Adhikāra 4

ग्रहणीमाश्रितं दोषमजीर्णवदुपाचरेत् ।
अतीसारोक्तविधिना तस्यामं च विपाचयेत् ॥ १ ॥
शरीरानुगते सामे रसे लङ्घनपाचनम् ।
28-a
विशुद्धामाशयायास्मै पञ्चकोलादिभिर्युतम् ।
दद्यात्पेयादिलघ्वन्नं पुनर्योगांश्च दीपकान् ॥ २ ॥
कपित्थबिल्वचाङ्गेरी तक्रदाडिमसाधिता ।
पाचनी ग्रहणी पेया सवाते पाञ्चमूलिकी ॥ ३ ॥
ग्रहणीदोषिणां तक्रं दीपनं ग्राहि लाघवात् ।
पथ्यं मधुरपाकित्वान्न च पित्तप्रकोपनम् ॥ ४ ॥
कषायोष्णविकाशित्वाद्रौक्षाच्चैव कफे हितम् ।
वाते स्वाद्वम्लसान्द्रत्वात्सद्यस्कमविदाहितम् ॥ ५ ॥
शुण्ठीं समुस्तातिविषां गुडूचीं
पिबेज्जलेन क्वथितां समांशाम् ।
मन्दानलत्वे सततामताया-
मामानुबन्धे ग्रहणीगदे च ॥ ६ ॥
धन्याकातिविषोदीच्ययवानीमुस्तनागरम् ।
बलाद्विपर्णी बिल्वं च दद्याद्दीपनपाचनम् ॥ ७ ॥
चित्रकं पिप्पलीमूलं द्वौ क्षारौ लवणानि च ।
व्योषहिङ्ग्वजमोदां च चव्यं चैकत्र चूर्णयेत् ॥ ८ ॥
गुटिका मातुलुङ्गस्य दाडिमाम्लरसेन वा ।
कृता विपाचयत्यामं दीपयत्याशु चानलम् ॥ ९ ॥
28-b
सौवर्चलं सैन्धवं च बिडमौद्भिदमेव च ।
सामुद्रेण समं पञ्च लवणान्यत्र योजयेत् ॥ १० ॥
श्रीफलशलाटुकल्को
नागरचूर्णेन मिश्रितः सगुडः ।
ग्रहणीगदमत्युग्रं
तक्रभुजा शीलितो जयति ॥ ११ ॥
जम्बूदाडिमशृङ्गाटपाठाकंचटपल्लवैः ।
पक्वं पर्युषितं बालबिल्वं सगुडनागरम् ॥ १२ ॥
हन्ति सर्वानतीसारान्ग्रहणीमतिदुस्तराम् ।
नागरातिविषामुस्तक्वाथः स्यादामपाचनः ॥ १३ ॥
चूर्णं हिङ्ग्वष्टकं वातग्रहण्यां तु घृतानि च ।
नागरातिविषामुस्तं धातकीं सरसाञ्जनम् ॥ १४ ॥
वत्सकत्वक्फलं बिल्वं पाठां कटुकरोहिणीम् ।
पिबेत्समांशं तच्चूर्णं सक्षौद्रं तण्डुलाम्बुना ॥ १५ ॥
पैत्तिके ग्रहणीदोषे रक्तं यश्चोपवेश्यते ।
अर्शांस्यथ गुदे शूलं जयेच्चैव प्रवाहिकाम् ॥ १६ ॥
नागराद्यमिदं चूर्णं कृष्णात्रेयेण पूजितम् ।
शीतकषायमानेन तण्डुलोदककल्पना ॥ १७ ॥
केऽप्यष्टगुणतोयेन प्राहुस्तण्डुलभावनाम् ।
29-a
भूनिम्बकटुकाव्योषमुस्तकेन्द्रयवान्समान् ॥ १८ ॥
द्वौ चित्रकाद्वत्सकत्वग्भागान्षोडश चूर्णयेत् ।
गुडशीताम्बुना पीतं ग्रहणीदोषगुल्मनुत् ॥ १९ ॥
कामलाज्वरपाण्डुत्वमेहारुच्यतिसारनुत् ।
गुडयोगाद्गुडाम्बु स्याद्गुडवर्णरसान्वितम् ॥ २० ॥
ग्रहण्यां श्लेष्मदुष्टायां वमितस्य यथाविधि ।
कट्वम्ललवणक्षारैस्तीक्ष्णैश्चाग्निं विवर्धयेत् ॥ २१ ॥
समूलां पिप्पलीं क्षारौ द्वौ पञ्च लवणानि च ।
मातुलुङ्गाभयारास्नाशठीमरिचनागरम् ॥ २२ ॥
कृत्वा समांशं तच्चूर्णं पिबेत्प्रातः सुखाम्बुना ।
श्लैष्मिके ग्रहणीदोषे बलवर्णाग्निवर्धनम् ॥ २३ ॥
एतैरेवौषधैः सिद्धं सर्पिः पेयं समारुते ।
भल्लातकं त्रिकटुकं त्रिफला लवणत्रयम् ॥ २४ ॥
अन्तर्धूमं द्विपलिकं गोपुरीषाग्निना दहेत् ।
सक्षारः सर्पिषा पेयो भोज्ये वाप्यवचारितः ॥ २५ ॥
हृत्पाण्डुग्रहणीदोषगुल्मोदावर्तशूलनुत् ।
सर्वजायां ग्रहण्यां तु सामान्यो विधिरिष्यते ॥ २६ ॥
चूर्णं मरिचमहौषध
कुटजत्वक्संभवं क्रमाद्द्विगुणम् ।
गुडमिश्रमथितपीतं
ग्रहणीदोषापहं ख्यातम् ॥ २७ ॥
29-b
पाठाबिल्वानलव्योषजम्बूदाडिमधातकी ।
कटुकातिविषामुस्तदार्वीभूनिम्बवत्सकैः ॥ २८ ॥
सर्वैरेतैः समं चूर्णं कौटजं तण्डुलाम्बुना ।
सक्षौद्रं च पिबेच्छर्दिज्वरातीसारशूलवान् ॥ २९ ॥
तृड्दाहग्रहणीदोषारोचकानलसादजित् ।
यवानीपिप्पलीमूलचतुर्जातकनागरैः ॥ ३० ॥
मरिचाग्निजलाजाजीधान्यसौवर्चलैः समैः ।
वृक्षाम्लधातकीकृष्णाबिल्वदाडिमतिन्दुकैः ॥ ३१ ॥
त्रिगुणैः षड्गुणसितैः कपित्थाष्टगुणैः कृतः ।
चूर्णोऽतिसारग्रहणीक्षयगुल्मगलामयान् ॥ ३२ ॥
कासं श्वासारुचिं हिक्कां कपित्थाष्टमिदं जयेत् ।
30-a
कर्षोन्मिता तुगाक्षीरी चातुर्जातं द्विकार्षिकम् ॥ ३३ ॥
यवानीधान्यकाजाजीग्रन्थिव्योषं पलांशिकम् ।
पलानि दाडिमादष्टौ सितायाश्चैकतः कृतः ॥ ३४ ॥
गुणैः कपित्थाष्टकवच्चूर्णोऽयं दाडिमाष्टकः ।
चतुःपलं सुधाकाण्डात्त्रिपलं लवणत्रयात् ॥ ३५ ॥
वार्ताकुकुडवश्चार्कादष्टौ द्वे चित्रकात्पले ।
दग्धानि वार्ताकुरसे गुडिका भोजनोत्तराः ॥ ३६ ॥
भुक्तं भुक्तं पचन्त्याशु कासश्वासार्शसां हिताः ।
विषूचिकाप्रतिश्यायहृद्रोगघ्नाश्च ता हिताः ॥ ३७ ॥
त्र्यूषणत्रिफलाकल्के बिल्वमात्रे गुडात्पले ।
सर्पिषोऽष्टपलं पक्त्वा मात्रां मन्दानलः पिबेत् ॥ ३८ ॥
मसूरस्य कषायेण बिल्वगर्भं पचेद्धृतम् ।
हन्ति कुक्ष्यामयान्सर्वान्ग्रहणीपाण्डुकामलाः ॥ ३९ ॥
केवलं ब्रीहिप्राण्यङ्गक्वाथो व्युष्टस्तु दोषलः ।
30-b
१०विश्वौषधस्य गर्भेण दशमूलजले शृतम् ।
घृतं निहन्याच्छ्वयथुं ग्रहणीसामतामयम् ॥ ४० ॥
घृतं नागरकल्केन सिद्धं वातानुलोमनम् ।
ग्रहणीपाण्डुरोगघ्नं प्लीहकासज्वरापहम् ॥ ४१ ॥
११चित्रकक्वाथकल्काभ्यां ग्रहणीघ्नं शृतं हविः ।
गुल्मशोथोदरप्लीहशूलार्शोघ्नं प्रदीपनम् ॥ ४२ ॥
१२बिल्वाग्निचव्यार्द्रकशृङ्गवेर-
क्वाथेन कल्केन च सिद्धमाज्यम् ।
सच्छागदुग्धे ग्रहणीगदोत्थे
शोथाग्निमान्द्यारुचिनुद्वरिष्ठम् ॥ ४३ ॥
१३नागरं पिप्पलीमूलं चित्रको हस्तिपिप्पली ।
श्वदंष्ट्रा पिप्पली धान्यं बिल्वं पाठा यवानिका ॥ ४४ ॥
चाङ्गेरीस्वरसे सर्पिः कल्कैरेतैर्विपाचितम् ।
चतुर्गणे च दध्ना च तद्धृतं कफवातनुत् ॥ ४५ ॥
अर्शांसि ग्रहणीदोषं मूत्रकृच्छ्रं प्रवाहिकाम् ।
गुदभ्रंशार्तिमानाहं घृतमेतद्व्यपोहति ॥ ४६ ॥
31-a
१४मरिचं पिप्पलीमूलं नागरं पिप्पली तथा ।
भल्लातकं यवानी च विडङ्गं हस्तिपिप्पली ॥ ४७ ॥
हिङ्गु सौवर्चलं चैव बिडसैन्धवदार्व्यथ ।
सामुद्रं सयवक्षारं चित्रको वचया सह ॥ ४८ ॥
एतैरर्धपलैर्भागैर्घृतप्रस्थं विपाचयेत् ।
दशमूलीरसे सिद्धं पयसा द्विगुणेन च ॥ ४९ ॥
मन्दाग्नीनां हितं सिद्धं ग्रहणीदोषनाशनम् ।
विष्टम्भमामं दौर्बल्यं प्लीहानमपकर्षति ॥ ५० ॥
कासं श्वासं क्षयं चैव दुर्नाम सभगन्दरम् ।
कफजान्हन्ति रोगांश्च वातजान्क्रिमिसम्भवान् ॥ ५१ ॥
तान्सर्वान्नाशयत्याशु शुष्कं दार्व्यनलो यथा ।
१५सौवर्चलं पञ्चकोलं सैन्धवं हपुषां वचाम् ॥ ५२ ॥
अजमोदां यवक्षारं हिङ्गु जीरकमौद्भिदम् ।
कृष्णाजाजी सभूतीकं कल्कीकृत्य पलार्धकम् ॥ ५३ ॥
आर्द्रकस्य रसं चुक्रं क्षीरं मस्त्वम्लकाञ्जिकम् ।
दशमूलकषायेण घृतप्रस्थं विपाचयेत् ॥ ५४ ॥
भक्तेन सह दातव्यं निर्भक्तं वा विचक्षणैः ।
क्रिमिप्लीहोदराजीर्णज्वरकुष्ठप्रवाहिकाम् ॥ ५५ ॥
वातरोगान्कफव्याधीन्हन्याच्छूलमरोचकम् ।
पाण्डुरोगं क्षयं कासं दौर्बल्यं ग्रहणीगदम् ॥ ५६ ॥
महाषट्पलकं नाम वृक्षमिन्द्राशनिर्यथा ।
31-b
१६यन्मस्त्वादि शुचौ भाण्डे सगुडक्षौद्रकाञ्जिकम् ॥ ५७ ॥
धान्यराशौ त्रिरात्रस्थं शुक्तं चुक्रं तदुच्यते ।
लवणं गुडमध्वारनालमस्तु क्रमादिह ॥ ५८ ॥
१७प्रस्थं तण्डुलतोयतस्तुषजला-
त्प्रस्थत्रयं चाम्लतः
प्रस्थार्धंदधितोऽम्लमूलकपला-
न्यष्टौगुडान्मानिके ।
मान्यौ शोधितशृङ्गवेरसकला-
द्द्वे सिन्ध्वजाज्योः पले
द्वे कृष्णोषणयोर्निशापलयुगं
निक्षिप्य भाण्डे दृढे ॥ ५९ ॥
स्निग्धे धान्ययवादिराशिनिहितं
त्रीन्वासरान्स्थापयेत्
ग्रीष्मे तोयधरात्यये च चतुरो
वर्षासु पुष्पागमे ।
षट्शीतेऽष्टदिनान्यतः परमिदं
विस्राव्य संचूर्णयेत्
चातुर्जातपलेन संहितमिदं
शुक्रं च चुक्रं च तत् ॥ ६० ॥
हन्याद्वातकफामदोषजनिता-
न्नानाविधानामयान्
32-a
दुर्नामानिलगुल्मशूलजठरा-
न्हत्वानलं दीपयेत् ॥ ६१ ॥
१८यमान्यामलकं पथ्या मरिचं त्रिपलांशिकम्
लवणानि पलांशानि पंच चैकत्र चूर्णयेत् ॥ ६२ ॥
तत्र कंसासुतं जातं तक्रारिष्टं पिबेन्नरः ।
दीपनं शोथगुल्मार्शःक्रिमिमेहोदरापहम् ॥ ६३ ॥
१९वाट्यस्य दद्याद्ययवशक्तुकानां
पृथक् पृथक् त्वाढकसंमितं च ।
मध्यप्रमाणानि च मूलकानि
दद्याच्चतुःषष्टिसकल्पितानि ॥ ६४ ॥
द्रोणेऽम्भसः प्लाव्य घटे सुधौते
दद्यादिदं भेषजजातयुक्तम् ।
क्षारद्वयं तुम्बुरुवस्तगन्धा-
धनीयकं स्याद्बिडसैन्धवं च ॥ ६५ ॥
32-b
सौवर्चलं हिङ्गु शिराटिका च
चव्यं च दद्याद्द्विपलप्रमाणम् ।
इमानि चान्यानि पलोन्मितानि
विजर्जरीकृत्य घटे क्षिपेच्च ॥ ६६ ॥
कृष्णामजाजीमुपकुंचिकां च
तथासुरीं कारविचित्रकं च ।
पक्षस्थितोऽयं बलवर्णदेह-
वयः करोऽतीव बलप्रदं च ॥ ६७ ॥
कां जीवयामीति यतः प्रवृत्त-
स्तत्कांजिकेति प्रवदन्ति तज्ज्ञाः ।
आयामकालाज्जरयेच्च भक्त-
मायामकेति प्रवदन्ति चैनम् ॥ ६८ ॥
दकोदरं गुल्ममथ प्लिहानं
हृद्रोगमानाहमरोचकं च ।
मन्दाग्नितां कोष्ठगतं च शूल-
मार्शेविकारान्सभगन्दरांश्च ॥ ६९ ॥
वातामयानाशु निहन्ति सर्वान्
संसेव्यमानं विविधान्नराणाम् ॥ ७० ॥
33-a
२०प्रस्थत्रयेणामलकीरसस्य
शुद्धस्य दत्त्वार्धतुलां गुडस्य ।
चूर्णीकृतैर्ग्रन्थिकजीरचव्य-
व्योषेभकृष्णाहपुषाजमोदैः ॥ ७१ ॥
विडङ्गसिन्धुत्रिफलायमानी-
पाठाग्निघान्यैश्च पलप्रमाणैः ।
दत्त्वा त्रिवृच्चूर्णपलानि चाष्टा-
वष्टौ च तैलस्य पचेद्यथावत् ॥ ७२ ॥
तं भक्षयेदक्षफलप्रमाणं
यथेष्टचेष्टं त्रिसुगन्धियुक्तम् ।
अनेन सर्वे ग्रहणीविकाराः
सश्वासकासस्वरभेदशोथाः ॥ ७३ ॥
शाम्यन्ति चायं चिरमन्थराग्ने-
र्हतस्य पुंस्त्वस्य च वृद्धिहेतुः ।
स्त्रीणां च वन्ध्यामयनाशनोऽयं
कल्याणको नाम गुडः प्रदिष्टः ॥ ७४ ॥
तैले मनाग्भर्जयन्ति त्रिवृदत्र चिकित्सकाः ।
अत्रोक्तमानसाधर्म्यात् त्रिसुगन्धं पलं पृथक् ॥ ७५ ॥
२१कूष्माण्डकानां रूढानां सुस्विन्नं निष्कुलत्वचाम् ।
सर्पिःप्रस्थे पलशतं ताम्रभाण्डे शनैः पचेत् ॥ ७६ ॥
पिप्पली पिप्पलीमूलं चित्रको हस्तिपिप्पली ।
33-b
धान्यकानि विडङ्गानि यमानी मरिचानि च ॥ ७७ ॥
त्रिफला चाजमोदा च कलिङ्गाजाजि सैन्धवम् ।
एकैकस्य पलं चैव त्रिवृदष्टपलं भवेत् ॥ ७८ ॥
तैलस्य च पलान्यष्टौ गुडपञ्चाशदेव तु ।
प्रस्थैस्त्रिभिः समेतं तु रसेनामलकस्य तु ॥ ७९ ॥
यदा दार्वीप्रलेपस्तु तदैनमवतारयेत् ।
यथाशक्ति गुडान्कुर्यात्कर्षकर्षार्धमानकान् ॥ ८० ॥
अनेन विधिना चैव प्रयुक्तस्तु जयेदिमान् ।
प्रसह्य ग्रहणीरोगान्कुष्ठान्यर्शोभगन्दरान् ॥ ८१ ॥
ज्वरमानाहहृद्रोगगुल्मोदरविषूचिकाः ।
कामलापाण्डुरोगांश्च प्रमेहांश्चैव विंशतिम् ॥ ८२ ॥
वातशोणितवीसर्पान्दद्रुचर्महलीमकान् ।
कफपित्तानिलान्सर्वान्प्ररूढांश्च व्यपोहति ॥ ८३ ॥
व्याधिक्षीणा वयःक्षीणाः स्त्रीषु क्षीणाश्च ये नराः ।
तेषां वृष्यं च बल्यं च वयःस्थापनमेव च ॥ ८४ ॥
गुडकल्याणकं नाम वन्ध्यानां गर्भदं परम् ।
याऽम्लपित्ते विधातव्या गुडिका च क्षुधावती ॥ ८५ ॥
34-a
२२तत्र प्रोक्तविधा शुद्धौ समानौ रसगन्धकौ ।
संमर्द्य कज्जलाभं तु कुर्यात्पात्रे दृढाश्रये ॥ ८६ ॥
ततो बादरवह्निस्थलौहपात्रे द्रवीकृतम् ।
गोमयोपरि विन्यस्तकदलीपत्रपातनात् ॥ ८७ ॥
कुर्यात्पर्पटिकाकारमस्य रक्तिद्वयं क्रमात् ।
द्वादशरक्तिका यावत्प्रयोगः प्रहरार्धतः ॥ ८८ ॥
तदूर्ध्वं बहुपूगस्य भक्षणं दिवसे पुनः ।
तृतीय एव मांसाज्यदुग्धान्यत्र विधीयते ॥ ८९ ॥
वर्ज्यं विदाहिस्त्रीरम्भामूलं तैलं च सार्षपम् ।
क्षुद्रमत्स्याम्बुजखगांस्त्यक्तोन्निद्रः पयः पिबेत् ॥ ९० ॥
ग्रहणीक्षयकुष्ठार्शःशोषाजीर्णविनाशिनी ।
रसपर्पटिका ख्याता निबद्धा चक्रपाणिना ॥ ९१ ॥
२३स्थाल्यां संमर्द्य दातव्यौ माषिकौ रसगन्धकौ ।
नखक्षुण्णं तदुपरि तण्डुलीयं द्विमाषिकम् ॥ ९२ ॥
ततो नैपालताम्रादि पिधाय सुकरालितम् ।
पांशुना पूरयेदूर्ध्वं सर्वां स्थालीं ततोऽनलः ॥ ९३ ॥
स्थाल्यधो नालिकां यावद्देयस्तेन मृतस्य च ।
ताम्री ताम्रस्य रक्त्येका त्रिफलाचूर्णरक्तिका ॥ ९४ ॥
त्र्यूषणस्य च रत्त्येका विडङ्गस्य च तन्मधु ।
घृतेनालोड्य लेढव्यं प्रथमे दिवसे ततः ॥ ९५ ॥
रक्तिवृद्धिः प्रतिदिनं कार्या ताम्रादिषु त्रिषु ।
34-b
स्थिरा विडङ्गरक्तिस्तु यदा भेदो विवक्षितः ॥ ९६ ॥
तदा विडङ्गं त्वधिकं दद्याद्रक्तिद्वयं पुनः ।
द्वादशाहं योगवृद्धिस्ततो ह्रासक्रमोऽप्ययम् ॥ ९७ ॥
ग्रहणीमम्लपित्तं च क्षयं शूलं च सर्वदा ।
ताम्रयोगो जयत्येष वलवर्णाग्निवर्धनः ॥ ९८ ॥