210-b
कषायैश्च वचावत्सयष्ट्याह्वफलकल्कितैः ॥ १ ॥
सक्षौद्रं पाययेद्ब्राह्म्या रसं वा हैलमोचिकम् ।
वान्तस्य रेचनं देयं शमनं चाबले नरे ॥ २ ॥
सुषवीपत्रनिर्यासं हरिद्राचूर्णसंयुतम् ।
रोमान्तीज्वरविस्फोटमसूरीशान्तये पिबेत् ॥ ३ ॥
उभाभ्यां हृतदोषस्य विशुष्यन्ति मसूरिकाः ।
निर्विकाराश्चाल्पपूयाः पच्यन्ते चाल्पवेदनाः ॥ ४ ॥
कण्टाकुम्भाडुमूलं क्वथनविधिकृतं
हिङ्गुमाषैकयुक्तं
पीतं बीजं जयायाः सघृतमुषितवाः
पीतमङ्घ्रिः सिकट्या ।
माघामूलं शिफा वा दमनकुसुमजा
सोषणा वाथ पूतिः
योगा वास्यम्बुनैते प्रथममथगदे
दृश्यमाने प्रयोज्याः ॥ ५ ॥
उद्धृत्य मुष्टिमाच्छाद्य भेषजं यत्प्रयुज्यते ।
तन्मुष्टियोगमित्याहुर्मुष्टियोगपरायणाः ॥ ६ ॥
उष्ट्रकण्टकमूलं वाप्यनन्तामूलमेव वा ।
विधिगृहीतं ज्येष्ठाम्बु पीतं हन्ति मसूरिकाम् ॥ ७ ॥