Adhikāra 56

230-b
कपित्थमातुलाङ्गाम्लशृङ्गवेररसैः शुभैः ।
सुखोष्णैः पूरयेत्कर्णं कर्णशूलोपशान्तये ॥ १ ॥
शृङ्गवेरं च मधु च सैन्धवं तैलमेव च ।
कटूष्णं कर्णयोर्देयमेतद्वा वेदनापहम् ॥ २ ॥
लशुनार्द्रकशिग्रूणां सुरङ्ग्या मूलकस्य च ।
कदल्याः स्वरसः श्रेष्ठः कदुष्णः कर्णपूरणे ।
समुद्रफेनचूर्णेन युत्तया वाप्यवचूर्णयेत् ॥ ३ ॥
आर्द्रकसूर्यावर्तक-
शोभाञ्जनमूलमूलकस्वरसाः ।
मधुतैलसैन्धवयुताः
पृथगुष्णाः कर्णशूलहराः ॥ ४ ॥
शोभाञ्जनकनिर्यासस्तिलतैलेन संयुतः ।
व्यक्तोष्णः पूरणः कर्णे कर्णशूलोपशान्तये ॥ ५ ॥
अष्टानामपि मूत्राणां मूत्रेणान्यतमेन च ।
कोष्णेन पूरयेत्कर्णौ कर्णशूलोपशान्तये ॥ ६ ॥
अश्वत्थपत्रखल्वं वा विधाय बहुपत्रकम् ।
तैलाक्तमङ्गारपूर्णं विदध्याच्छ्रवणोपरि ॥ ७ ॥
231-a
यत्तैलं च्यवते तस्मात्खल्वादङ्गारतापितात् ।
तत्प्राप्तं श्रवणस्रोतः सद्यो गृह्णाति वेदनाम् ॥ ८ ॥
अर्कपत्रपटे दग्धस्नुहीपत्रभवो रसः ।
कदुष्णं पूरणादेव कर्णशूलनिवारणः ॥ ९ ॥
महतः पञ्चमूलस्य काण्डान्यष्टाङ्गुलानि च ।
क्षौमेणावेष्ट्य संसिच्य तैलेनादीपयेत्ततः ॥ १० ॥
यत्तैलं च्यवते तेभ्यः सुखोष्णं तत्प्रयोजयेत् ।
ज्ञेयं तद्दीपिकातैलं सद्यो गृह्णाति वेदनाम् ॥ ११ ॥
एवं कुर्याद्भद्रकाष्ठे कुष्ठे काष्ठे च सारले ।
मतिमान्दीपिकातैलं कर्णशूलनिवारणम् ॥ १२ ॥
अर्कस्य पत्रं परिणामपीत-
माज्येन लिप्तं शिखिनावतप्तम् ।
आपीड्य तोयं श्रवणे निषिक्तं
निहन्ति शूलं बहुवेदनं च ॥ १३ ॥
तीव्रशूलातुरे कर्णे सशब्दे क्लेशवाहिनि ।
बस्तमूत्रं क्षिपेत्कोष्णं सैन्धवेनावचूर्णितम् ॥ १४ ॥
231-b
वंशावलेखसंयुक्ते मूत्रे वाजाविके भिषक् ।
तैलं पचेत्तेन कर्णं पूरयेत्कर्णशूलिनः ॥ १५ ॥
हिङ्गुतुम्बुरुशुण्ठीभिः साध्यं तैलं तु सार्षपम् ।
कर्णशूले प्रधानं तु पूरणं हितमुच्यते ॥ १६ ॥
बालमूलकशुण्ठीनां क्षारो हिङ्गु सनागरम् ।
शतपुष्पावचाकुष्ठं दारुशिग्रुरसाञ्जनम् ॥ १७ ॥
सौवर्चलं यवक्षारः सर्जिकोद्भिदसैन्धवम् ।
भूर्जग्रन्थिविडं मुस्तं मधु शुक्तं चतुर्गुणम् ॥ १८ ॥
मातुलुङ्गरसश्चैव कदल्या रस एव च ।
तैलमेभिर्विपक्तव्यं कर्णशूलहरं परम् ॥ १९ ॥
बाधिर्यं कर्णनादश्च पूयास्रावश्च दारुणः ।
पूरणादस्य तैलस्य क्रिमयः कर्णसंश्रिताः ॥ २० ॥
क्षिप्रं विनाशं गच्छन्ति कृष्णात्रेयस्य शासनात् ।
क्षारतैलमिदं श्रेष्ठं मुखदन्तामयापहम् ॥ २१ ॥
मधुप्रधानं शुक्तं तु मधुशुक्तं तथापरम् ।
जम्बीरस्य फलरसं पिप्पलीमूलसंयुतम् ॥ २२ ॥
मधुभाण्डे विनिक्षिष्य धान्यराशौ निधापयेत् ।
मासेन तज्जातरसं मधुशुक्तमुदाहृतम् ॥ २३ ॥
कर्णनादे कर्णक्ष्वेडे कटुतैलेन पूरणम् ।
नादबाधिर्ययोः कुर्यात्कर्णशूलोक्तमौषधम् ॥ २४ ॥
232-a
अपामार्गक्षारजले
तत्कृतकल्केन साधितं तिलजम् ।
अपहरति कर्णनादं
बाधिर्यं चापि पूरणतः ॥ २५ ॥
सर्जिकामूलकं शुष्कं हिङ्गुकृष्णामहौषधम् ।
शतपुष्पा च तैस्तैलं पक्वं शुक्तचतुर्गुणम् ।
प्रणादशूलबाधिर्यं स्रावं चाशु व्यपोहति ॥ २६ ॥
दशमूलीकषायेण तैलप्रस्थं विपाचयेत् ।
एतत् कल्कं प्रदायैव बाधिर्ये परमौषधम् ॥ २७ ॥
232-b
फलं विल्वस्य मूत्रेण पिष्ट्वा तैलं विपाचयेत् ।
साजक्षीरं तद्धि हरेद्वाधिर्यं कर्णपूरणे ॥ २८ ॥
एष एव विधिः कार्यः प्रणादे नस्यपूर्वकः ।
गुडनागरतोयेन नस्यं स्यादुभयोरपि ॥ २९ ॥
चूर्णं पञ्चकषायाणां कपित्थरससंयुतम् ।
कर्णस्रावे प्रशंसन्ति पूरणं मधुना सह ॥ ३० ॥
मालतीदलरसमधुना पूरितमथवा गवां मूत्रैः ।
दूरेण परित्यज्यते च श्रवणयुगं पूतिरोगेण ॥ ३१ ॥
हरितालं सगोमूत्रं पूरणं पूतिकर्णजित् ।
सर्जत्वक्चूर्णसंयुक्तः कार्पासीफलजो रसः ।
मधुना संयुतः साधु कर्णस्रावे प्रशस्यते ॥ ३२ ॥
जम्बवाम्रपत्रं तरुणं समांशं
कपित्थकार्पासफलं च सार्द्रम् ।
क्षुण्वा रसं तं मधुना विमिश्रं
स्रावापहं संप्रवदन्तितज्ज्ञाः ॥ ३३ ॥
एतैः शृतं निम्बकरञ्जतैलं
ससार्षपं स्रावहरं प्रदिष्टम् ॥ ३४ ॥
पुटपाकविधिस्विन्नहस्तिविड्जातगोण्डकः ।
रसः सतैलसिन्धूत्थः कर्णस्रावहरः परः ॥ ३५ ॥
233-a
जम्बूकस्य तु मांसेन कटुतैलं विपाचयेत् ।
तस्य पूरणमात्रेण कर्णनाडी प्रशाम्यति ॥ ३६ ॥
निशागन्धपले पक्वं कटुतैलं पलाष्टकम् ।
धूस्तूरपत्रजरसे कर्णनाडीजिदुत्तमम् ॥ ३७ ॥
१०अथ कर्णप्रतीनाहे स्नेहस्वेदौ प्रयोजयेत् ।
ततो विरिक्तशिरसः क्रियां प्राप्तां समाचरेत् ॥ ३८ ॥
कर्णपाकस्य भैषज्यं कुर्यात्क्षतविसर्पवत् ।
नाडीस्वेदोऽथ वमनं धूममूर्ध्वविरेचनम् ॥ ३९ ॥
विधिश्च कफहा सर्वः कर्णकण्डूं व्यपोहति ।
क्लेदयित्वा तु तैलेन स्वेदेन प्रविलाप्य च ॥ ४० ॥
शोधयेत्कर्णगूथं तु भिषक् सम्यक् शलाकया ।
निर्गुण्डीस्वरसस्तैलं सिन्धुधूमरजो गुडः ॥ ४१ ॥
पूरणात्पूतिकर्णस्य शमनो मधुसंयुतः ।
जातिपत्ररसे तैलं विपक्वं पूतिकर्णजित् ॥ ४२ ॥
वरुणार्ककपित्थाम्रजम्बूपल्लवसाधितम् ।
पूतिकर्णापहं तैलं जातीपत्ररसेन वा ॥ ४३ ॥
सूर्यावर्तकस्वरसं सिन्धुवाररसस्तथा ।
लाङ्गलीमूलजरसं त्र्यूषणेनावचूर्णितम् ॥ ४४ ॥
पूरयेत्क्रिमिकर्णं तु जन्तूनां नाशनं परम् ।
क्रिमिकर्णकनाशार्थं क्रिमिघ्नं योजयेद्विधिम् ॥ ४५ ॥
वार्ताकुधूमश्च हितः सर्षपस्नेह एव च ।
हलिसूर्यावर्तव्योषस्वरसेनातिपूरिते ॥ ४६ ॥
233-b
कर्णे पतन्ति सहसा सर्वास्तु क्रिमिजातयः ।
नीलवुन्नारसस्तैलसिन्धुकाञ्जिकसंयुतः ॥ ४७ ॥
कदुष्णः पूरणात्कर्णे निःशेषः क्रिमिपातनः ।
धूपनः कर्णदौर्गन्ध्ये गुग्गुलुः श्रेष्ठ उच्यते ॥ ४८ ॥
राजवृक्षादितोयेन सुरसादिजलेन वा ।
कर्णप्रक्षालनं कार्यं चूर्णैरेतैः प्रपूरणम् ॥ ४९ ॥
घृतं रसाञ्जनं नार्याः क्षीरेण क्षौद्रसंयुतम् ।
प्रशस्यते चिरोत्थेऽपि सास्रावे पूतिकर्णके ॥ ५० ॥
234-a
११कुष्ठहिङ्गुवचादारुशताह्वाविश्वसैन्धवैः ।
पूतिकर्णापहं तैलं बस्तमूत्रेण साधितम् ॥ ५१ ॥
१२विद्रधौ चापि कुर्वीत विद्रध्युक्तं हि भेषजम्
शतावरीवाजिगन्धापयस्यैरण्डबीजकैः ॥ ५२ ॥
तैलं विपक्वं सक्षीरं पालीनां पुष्टिकृत्परम् ।
गुञ्जाचूर्णयुते जाते माहिषे क्षीर उद्गतम् ॥ ५३ ॥
नवनीतं तदभ्यङ्गात्कर्णपालिविवर्धनम् ।
विषगर्भं तिक्ततुम्बीतैलमष्टगुणे खरात् ॥ ५४ ॥
मूत्रे पक्वं तदभ्यङ्गात्कर्णपालिविवर्धनम् ।
कल्केन जीवनीयेन तैलं पयसि साधितम् ॥ ५५ ॥
आनूपमांसक्वाथेन पालीपोषणवर्धनम् ।
माहिषनवनीतयुतं सप्ताहं धान्यराशिपरिवसितं ॥ ५६ ॥
नवमुसलिकन्दचूर्णमृद्धिकरं कर्णपालीनाम् ।
कर्णस्य दुर्व्यधे भूते संरम्भो वेदना भवेत् ॥ ५७ ॥
तत्र दुर्व्यधरोहार्थं लेपो मध्वाज्यसंयुतैः ।
मधूकयवमञ्जिष्ठारुबुमूलैः समन्ततः ॥ ५८ ॥
अनेकधातुच्छिन्नस्य सन्धिः कर्णस्य वै भिषक् ।
यो यथाभिनिविष्टः स्यात्तं तथा विनियोजयेत् ॥ ५९ ॥
धान्याम्लोष्णोदकाभ्यां तु सेको वातेन दूषिते ।
रक्तपित्तेन पयसा श्लेष्मणा तूष्णवारिणा ॥ ६० ॥
ततः सीव्य स्थिरं कुर्यात्सन्धिं बन्धेन वा पुनः ।
मध्वाज्येन ततोऽभ्यज्य पिचुना सन्धिवेष्टकम् ।
कपालचूर्णेन ततश्चूर्णयेत्पथ्ययाथवा ॥ ६१ ॥