Adhikāra 55

ओष्ठप्रकोपे वातोत्थे शाल्वनेनोपनाहनम् ।
मस्तिष्के चैव नस्ये च तैलं वातहरैः शृतम् ।
स्वेदोऽभ्यङ्गः स्नेहपानं रसायनमिहेष्यते ॥ १ ॥
श्रीवेष्टकं सर्जरसं गुग्गुलुं सुरदारु च ।
यष्टिमधुकचूर्णं च विदध्यात्प्रतिसारणम् ॥ २ ॥
वेधं शिराणां वमनं विरेकं
तिक्तस्य पानं रसभोजनं च ।
शीतान्प्रलेपान्परिषेचनं च
पित्तोपसृष्टेष्वधरेषु कुर्यात् ॥ ३ ॥
पित्तरक्ताभिघातोत्थाञ्जलौकाभिरुपाचरेत् ।
पित्तविद्रधिवच्चापि क्रियां कुर्यादशेषतः ॥ ४ ॥
222-b
शिरोविरेचनं धूमः स्वेदः कवलधारणम् ।
हृतरक्ते प्रयोक्तव्यमोष्ठकोपे कफात्मके ॥ ५ ॥
त्रिकटुः सर्जिकाक्षारः क्षारश्च यावशूकजः ।
क्षौद्रयुक्तं विधातव्यमेतच्च प्रतिसारणम् ।
मेदोजे स्वेदिते भिन्ने शोधिते ज्वलनो हितः ॥ ६ ॥
प्रियङ्गुत्रिफलालोध्रं सक्षौद्रं प्रतिसारणम् ।
हितं च त्रिफलाचूर्णं मधुयुक्तं प्रलेपनम् ॥ ७ ॥
सर्जरसकनकगैरिक-
धन्याकघृततैलसिन्धुसंयुक्तम् ।
सिद्धं सिक्थकमधुरे
स्फुटितोच्चटिते व्रणं हरति ॥ ८ ॥
शीतादे हृतरक्ते तु तोये नागरसर्षपान् ।
निःक्वाथ्य त्रिफलां चापि कुर्याद्गण्डूषधारणम् ॥ ९ ॥
प्रिङ्गयवश्च मुस्ता च त्रिफला च प्रलेपनम् ॥ १० ॥
223-a
कुष्टं दार्वीमब्दलोध्रं समङ्गा
पाठा तिक्ता तेजनी पीतिका च ।
चूर्णं शस्तं घर्षणं तद्द्विजानां
रक्तस्रावं हन्ति कण्डूं रुजां च ॥ ११ ॥
चलदन्तस्थिरकरं कार्यं बकुलचर्वणम् ।
आर्तगलदलक्वाथगण्डूषो दन्तचालनुत् ॥ १२ ॥
दन्तचाले हितं श्रेष्ठं तिलोग्राचर्वणं सदा ।
दन्तपुप्पुटके कार्यं तरुणे रक्तमोक्षणम् ॥ १३ ॥
सपञ्चलवणः क्षारः सक्षौद्रः प्रतिसारणम् ।
दन्तानां तोदहर्षे च वातघ्नाः कवला हिताः ॥ १४ ॥
दन्तचाले तु गण्डूषो बकुलत्वक्कृतो हितः ।
माक्षिकं पिप्पलीसर्पिर्मिश्रितं धारयेन्मुखे ॥ १५ ॥
दन्तशूलहरं प्रोक्तं प्रधानमिदमौषधम् ।
विस्राविते दन्तवेष्टे व्रणं तु प्रतिसारयेत् ॥ १६ ॥
लोध्रपत्तुङ्गमधुकलाक्षाचूर्णैर्मधूत्तरैः ।
गण्डूषे क्षीरिणो योज्याः सक्षौद्रघृतशर्कराः ॥ १७ ॥
223-b
शैशिरे हृतरक्ते च लोध्रमुस्तरसाञ्जनैः ।
सक्षौद्रैः शस्यते लेपो गण्डूषे क्षीरिणो हिताः ॥ १८ ॥
क्रियां परिदरे कुर्याच्छीतादोक्तां विचक्षणः ।
संशोध्योभयतः कार्यं शिरश्चोपकुशे ततः ॥ १९ ॥
काकोदुम्बरिकागोजीपत्रैर्विस्रावयेद्भिषक् ।
क्षौद्रयुक्तैश्च लवणैः सव्योषैः प्रतिसारयेत् ॥ २० ॥
पिप्पल्यः सर्षपाः श्वेता नागरं नैचुलं फलम् ।
सुखोदकेन संगृह्य कवलं तस्य योजयेत् ॥ २१ ॥
शस्त्रेण दन्तवैदर्भे दन्तमूलानि शोधयेत् ।
ततः क्षारं प्रयुञ्जीत क्रियाः सर्वाश्च शीतलाः ॥ २२ ॥
उद्धृत्याधिकदन्तं तु ततोऽग्निमवचारयेत् ।
क्रिमिदन्तकवच्चात्र विधिः कार्यो विजानता ।
छित्त्वाधिमांसं सक्षौद्रैरेतैश्चूर्णैरुपाचरेत् ॥ २३ ॥
पाठावचातेजोवतीसर्जिकायावशूकजैः ।
क्षौद्रद्वितीयाः पिप्पल्यः कवलश्चात्र कीर्तितः ॥ २४ ॥
पटोलनिम्बत्रिफलाकषायश्चात्र धावने ।
शिरोविरेकश्च हितो धूमो वैरेचनश्च यः ॥ २५ ॥
नाडीव्रणहरं कर्म दन्तनाडीषु कारयेत् ।
यं दन्तमधिजायेत नाडी तद्दन्तमुद्धरेत् ॥ २६ ॥
224-a
छित्त्वाधिमांसं शस्त्रेण यदि नोपरिजो भवेत् ।
शोधयित्वा दहेच्चापि क्षारेण ज्वलनेन वा ॥ २७ ॥
गतिर्हिनस्ति हन्वस्थि दशने समुपेक्षिते ।
तस्मात्समूलं दशनमुद्धरेद्भग्नमस्थि च ॥ २८ ॥
उद्धृते तूत्तरे दन्ते शोणितं संप्रसिच्यते ।
रक्ताभियोगात्पूर्वोक्ता घोरा रोगा भवन्ति च ॥ २९ ॥
चलमप्युत्तरं दन्तमतो नापहरेद्भिषक् ।
कषायं जातीमदनकटुकस्वादुकण्टकैः ॥ ३० ॥
लोध्रखदिरमञ्जिष्ठायष्ट्याह्वैश्चापि यत्कृतम् ।
तैलं संशोधनं तद्धि हन्याद्दन्तगतां गतिम् ॥ ३१ ॥
कषायं परतः कृत्वा पिष्ट्वा लोध्रादिकल्कितम् ।
कण्टकीमदनो योज्यः स्वादुकण्टो विकङ्कतः ॥ ३२ ॥
सुखोष्णाः स्नेहकवलाः सर्पिषस्त्रैवृतस्य वा ।
निर्यूहाश्चानिलघ्नानां दन्तहर्षप्रमर्दनाः ॥ ३३ ॥
स्नैहिकश्च हितो धूमो नस्यं स्नैहिकमेव च ।
अहिंसन्दन्तमूलानि शर्करामुद्धरेद्भिषक् ॥ ३४ ॥
लाक्षाचूर्णैर्मधुयुतैस्ततस्तां प्रतिसारयेत् ।
हन्तहर्षक्रियां चापि कुर्यान्निरवशेषतः ॥ ३५ ॥
224-b
कपालिकाः कृच्छ्रसाध्यास्तत्राप्येषा क्रियामता
जयेद्विस्रावणैः स्विन्नमचलं क्रिमिदन्तकम् ॥ ३६ ॥
तथावपीडैर्वातघ्नैः स्नेहगण्डूषधारणैः ।
भद्रदार्वादिवर्षाभूलेपैः सिग्धैश्च भोजनैः ।
हिङ्गु सोष्णं तु मतिमान्क्रिमिदन्तेषु दापयेत् ॥ ३७ ॥
बृहतीभूमिकदम्बक-
पञ्चाङ्गुलिकण्टकारिकाथैः ।
गण्डूषस्तैलयुतः
क्रिमिदन्तकवेदनाशमनः ॥ ३८ ॥
नीलीवायसजङ्घा-
स्नुग्दुग्धीनां तु मूलमेकैकम् ।
संचर्व्य दशनविधृतं
दशनक्रिमिपातनं प्राहुः ॥ ३९ ॥
चलमुद्धृत्य वा स्थानं दहेत्तु शुषिरस्य वा ।
225-a
ततो विदारीयष्ट्याह्वशृङ्गाटककशेरुभिः ।
तैलं दशगुणं क्षीरं सिद्धं नस्ये तु योजयेत् ॥ ४० ॥
हनुमोक्षे समुद्दिष्टा कार्या चार्दितवत्क्रिया ।
फलान्यम्लानि शीताम्बु रुक्षान्नं दन्तधावनम् ॥ ४१ ॥
तथातिकठिनान्भक्ष्यान्दन्तरोगी विवर्जयेत् ।
सप्तच्छदार्कदुग्धाभ्यां पूरणं क्रिमिदन्तनुत् ॥ ४२ ॥
जीवनीयेन दुग्धेन क्रिमिरन्ध्रप्रपूरणम् ।
अर्कक्षीरेणैवमेकयोगः सद्भिः प्रशस्यते ॥ ४३ ॥
द्रोणपुष्पीद्रवः फेनमधुतैलसमायुतः ।
क्रिमिदन्तविनाशाय कार्यं कर्णस्य पूरणम् ॥ ४४ ॥
पटोलकटुकाव्योषपाठासैन्धवभांर्गिकैः ।
चूर्णैर्मधुयुतो लेपः कवलो मधुतैलकैः ।
जिह्वारोगेषु कर्तव्यं विधानमिदमौषधम् ॥ ४५ ॥
मुस्तामधुकनिर्गुण्डीखदिरोशीरदारुभिः ।
समञ्जिष्ठाविडङ्गैश्र सिद्धं तैलं हरेत्क्रिमीन् ॥ ४६ ॥
ओष्ठप्रकोपेऽनिलजे यदुक्तं प्राक् चिकित्सितम् ।
कण्टकेष्वनिलोत्थेषु तत्कार्यं भिषजा खलु ॥ ४७ ॥
पित्तजेषु निघृष्टेषु निस्रुते दुष्टशोणिते ।
प्रतिसारणगण्डूषान्नस्यं च मधुरं हितम् ॥ ४८ ॥
225-b
कण्टकेषु कफोत्थेषु लिखितेष्वसृजः क्षये ।
पिप्पल्यादिर्मधुयुतः कार्यं तु प्रतिसारणम् ॥ ४९ ॥
गृह्णीयात्कवलान्वापि गौरसर्षपसैन्धवैः ।
पटोलनिम्बवार्ताकुक्षारयूषैश्च भोजयेत् ॥ ५० ॥
जिह्वाजाड्यं चिरजं
माणकभस्मलवणघर्षणं हन्ति ।
ईषत्स्नुक्क्षीराक्तं
जम्बीराद्यम्लचर्वणं वापि ॥ ५१ ॥
कर्कटाङ्घ्रिक्षीरपक्वघृताभ्यङ्गेन नश्यति ।
दन्तशब्दः कर्कटाङ्घ्रिलेपाद्वा दन्तयोजितात् ॥ ५२ ॥
उपजिह्वां तु संलिख्य क्षारेण प्रतिसारयेत् ।
शिरोविरेकगण्डूषधूमैश्चैनामुपाचरेत् ॥ ५३ ॥
व्योषक्षाराभयावह्निचूर्णमेतत्प्रघर्षणम् ।
उपजिह्वाप्रशान्त्यर्थमेतैस्तैलं विपाचयेत् ॥ ५४ ॥
छिन्नां घर्षेद्गलशुण्ठीं व्योषोग्राक्षौद्रसिन्धुजैः ।
कुष्ठोषणवचासिन्धुकणापाठाप्लवैरपि ॥ ५५ ॥
सक्षौद्रैर्भिषजा कार्यं गलशुण्ठ्या विघर्षणम् ।
उपनासाव्यधो हन्ति गलशुण्ठीमशेषतः ॥ ५६ ॥
गलशुण्ठीहरं तद्वच्छेफालीमूलचर्वणम् ।
वचामतिविषां पाठां रास्नां कटुकरोहिणीम् ।
निःक्वाथ्य पिचुमर्दं च कवलं तत्र योजयेत् ॥ ५७ ॥
226-a
क्षारसिद्धेषु मुद्गेषु यूषाश्चाप्यशने हिताः ।
तुण्डीकेर्यध्रुषे कूर्मे संघाते तालुपुप्पुटे ॥ ५८ ॥
एष एव विधिः कार्यो विशेषः शस्त्रकर्मणि ।
तालुपाके तु कर्तव्यं विधानं पित्तनाशनम् ॥ ५९ ॥
स्नेहस्वेदौ तालुशोषे विधिश्चानिलनाशनः ।
साध्यानां रोहिणीनां तु हितं शोणितमोक्षणम् ॥ ६० ॥
छर्दनं धूमपानं च गण्डूषो नस्यकर्म च ।
घातिकीं तु हृते रक्ते लवणैः प्रतिसारयेत् ॥ ६१ ॥
सुखोष्णांस्तैलकवलान्धारयेच्चाप्यभीक्ष्णशः ।
पतङ्गशर्कराक्षोद्रैः पैत्तिकीं प्रतिसारयेत् ॥ ६२ ॥
द्राक्षापरूषकक्वाथो हितश्च कवलग्रहे ।
आगारधूमकटुकैः कफजां प्रतिसारयेत् ॥ ६३ ॥
श्वेताविल्लङ्गदन्तीषु सिद्धं तैलं ससैन्धवम् ।
नस्यकर्मणि दातव्यं कवलं च कफोच्छ्रये ॥ ६४ ॥
पित्तवत्साधयेद्वैद्यो रोहिणीं रक्तसंभवाम् ।
विस्राव्य कण्ठशालूकं साधयेत्तुण्डिकेरिवत् ॥ ६५ ॥
एककालं यवान्नं च भुञ्जीत स्निग्धमल्पशः ।
उपजिह्विकवच्चापि साधयेदधिजिह्विकाम् ॥ ६६ ॥
उन्नाम्य जिह्वामाकृष्य बडिशेनाधिजिह्विकाम् ।
छेदयेन्मण्डलाग्रेण तीक्ष्णोष्णैर्घर्षणादिभिः ॥ ६७ ॥
226-b
एकवृन्दं तु विस्राव्य विधिं शोधनमाचरेत् ।
शिलायुश्चापि यो व्याधिस्तं च शस्त्रेण साधयेत् ॥ ६८ ॥
अमर्मस्थं सुपक्वं च भेदयेद्गलविद्रधिम् ।
कण्ठरोगेष्वसृङ्मोक्षस्तीक्ष्णैर्नस्यादिकर्म च ॥ ६९ ॥
क्वाथपानं तु दार्वीत्वङ्निम्बतार्क्षकलिङ्गजम् ।
हरीतकीकषायो वा पेयो माक्षिकसंयुतः ॥ ७० ॥
कटुकातिविषादारुपाठामुस्तकलिङ्गकाः ।
गोमूत्रक्वथिताः पेयाः कण्ठरोगविनाशनाः ॥ ७१ ॥
227-a
गृहधूमो यवक्षारः पाठाव्योषरसाञ्जनम् ।
तेजोह्वात्रिफलालोहं चित्रकश्चेति चूर्णितम् ॥ ७२ ॥
सक्षौद्रं धारयेदेतद्गलरोगविनाशनम् ।
कालकं नाम तच्चूर्णं दन्तजिह्वास्यरोगनुत् ॥ ७३ ॥
पिप्पलीप्पिपलीमूलचव्यचित्रकनागरैः ।
सर्जिकाक्षारतुल्यांशैश्चूर्णोऽयं गलरोगनुत् ॥ ७४ ॥
१०मनःशिलायवक्षारो हरितालं ससैन्धवम् ।
दार्वीत्वक्चेति तच्चूर्णं माक्षिकेण समायुतम् ॥ ७५ ॥
मूर्छितं घृतमण्डेन कण्ठरोगेषु धारयेत् ।
मुखरोगेषु च श्रेष्ठं पीतकं नाम कीर्तितम् ॥ ७६ ॥
११यवाग्रजं तेजवतीं सपाठां
रसाञ्जनं दारु निशां सकृष्णाम् ।
क्षौद्रेण कुर्याद्गुडिकां मुखेन
तां धारयेत्सर्वगलामयेषु ॥ ७७ ॥
दशमूलं पिबेदुष्णं यूषं मूलकुलत्थयोः ।
क्षीरेक्षुरसगोमूत्रदधिमस्त्वम्लकाञ्जिकैः ॥ ७८ ॥
विदध्यात्कवलान्वीक्ष्य दोषं तैलघृतैरपि ।
पञ्चकोलकतालीसपत्रैलामरिचत्वचः ॥ ७९ ॥
227-b
पलाशमुष्ककक्षारयवक्षाराश्च चूर्णिताः ।
गुडे पुराणे क्वथिते द्विगुणे गुडिकाः कृताः ॥ ८० ॥
कर्कन्धुमात्राः सप्ताहं स्थिता मुष्ककभस्मनि ।
कण्ठरोगेषु सर्वेषु धार्याः स्युरमृतोपमाः ॥ ८१ ॥
१२मूत्रस्विन्नां शिवां तुल्यां मधुरीकुष्ठतालकैः ।
अभ्यस्य मुखरोगांस्तु जयेद्विरसतामपि ॥ ८२ ॥
वातात्सर्वसरं चूर्णैर्लवणैः प्रतिसारयेत् ।
तैलं वातहरैः सिद्धं हितं कवलनस्ययोः ॥ ८३ ॥
पित्तात्मके सर्वरसे शुद्धकायस्य देहिनः ।
सर्वपित्तहरः कार्यो विधिर्मधुरशीतलः ॥ ८४ ॥
प्रतिसारणगण्डूषान्धूमं संशोधनानि च ।
कफात्मके सर्वसरे क्रमं कुर्यात्कफापहम् ॥ ८५ ॥
मुखपाके शिरावेधः शिरःकायविरेचनम् ।
कार्यं च वहुधा नित्यं जातीपत्रस्य चर्वणम् ॥ ८६ ॥
जातीपत्रामृताद्राक्षायासदार्वीफलत्रिकैः ।
क्वाथः क्षौद्रयुतः शीतो गण्डूषो मुखपाकनुत् ॥ ८७ ॥
कृष्णजीरककुष्ठेंद्रयवानां चूर्णतस्त्र्यहात् ।
मुखपाके व्रणक्लेददौर्गन्ध्यमुपशाम्यति ॥ ८८ ॥
रसाञ्जनं लोध्रमथाभयं च
मनःशिलानागरगैरिकं च ।
पाठा हरिद्रा गजपिप्पली च
स्याद्धारणं क्षौद्रयुतं मुखस्य ॥ ८९ ॥
228-a
१३पटोलनिम्बजम्ब्वाम्रमालतीनवपल्लवाः ।
पञ्चपल्लवजः श्रेष्ठः कषायो मुखधावने ॥ ९० ॥
पञ्चवल्ककषायो वा त्रिफलाक्वाथ एव वा ।
मुखपाकेषु सक्षौद्रः प्रयोज्यो मुखधावने ॥ ९१ ॥
स्वरसः क्वथितो दार्व्या घनीभूतो रसक्रिया ।
सक्षौद्रा मुखरोगासृक्दोषनाडीव्रणापहा ॥ ९२ ॥
सप्तच्छदोशीरपटोलमुस्त-
हरीतकीतिक्तकरोहिणीभिः ।
यष्ट्याह्वराजद्रुमचन्दनैश्च
क्काथं पिबेत्पाकहरं मुखस्य ॥ ९३ ॥
पटोलशुण्ठीत्रिफलाविशाला-
त्रायन्तितिक्ताद्विनिशामृतानाम् ।
पीतः कषायो मधुना निहन्ति
मुखे स्थितश्चास्यगदानशेषान् ॥ ९४ ॥
क्वथितास्त्रिफलापाठामृद्वीकाजातिपल्लवाः ।
निषेव्या भक्षणीया वा त्रिफला मुखपाकहा ॥ ९५ ॥
तिला नीलोत्पलं सर्पिः शर्करा क्षीरमेव च ।
228-b
सक्षौद्रो दग्धवक्त्रस्य गण्डूषो दाहपाकनुत् ।
तैलेन काञ्जिकेनाथ गण्डूषश्चूर्णदाहहा ॥ ९६ ॥
घनकुष्ठैलाधान्यकयष्टीमध्वेलवालुकाकवलः ।
वदनेऽतिपूतिगन्धं हरति सुरालशुनगन्धं च ॥ ९७ ॥
१४तुलां तथा नीलकुरंटकस्य
द्रोणेऽम्भसः संश्रपयेद्यथावत् ।
पूर्त्वा चतुर्भागरसे तु तैलं
पचेच्छनैरर्धपलप्रयुक्तैः ॥ ९८ ॥
कल्कैरनन्ताखदिरारिमेद-
जम्ब्वाम्रयष्टीमधुकोत्पलानाम् ।
तत्तैलमाश्वेव धृतं मुखेन
स्थैर्यं द्विजानां विदधाति सद्यः ॥ ९९ ॥
229-a
१५इरिमेदत्वक्पलशत-
मभिनवमापोत्थं खण्डशः कृत्वा ।
तोयाढकैश्चतुर्भि-
र्निःक्वाथ्य चतुर्थशेषेण ॥ १०० ॥
तेन क्वाथेन मतिमा-
न्तैलस्यार्धाढकं शनैर्विपचेत् ।
कल्कैरक्षसमांशै-
र्मञ्जिष्ठालोध्रमधुकानाम् ॥ १०१ ॥
इरिमेदखदिरकट्फल-
लाक्षान्यग्रोधमुस्तसूक्ष्मैलानाम् ।
कर्पूरागुरुपद्मक-
लवङ्गकंकोलजातीफलानाम् ॥ १०२ ॥
पतङ्गगैरिकवराङ्गकुसुमधातकीनां च ।
सिद्धं भिषग्विदध्यादिदं मुखोत्थेषु रोगेषु ॥ १०३ ॥
परिशीर्णदन्तविद्रधिशैशिरशीताददन्तहर्षेषु ।
क्रिमिदन्तदारणचलितप्रदुष्टमांसावशीर्णेषु ।
मुखदौर्गन्ध्ये कार्यं प्रागुक्तेष्वामयेषु तैलमिदम् ॥ १०४ ॥
१६तैलं लाक्षारसं क्षीरं पृथक्प्रस्थं समं पचेत् ।
चतुर्गुणेऽरिमक्वाथे द्रवैश्च पलसम्मितैः ॥ १०५ ॥
लोध्रकट्फलमञ्जिष्ठापद्मकेशरपद्मकैः ।
चन्दनोत्पलयष्ट्याह्वैस्तैलं गण्डूषधीरणम् ॥ १०६ ॥
229-b
दालनं दन्तचालं च हनुमोक्षं कपालिकाम् ।
शीतादं पूतिवक्त्रं च अरुचिं विरसास्यताम् ।
हन्यादास्यगदानेतान्कुर्याद्दन्तानपि स्थिरान् ॥ १०७ ॥
१७बकुलस्य फलं लोध्रं वज्रवल्लीकुरुण्टकम् ।
चतुरङ्गुलवव्वोलवाजिकर्णेरिमाशनम् ॥ १०८ ॥
एषां कषायकल्काभ्यां तैलं पक्वं मुखे धृतम् ।
स्थैर्यं करोति चलतां दन्तानां धावनेन च ॥ १०९ ॥
१८एलालतालवनिकाफलशीतकोष-
कोलद्विकानि खदिरस्य कृते कषाये ।
तुल्यांशकानि दशभागमिते निधाय
प्रोद्भिन्नकैतकपुटे पुटवद्विपाच्य ॥ ११० ॥
प्रागंशतुल्यशशिनाभितदेकसंघं
पिष्ट्वा नवेन सहकाररसेन हस्तौ ।
लिप्त्वा यथाभिलषितां गुडिकां विदध्यात्
स्त्रीपुंसयोर्वदनसौरभवन्धुभूताम् ॥ १११ ॥
230-a
१९खदिरस्य तुलां सम्यग्जलद्रोणे विपाचयेत् ।
शेषेऽष्टभागे तत्रैव प्रतिवापं प्रदापयेत् ॥ ११२ ॥
जातीकर्पूरपूगानि कक्कोलकफलानि च ।
इत्येषा गुडिका कार्या मुखसौभाग्यवर्धिनी ।
दन्तौष्ठमुखरोगेषु जिह्वाताल्वामयेषु च ॥ ११३ ॥
२०गायत्रीसारतुलयेरिमवल्कलानां
सार्धं तुलायुगलमम्बुघटैश्चतुर्भिः ।
निःक्वाथ्य पादमवशिष्टं सुवस्त्रपूतं
भूयः पचेदथ शनैर्मृदुपावकेन ॥ ११४ ॥
तस्मिन्घनत्वमुपगच्छति चूर्णमेषां
श्लक्ष्णं क्षिपेच्च कवलग्रहभागिकानाम् ।
एलामृणालसितचन्दनचन्दनाम्बु-
श्यामातमालविकषाघनलोहयष्टी ॥ ११५ ॥
लज्जाफलत्रयरसाञ्जनधातकीभ-
श्रीपुष्पगैरिककटङ्कटकट्फलानाम् ।
पद्माह्वलोध्रवटरोहयवासकानां
मांसीनिशासुरभिवल्कलसंयुतानाम् ॥ ११६ ॥
कक्कोलजातिफलकोषलवङ्गकानि
चूर्णीकृतानि विदधीत पलांशकानि ।
शीतेऽवतार्य घनसारचतुःपलं च
क्षिप्त्वा कलायसदृशीर्वटिकाः प्रकुर्यात् ॥ ११७ ॥
शुष्का मुखे विनिहिता विनिवारयन्ति
रोगान्गलौष्ठरसनाद्विजतालुजातान् ।
कुर्युर्मुखे सुरभितां पटुतां रुचिं च
स्थैर्यं परं दशनगं रसनालघुत्वम् ॥ ११८ ॥