Adhikāra 57

234-b
पञ्चमूलीशृतं क्षीरं स्याच्चित्रकहरीतकी ।
सर्पिर्गुडः षडङ्गश्च यूषः पीनसशान्तये ॥ १ ॥
व्योषचित्रकतालीसतिन्तिडीचाम्लवेतसम्
सचव्याजाजीतुल्यांशमेलात्वक्पत्रपादिकम् ॥ २ ॥
व्योषादिकं चूर्णमिदं पुराणगुडसंयुतम् ।
पीनसश्वासकासघ्नं रुचिस्वरकरं परम् ॥ ३ ॥
पाठाद्विरजनीमूर्वापिप्पलीजातिपल्लवैः ।
दन्त्या च तैलं संसिद्धं नस्यं सम्यक्तु पीनसे ॥ ४ ॥
235-a
व्याघ्रीदन्तीवचाशिग्रुसुरसव्योषसैन्धवैः ।
पाचितं नावनं तैलं पूतिनासागदं जयेत् ॥ ५ ॥
त्रिकटुविडङ्गसैन्धवबृहतीफलशिग्रुसुरसदंतीभिः ।
तैलं गोजलसिद्धं नस्यं स्यात्पूतिनस्यस्य ॥ ६ ॥
कलिङ्गहिङ्गुमरिचलाक्षासुरसकट्फलैः ।
कुष्ठोग्राशिग्रुजन्तुघ्नैरवपीडः प्रशस्यते ॥ ७ ॥
तैरेव मूत्रसंयुक्तैः कटु तैलं विपाचयेत् ।
अपीनसे पूतिनस्ये शमनं कीर्तितं परम् ॥ ८ ॥
नासापाके पित्तहरं विधानं
कार्यं सर्वं बाह्यमभ्यन्तरं च ।
हरेद्रक्तं क्षीरिवृक्षत्वचश्च
योज्याः सेके सघृताश्च प्रदेहाः ॥ ९ ॥
पूयास्ररक्तपित्तघ्नाः कषाया नावनानि च ।
शुण्ठीकुष्ठकणाबिल्वद्राक्षाकल्ककषायवत् ।
साधितं तैलमाज्यं वा नस्यं क्षवथुरुक्प्रणुत् ॥ १० ॥
दीप्ते रोगे पैत्तिके संविधानं
सर्वं कुर्यान्माधुरं शीतलं च ।
नासानाहे स्नेहपानं प्रधानं
स्निग्धा धूमा मूर्ध्नि बस्तिश्च नित्यम् ॥ ११ ॥
235-b
वातिके तु प्रतिश्याये पिबेत्सर्पिर्यथाक्रमम्
पञ्चभिर्लवणैः सिद्धं प्रथमेन गणेन च ॥ १२ ॥
नस्यादिषु विधिं कृत्स्नमवेक्षेतार्दितेरितम् ।
पित्तरक्तोत्थयोः पेयं सर्पिर्मधुरकैः शृतम् ॥ १३ ॥
परिषेकान्प्रदेहांश्च कुर्यादपि च शीतलान् ।
कफजे सर्पिषा स्निग्धं तिलमाषविपक्वया ॥ १४ ॥
यवाग्वा वामयित्वा वा कफघ्नं क्रममाचरेत् ।
दार्वीङ्गुदीनिकुम्भैश्च किणिह्या सुरसेन च ॥ १६ ॥
वर्तयोऽत्र कृता योज्या धूमपाने यथाविधि ।
अथवा सघृतान्सक्तून्कृत्वा मल्लिकसम्पुटे ।
नवप्रतिश्यायवतां धूमं वैद्यः प्रयोजयेत् ॥ १७ ॥
यः पिबति शयनकाले शयनारूढः सुशीतलं मह्यां
सलिलं पीनसयुक्तः स मुच्यते तेन रोगेण ॥ १८ ॥
पुटपक्वं जयापत्रं सिन्धुतैलसमन्वितम् ।
प्रतिश्यायेषु सर्वेषु शीलितं परमौषधम् ॥ १९ ॥
सोषणं गुडसंयुक्तं स्निग्धदध्यम्लभोजनम् ।
नवप्रतिश्यायहरं विशेषात्कफपाचनम् ॥ २० ॥
प्रतिश्याये नवे शस्तो यूषश्चिञ्चादलोद्भवः ।
ततः पक्वं कफं ज्ञात्वा हरेच्छीर्षविरेचनैः ॥ २१ ॥
शिरसोऽभ्यञ्जनस्वेदनस्यकट्वम्लभोजनैः ।
वमनैर्घृतपानैश्च तान्यथास्वमुपाचरेत् ॥ २२ ॥
भक्षयति भुक्तमात्रे
सलवणमुत्स्विन्नमाषमत्युष्णम् ।
स जयति सर्वसमुत्थं
चिरजातं च प्रतिश्यायम् ॥ २३ ॥
पिप्पल्यः शिग्रुबीजानि विडङ्गं मरिचानि च ।
अवपीडः प्रशस्तोऽयं प्रतिश्यायनिवारणः ॥ २४ ॥
समूत्रपिष्टाश्चोद्दिष्टाः क्रियाः क्रिमिषु योजयेत् ।
नावनार्थं क्रिमिघ्नानि भेषजानि च बुद्धिमान् ।
शेषाणां तु विकाराणां यथास्वं स्याच्चिकित्सितम् ॥ २५ ॥
236-a
रक्तकरवीरपुष्पं जात्यशनकमल्लिकायाश्च ।
एतैः समं तु तैलं नासार्शोनाशनं श्रेष्ठम् ॥ २६ ॥
गृहधूमकणादारुक्षारनक्ताह्वसैन्धवैः ।
सिद्धं शिखरिबीजैश्च तैलं नासार्शसां हितम् ॥ २७ ॥
236-b
चित्रकचविकादीप्यक-
निदिग्धिकाकरञ्जबीजलवणार्केः ।
गोमूत्रयुक्तं सिद्धं
तैलं नासार्शसां विहितम् ॥ २८ ॥
चित्रकस्यामलक्याश्च गुडूच्या दशमूलजम्
शतं शतं रसं दत्वा पथ्याचूर्णाढकं गुडात् ॥ २९ ॥
शतं पचेद्धनीभूते पलं द्वादशकं क्षिपेत् ।
व्योपत्रिजातयोः क्षारात्पलार्धमपरेऽहनि ॥ ३० ॥
प्रस्थार्धं मधुनो दत्त्वा यथाग्न्यद्यादतन्त्रितः ।
वृद्धयेऽग्नेः क्षयं कासं पीनसं दुस्तरं क्रिमीन् ।
गुल्मोदावर्तदुर्नामश्वासान्हन्ति रसायनम् ॥ ३१ ॥