Adhikāra 52

207-b
विरेकवमनालेपसेचनासृग्विमोक्षणैः ।
उपाचरेद्यथादोषं विसर्पानविदाहिभिः ॥ १ ॥
पटोलपिचुमर्दाभ्यां पिप्पल्या मदनेन च ।
विसर्पे वमनं शस्तं तथैवेन्द्रयवैः सह ॥ २ ॥
त्रिफलारससंयुक्तं सर्पिस्त्रिवृतया सह ।
प्रयोक्तव्यं विरेकार्थं विसर्पज्वरशान्तये ॥ ३ ॥
रसमामलकानां वा घृतमिश्रं प्रदापयेत् ।
तृणवर्जं प्रयोक्तव्यं पञ्चमूलचतुष्टयम् ।
प्रदेहसेकसर्पिर्भिर्विसर्पे वातसम्भवे ॥ ४ ॥
कुष्टं शताह्वासुरदारुमुस्ता-
वाराहिकुस्तुम्बुरुकृष्णगन्धाः ।
वातेर्कवंशार्तगलाश्च योज्याः
सेकेषु लेपेषु तथा घृतेषु ॥ ५ ॥
प्रपौण्डरीकमञ्जिष्ठापद्मकोशीरचन्दनैः ।
सयष्टीन्दीवरैः पित्ते क्षीरपिष्टैः प्रलेपयेत् ॥ ६ ॥
कशेरुशृङ्गाटकपद्मगुन्द्राः
सशैवलाः सोत्पलकर्दमाश्च ।
वस्त्रान्तराः पित्तकृते विसर्पे
लेपा विधेयाः सघृताः सुशीताः ॥ ७ ॥
प्रदेहाः परिषेकाश्च शस्यन्ते पञ्चवल्कलैः ।
पद्मकोशीरमधुकचन्दनैर्वा प्रशस्यते ॥ ८ ॥
पित्ते तु पद्मिनीपङ्कं पिष्टं वा शङ्खशैवलम् ।
गुन्द्रामूलं तु शुक्तिर्वा गैरिकं वा घृतान्वितम् ॥ ९ ॥
208-a
न्यग्रोधपादा गुन्द्रा च कदलीगर्भ एव च ।
विसग्रन्थिकलेपः स्याच्छतधौतघृताप्लुतः ॥ १० ॥
हरेणवो मसूराश्च मुद्गाश्चैव सशालयः ।
पृथक्पृथक्प्रदेहाः स्युः सर्वैर्वा सर्पिषा सह ॥ ११ ॥
द्राक्षारग्वधकाश्मर्यत्रिफलैरण्डपीलुभिः ।
त्रिवृद्धरीतकीभिश्च विसर्पे शोधनं हितम् ॥ १२ ॥
गायत्रीसप्तपर्णाब्दवासारग्वधदारुभिः ।
कुटन्नटैर्भवेल्लेपो विसर्पे श्लेष्मसम्भवे ॥ १३ ॥
अजाश्वगन्धा शरलाथ काला
सैकेशिका वाप्यथवाजशृङ्गी ।
गोमूत्रपिष्टो विहितः प्रलेपो
हन्याद्विसर्पं कफजं सुशीघ्रम् ॥ १४ ॥
मदनं मधुकं निम्बं वत्सकस्य फलानि च ।
वमनं च विधातव्यं विसर्पे कफसम्भवे ॥ १५ ॥
त्रिफला पद्मकोशीरसमङ्गाकरवीरकम् ।
फलमूलमनन्ता च लेपः श्लेष्मविसर्पहा ॥ १६ ॥
आरग्वधस्य पत्राणि त्वचः श्लेष्मातकोद्भवाः ।
शिरीषपुष्पकामाची हिता लेपावचूर्णनैः ॥ १७ ॥
208-b
मुस्तारिष्टपटोलानां क्वाथः सर्वविसर्पनुत् ।
धात्रीपटोलमुद्गानामथवा घृतसंप्लुतः ॥ १८ ॥
अमृतविषपटोलं निम्बकल्कैरुपेतं
त्रिफलखदिरसारं व्याधिघातं च तुल्यम् ।
क्वथितमिदमशेषं गुग्गुलोर्भागयुक्तं
जयति विषविसर्पान्कुष्ठमष्टादशाख्यम् ॥ १९ ॥
अमृतवृषपटोलं मुस्तकं सप्तपर्णं
खदिरमसितवेत्रं निम्बपत्रं हरिद्रे ।
विविधविषविसर्पान्कुष्ठविस्फोटकण्डू-
रपनयति मसूरीं शीतपित्तं ज्वरं च ॥ २० ॥
पटोलामृतभूनिम्बवासकारिष्टपर्पटैः ।
खदिराब्दयुतैः क्वाथो विस्फोटार्तिज्वरापहः ॥ २१ ॥
209-a
पटोलत्रिफलारिष्टगुडूचीमुस्तचन्दनैः ।
समूर्वा रोहिणी पाठा रजनी सदुरालभा ॥ २२ ॥
कषायं पाययेदेतच्छ्लेष्मपित्तज्वरापहम् ।
कण्डूत्वग्दोषविस्फोटविषवीसर्पनाशनम् ॥ २३ ॥
भूनिम्बवासाकटुकापटोल-
फलत्रिकाचन्दननिम्बसिद्धः ।
विसर्पदाहज्वरवस्त्रशोष-
विस्फोटतृष्णावमिनुत्कषायः ॥ २४ ॥
सकफे पित्तयुक्ते तु त्रिफलां योजयेत्पुरैः ॥ २५ ॥
दुरालभां पर्पटकं पटोलं कटुकां तथा ।
सोष्णं गुग्गुलुसंमिश्रं पिबेद्वा खदिराष्टकम् ॥ २६ ॥
कुण्डलीपिचुमर्दाम्बु खदिरेन्द्रयवाम्बु वा ।
विस्फोटं नाशयत्याशु वायुर्जलधरानिव ॥ २७ ॥
चन्दनं नागपुष्पं च तण्डुलीयकशारिवे ।
शिरीषवल्कलं जातीलेपः स्याद्दाहनाशनः ॥ २८ ॥
शुकतरुनतमांसी रजनी पद्मा च तुल्यानि ।
पिष्टानि शीततोयेन लेपः स्यात्सर्वविस्फोटे ॥ २९ ॥
शिरीषमूलमञ्जिष्ठाचव्यामलकयष्टिकाः ।
सजातीपल्लवक्षौद्रा विस्फोटे कवलग्रहाः ॥ ३० ॥
शिरीषोदुम्बरौ जम्बु सेकालेपनयोर्हिताः ।
श्लेष्मातकत्वचो वापि प्रलेपाश्च्योतने हिताः ॥ ३१ ॥
शिरीषयष्टीनतचन्दनैल-
मांसीहरिद्राद्वयकुष्टबालैः ।
लेपो दशाङ्गः सघृतः प्रदिष्टो
विसर्पकण्डूज्वरशोथहारी ॥ ३२ ॥
शिरीषोशीरनागाह्वहिंस्राभिर्लेपनाद्द्रुतम् ।
विसर्पविषविस्फोटाः प्रशाम्यन्ति न संशयः ॥ ३३ ॥
209-b
वृषखदिरपटोलपत्रनिम्ब-
त्वगमृतामलकीकषायकल्कैः ।
घृतमभिनवमेतदाशु पक्वं
जयति विसर्पगदान्सकुष्ठगुल्मान् ॥ ३४ ॥
पटोलसप्तच्छदनिम्बवासा
फलत्रिकं छिन्नरुहाविपक्वम् ।
तत्पञ्चतिक्तं घृतमाशु हन्ति
त्रिदोषविस्फोटविसर्पकण्डूः ॥ ३५ ॥
पद्मकं मधुकं लोध्रं नागपुष्पस्य केशरम् ।
द्वे हरिद्रे विडङ्गानि सूक्ष्मैला तगरं तथा ॥ ३६ ॥
कुष्ठं लाक्षापत्रकं च सिक्थकं तुत्थमेव च ।
बहुवारः शिरीषश्च कपित्थफलमेव च ॥ ३७ ॥
तोयेनालोड्य तत्सर्वं घृतप्रस्थं विपाचयेत् ।
210-a
यांश्च रोगान्निहन्याद्वै तान्निबोध महामुने ॥ ३८ ॥
सर्पकीटाखुदष्टेषु लूतामूत्रकृतेषु च ।
विविधेषु स्फोटकेषु तथा कुष्ठविसर्पिषु ॥ ३९ ॥
नाडीषु गण्डमालासु प्रभिन्नासु विशेषतः ।
अगस्त्यविहितं धन्यं पद्मकं तु महाघृतम् ॥ ४० ॥
१०रोगस्तु स्नायुकाख्यो यः क्रिया तत्र विसर्पवत्
गव्यं सर्पिस्त्र्यहं पीत्वा निर्गुण्डीस्वरसं त्र्यहम् ।
पिबेत्स्नायुकमत्युग्रं हन्त्यवश्यं न संशयः ॥ ४१ ॥
शोभाञ्जनमूलदलैः
काञ्जिकपिष्टैः सलवणैर्लेपः ।
हन्ति स्नायुकरोगं
यद्वा मोचकत्वचो लेपः ॥ ४२ ॥