211-a
तद्वच्छृगालकण्टकमूलं च व्युषिताम्भसा ।
मसूरीं मूर्च्छितो हन्ति गन्धकार्धस्तु पारदः ॥ ८ ॥
निशाचिञ्चाच्छदे शीतवारिपीते तथैव तु ।
यावत्संख्यामसूर्यङ्गे तावद्भिः शेलुजैर्दलैः ॥ ९ ॥
छिन्नैरातुरनाम्ना तु गुणी व्येति न वर्धते ।
व्युषितं वारि सक्षौद्रं पीतं दाहगुणीहरम् ॥ १० ॥
शेलुत्वक्कृतशीताम्भःसेको वा कायशोषणे ।
उग्राज्यवंशनीलीयववृषकार्पासकीकसब्रह्मी ॥ ११ ॥
स्वरसमयूरकलाक्षाधूपो रोमान्तिकादिहरः ।
तर्पणं वातजायां प्राग्लाजचूर्णैः सशर्करैः ॥ १२ ॥
भोजनं तिक्तयूषैश्च प्रतुदानां रसेन वा ।
द्विपञ्चमूलं रास्ना च दार्व्युशीरं दुरालभा ॥ १३ ॥
सामृतं धान्यकं मुस्तं जयेद्वातसमुत्थिताम् ।
गुडूचीं मधुकं रास्नां पञ्चमूलं कनिष्ठकम् ॥ १४ ॥
चन्दनं काश्मर्यफलं बलामूलं बिकङ्कतम् ।
पाककाले मसूर्यां तु वातजायां प्रयोजयेत् ॥ १५ ॥
द्राक्षाकाश्मर्यखर्जूरपटोलारिष्टवासकैः ।
लाजामलकदुस्पर्शैः सितायुक्तैश्च पैत्तिके ॥ १६ ॥