योगास्तथा खण्डामलक्यपि ।
पिप्पलीमधुसंयुक्ता चाम्लपित्तविनाशिनी ॥ २१ ॥
जम्बीरस्वरसः पीतः सायं हन्त्यम्लपित्तकम् ॥ २२ ॥
गुडपिप्पलिपथ्याभिस्तुल्याभिर्मोदकः कृतः ।
पित्तश्लेष्मापहः प्रोक्तो मन्दमग्निं च दीपयेत् ॥ २३ ॥
हिङ्गु च कतकफलानि
चिञ्चात्वचो घृतं च पुटदग्धम् ।
शमयति तदम्लपित्त-
मम्लभुजो यदि यथोत्तरं द्विगुणम् ॥ २४ ॥
कान्तापात्रे वराकल्को व्युषितोऽभ्यासयोगतः ।
सिताक्षौद्रसमायुक्तः कफपित्तहरः स्मृतः ॥ २५ ॥
एकोंऽशः पञ्चनिम्बानां द्विगुणो वृद्धदारकः ।
शक्तुर्दशगुणो देयः शर्करामधुरीकृतः ॥ २६ ॥
शीतेन वारिणा पीतः शूलं पित्तकफोत्थितम् ।
निहन्ति चूर्णं सक्षौद्रमम्लपित्तं सुदारुणम् ॥ २७ ॥
205-b
आशुभक्तोदकैः पिष्टमभ्रकं तत्र संस्थितम् ॥ २८ ॥
कन्दमाणास्थिसंहारखण्डकर्णरसैरथ ।
तण्डुलीयं च शालिं च कालमारिषजेन च ॥ २९ ॥
वृश्चीरबृहतीभृङ्गलक्षणाकेशराजजैः ।
पेषणं भावनं कुर्यात्पुटं चानेकशो भिषक् ॥ ३० ॥
यावन्निश्चन्द्रकं तत्स्याच्छुद्धिरेवं विहायसः ।
स्वर्णमाक्षिकशालिं च ध्मातं निर्वापितं जले ॥ ३१ ॥
त्रैफलेऽथ विचूर्ण्यैवं लौहं कान्तादिकं पुनः ।
बृहत्पत्रकरीकर्णत्रिफलावृद्धदारजैः ॥ ३२ ॥
माणकन्दास्थिसंहारशृङ्गवेरभवै रसैः ।
दशमूलीमुण्डितिकातालमूलीसमुद्भवैः ॥ ३३ ॥
पुटितं साधुयत्नेन शुद्धिमेवमयो व्रजेत् ।
वशिरं श्वेतवाट्यालं मधुपर्णी मयूरकम् ॥ ३४ ॥
तण्डुलीयं च वर्षाह्वं दत्वाधश्चोर्ध्वमेव च ।
पाक्यं सजीर्णमण्डूरं गोमूत्रेण दिनत्रयम् ॥ ३५ ॥
अन्तर्बाष्पमदग्धं च तथा स्थाप्यं दिनत्रयम् ।
विचूर्णितं शुद्धिरियं लोहकिट्टस्य दर्शिता ॥ ३६ ॥
जयन्त्या वर्धमानस्य आर्द्रकस्य रसेन तु ।
वायस्याश्चानुपूर्व्यैवं मर्दनं रसशोधनम् ॥ ३७ ॥
गन्धकं नवनीताख्यं क्षुद्रितं लौहभाजने ।
त्रिधा चण्डातपे शुष्कं भृङ्गराजरसाप्लुतम् ॥ ३८ ॥
ततो वह्नौ द्रवीभूतं त्वरितं वस्त्रगालितम् ।
यत्नाद्भृङ्गरसे क्षिप्तं पुनः शुष्कं विशुध्यति ॥ ३९ ॥
206-a
गगनाद्द्विपलं चूर्णं लौहस्य पलमात्रकम् ।
लौहकिट्टपलार्धं च सर्वमेकत्र संस्थितम् ॥ ४० ॥
मण्डूकपर्णीवशिरतालमूलीरसैः पुनः ।
वरीभृङ्गकेशराजकालमारिषजैरथ ॥ ४१ ॥
त्रिफलाभद्रमुस्ताभिः स्थालीपाकाद्विचूर्णितम् ।
रसगन्धकयोः कर्षौ प्रत्येकं ग्राह्यमेकतः ॥ ४२ ॥
तन्मर्दनाच्छिलाखल्वे यत्नतः कज्जलीकृतम् ।
वचा चव्यं यमानी च जीवकेशरपुष्पिका ॥ ४३ ॥
व्योषं मुस्तं विडङ्गं च ग्रन्थिकं खरमञ्जरी ।
त्रिवृता चित्रको दन्ती सूर्यावर्तोऽसितस्तथा ॥ ४४ ॥
भृङ्गमाणककन्दश्च खण्डकर्णक एव च ।
दण्डोत्पलाकेशराजकालावकडकोऽपि च ॥ ४५ ॥
एषामर्धपलं ग्राह्यं पटघृष्टं सुचूर्णितम् ।
प्रत्येकं त्रिफलायाश्च पलार्धं पलमेव च ॥ ४६ ॥
एतत्सर्वं समालोड्य लोहपात्रे तु भावयेत् ।
आतपे दण्डसंघृष्टमार्द्रकस्य रसैस्त्रिधा ॥ ४७ ॥
तद्रसेन शिलापिष्टं गुडिकां कारयेद्भिषक् ।
बदरास्थिनिभां शुष्कां सुनिगुप्तां निधापयेत् ॥ ४८ ॥
तत्प्रातर्भोजनादौ तु सेवितं गुडिकात्रयम् ।
अम्लोदकानुपानं च हितं मधुरवर्जितम् ॥ ४९ ॥
दुग्धं च नारिकेलं च वर्जनीयं विशेषतः ।
भोज्यं यथेष्टमिष्टं च वारि भक्ताम्लकाञ्जिकम् ॥ ५० ॥
हन्त्यम्लपित्तं विविधं शूलं च परिणामजम् ।
पाण्डुरोगं च गुल्मं च शोथोदरगुदामयान् ॥ ५१ ॥
यक्ष्माणं पञ्चकासांश्च मन्दाग्नित्वमरोचकम् ।
प्लीहानं श्वासमानाहमामवातं सुदारुणम् ।
गुडी क्षुधावती सेयं विख्याता रोगनाशिनी ॥ ५२ ॥
206-b
पिष्ट्वाजाजीं सधन्याकं घृतप्रस्थं विपाचयेत् ।
कफपित्तारुचिहरं मन्दानलवमिं जयेत् ॥ ५३ ॥
पटोलशुण्ठ्योः कल्काभ्यां केवलं कुलकेन वा ।
घृतप्रस्थं विपक्तव्यं कफपित्तहरं परम् ॥ ५४ ॥
207-a
१०पिप्पलीक्वाथकल्केन घृतं सिद्धं मधुप्लुतम् ।
पिबेत्तत्प्रातरुत्थाय अम्लपित्तनिवृत्तये ॥ ५५ ॥
११द्राक्षामृताशक्रपटोलपत्रैः
सोशीरधात्रीघनचन्दनैश्च ।
त्रायन्तिकापद्मकिरातधान्यैः
कल्कैः पचेत्सर्पिरुपेतमेभिः ॥ ५६ ॥
युञ्जीत मात्रां सह भोजनेन
सर्वर्तुपानेऽपि भिषग्विदध्यात् ।
बलासपित्तं ग्रहणीं प्रवृद्धां
कासाग्निसादं ज्वरमम्लपित्तम् ।
सर्वं निहन्याद्धृतमेतदाशु
सम्यक्प्रयुक्तं ह्यमृतोपमं च ॥ ५७ ॥
१२शतावरीमूलकल्कं घृतप्रस्थं पयःसमम् ।
पचेन्मृद्वग्निना सम्यक् क्षीरं दत्वा चतुर्गुणम् ॥ ५८ ॥
नाशयेदम्लपित्तं च वातपित्तोद्भवान्गदान् ।
रक्तपित्तं तृषां मूर्च्छं श्वासं सन्तापमेव च ॥ ५९ ॥