Adhikāra 58

लङ्घनालेपनस्वेदशिराव्यधविरेचनैः ।
उपाचरेदभिष्यन्दानञ्जनाश्च्योतनादिभिः ॥ १ ॥
श्रीवासातिविषालोध्रैश्चूर्णितैरल्पसैन्धवैः ।
अव्यक्तेऽक्षिगदे कार्यं प्रोतस्थैर्गुण्डनं बहिः ॥ २ ॥
237-a
अक्षिकुक्षिभवा रोगाः प्रतिश्यायव्रणज्वराः ।
पञ्चैते पञ्चरात्रेण प्रशमं यान्ति लङ्घनात् ॥ ३ ॥
स्वेदः प्रलेपस्तिक्तान्नं सेको दिनचतुष्टयम् ।
लङ्घनं चाक्षिरोगाणामामानां पाचनानि षट् ।
अञ्जनं पूरणं क्वाथपानमामेन शस्यते ॥ ४ ॥
धात्रीफलनिर्यासो नवदृक्कोपं निहन्ति पूरणतः
सक्षौद्रसैन्धवो वा शिग्रूद्भवपत्ररससेकः ॥ ५ ॥
दार्वीरसाञ्जनं वापि स्तन्ययुक्तं प्रपूरणम् ।
निहन्ति शीघ्रं दाहाश्रुवेदनाः स्यन्दसम्भवाः ॥ ६ ॥
करवीरतरुणकिसलय-
च्छेदोद्भवबहुलसलिलसंपूर्णम् ।
नयनयुगं भवति दृढं
सहसैव तत्क्षणात्कुपितम् ॥ ७ ॥
शिखरिमूलं ताम्रकभाजने स्तोकसैन्धवोन्मिश्रम् ।
मस्तु निघृष्टं भरणाद्धरति नवं लोचनोत्कोपम् ॥ ८ ॥
सैन्धवदारुहरिद्रागैरिकपथ्यारसाञ्जनैः पिष्टैः ।
दत्तो बहिः प्रलेपो भवत्यशेषाक्षिरोगहरः ॥ ९ ॥
तथा शारवकं लोध्रं घृतभृष्टं बिडालकः ।
कार्यो हरीतकीतद्वद्धृतभृष्टो बिडालकः ॥ १० ॥
शालाक्यक्ष्णोर्बहिर्लेपो बिडालक उदाहृतः ॥ ११ ॥
गिरिमृच्चन्दननागरखटिकांशयोजितो बहिर्लेपः ।
कुरुते वचया मिश्रो लोचनमगदं न सन्देहः ॥ १२ ॥
भूम्यामलकी घृष्टाससैन्धव गृहवारियोजिता ताम्रे ।
याता घनत्वमक्ष्णोर्जयति बहिर्लेपतः पीडाम् ॥ १३ ॥
237-b
आश्च्योतनं मारुतजे क्वाथो बिल्वादिभिर्हितः ।
कोष्णः सैरण्डबृहतीतर्कारीमधुशिग्रुभिः ॥ १४ ॥
एरण्डपल्लवे मूले त्वचि चाजं पयः शृतम् ।
कण्टकार्याश्च मूलेषु सुखोष्णं सेचने हितम् ॥ १५ ॥
सम्पक्वेऽक्षिगदे कार्यं चाञ्जनादिकमिष्यते ।
प्रशस्तवर्त्मता चाक्ष्णोः संरम्भाश्रुप्रशान्तता ॥ १६ ॥
मन्दवेदनता कण्डूः पक्वाक्षिगदलक्षणम् ।
अञ्जनादिविधिश्चाग्रे निखिलेनाभिधास्यते ॥ १७ ॥
बृहत्येरण्डमूलत्वक्शिग्रोर्मूलं ससैन्धवम् ।
अजाक्षीरेण पिष्टं स्याद्वर्तिर्वाताक्षिरोगनुत् ॥ १८ ॥
हरिद्रे मधुकं पथ्यादेवदारु च पेषयेत् ।
आजेन पयसा श्रेष्ठमभिष्यन्दे तदञ्जनम् ॥ १९ ॥
गैरिकं सैन्धवं कृष्णां नागरं च यथोत्तरम् ।
पिष्टं द्विरंशतोऽद्भिर्वा गुडिकाञ्जनमिष्यते ॥ २० ॥
प्रपौण्डरीकयष्ट्याह्वनिशामलकपद्मकैः ।
शीतैर्मधुसितायुक्तैः सेकः पित्ताक्षिरोगनुत् ॥ २१ ॥
द्राक्षामधुकमञ्जिष्ठाजीवनीयैः शृतं पयः ।
प्रातराश्च्योतनं पथ्यं शोथशूलाक्षिरोगिणाम् ॥ २२ ॥
238-a
निम्बस्य पत्रैः परिलिप्य लोध्रं
स्वेदाग्निना चूर्णमथापि कल्कम् ।
आश्च्योतनं मानुषदुग्धयुक्तं
पित्तास्रवातापहमग्र्यमुक्तम् ॥ २३ ॥
कफजे लङ्गनं स्वेदो नस्यं तिक्तान्नभोजनम् ।
तीक्ष्णैः प्रधमनं कुर्यात्तीक्ष्णैश्चैवोपनाहनम् ॥ २४ ॥
फणिज्जकास्फोतकपीतबिल्व-
पत्तूरपीलुसुरसार्जभङ्गैः ।
स्वेदं विदध्यादथवा प्रलेपं
बर्हिष्ठशुण्ठीसुरदारुकुष्ठैः ॥ २५ ॥
शुण्ठीनिम्बदलैः पिण्डः सुखोष्णैः स्वल्पसैन्धवैः ।
धार्यश्चक्षुषि संलेपाच्छोथकण्डूरुजापहः ॥ २६ ॥
वल्कलं पारिजातस्य तैलकाञ्जिकसैन्धवम् ।
कपोद्भूताक्षिशूलघ्नं तरुघ्नं कुलिशं तथा ॥ २७ ॥
238-b
ससैन्धवं लोध्रमथाज्यभृष्टं
सौवीरपिष्टं सितवस्त्रबन्धम् ।
आश्च्योतनं तन्नयनस्य कुर्यात्
कण्डूं च दाहं च रुजां च हन्यात् ॥ २८ ॥
स्निग्धैरुष्णैश्च वातोत्थः पित्तजो मृदुशीतलैः ।
तीक्ष्णरुक्षोष्णविशदैः प्रशाम्यन्ति कफात्मकाः ॥ २९ ॥
तीक्ष्णोष्णमृदुशीतानां व्यत्यासात्सान्निपातिकः ।
तिरीटत्रिफलायष्टीशर्कराभद्रमुस्तकः ।
पिष्टैः शीताम्बुना सेको रक्ताभिष्यन्दनाशनः ॥ ३० ॥
कशेरुमधुकानां च चूर्णमम्बरसंयुतम् ।
न्यस्तमप्स्वन्तरीक्ष्यासु हितमाश्च्योतनं भवेत् ॥ ३१ ॥
दार्वीपटोलमधुकं सनिम्बं पद्मकोत्पलम् ।
प्रपौण्डरीकं चैतानि पचेत्तोये चतुर्गुणे ॥ ३२ ॥
विपाच्य पादशेषं तु तत्पुनः कुडवं पचेत् ।
शीतीभूते तत्र मधु दद्यात्पादांशिकं ततः ॥ ३३ ॥
रसक्रियैषा दाहाश्रुरोगरक्तरुजापहा ।
तिक्तस्य सर्पिषः पानं बहुशश्च विरेचनम् ॥ ३४ ॥
अक्ष्णोरपि समन्ताच्च पातनं तु जलौकसः ।
पित्ताभिष्यन्दशमनो विधिश्चाप्युपपादितः ॥ ३५ ॥
239-a
शिग्रुपल्लवनिर्यासः सुघृष्टस्ताम्रसम्पुटे ।
घृतेन धूपितो हन्ति शोथघर्षाश्रुवेदनाः ॥ ३६ ॥
पिष्टैर्निम्बस्य पत्रैरतिविमलतरै-
र्जातिसिन्धूत्थमिश्रा
अन्तर्गर्भं दधाना पटुतरगुडिका-
पिष्टलोध्रेण भृष्टा ।
तूलैः सौवीरसार्द्रैरतिशयमृदुभि-
र्वेष्टिता सा समन्ता-
च्चक्षुःकोपप्रशान्तिं चिरमुपरिदृशो-
र्भ्राम्यमाणा करोति ॥ ३७ ॥
बिल्वपत्ररसः पूतः सैन्धवाज्येन चान्वितः ।
शुल्बे वराटिकाघृष्टो धूपितो गोमयाग्निना ॥ ३८ ॥
239-b
पयसालोडितश्चाक्ष्णोः पूरणाच्छोथशूलनुत् ।
अभिष्यन्देऽधिमन्थे च स्रावे रक्ते च शस्यते ॥ ३९ ॥
सलवणकटुतैलं काञ्जिकं कांस्यपात्रे
घनितमुपलघृष्टं धूपितं गोमयाग्नौ ।
सपवनकफकोपं छागदुग्धावसिक्तं
जयति नयनशूलं स्रावशोथं सरागम् ॥ ४० ॥
तरुस्थविद्धामलकरसः सर्वाक्षिरोगनुत् ।
पुराणं सर्वथा सर्पिः सर्वनेत्रामयापहम् ॥ ४१ ॥
अयमेव विधिः सर्वो मन्थादिष्वपि शस्यते ।
अशान्तौ सर्वथा मन्थे भ्रुवोरुपरि दाहयेत् ॥ ४२ ॥
जलौकःपातनं शस्तं नेत्रपाके विरेचनम् ।
शिराव्यधं वा कुर्वीत सेका लेपाश्च शुक्रवत् ॥ ४३ ॥
विभीतकशिवाधात्रीपटोलारिष्टवासकैः ।
क्वाथो गुग्गुलुना पेयः शोथशूलाक्षिपाकहा ॥ ४४ ॥
पीलुं च सव्रणं शुक्रं रागादींश्चापि नाशयेत् ।
एतैश्चापि घृतं पक्वं रोगांस्तांश्च व्यपोहति ॥ ४५ ॥
240-a
आटरूषाभयानिम्बधात्रीमुस्ताक्षकूलकैः ।
रक्तस्रावं कफं हन्ति चक्षुष्यं वासकादिकम् ॥ ४६ ॥
वासा घनं निम्बपटोलपत्रं
तिक्तामृताचन्दनवत्सकत्वक् ।
कलिङ्गदार्वी दहनं च शुण्ठी-
भूनिम्बधात्र्यावभयाविभीतम् ॥ ४७ ॥
श्यामायवक्वाथमथाष्टभागं
पिबेदिमं पूर्वदिने कषायम् ।
तैमिर्यकण्डूपटलार्बुदं च
शुक्रं निहन्याद्व्रणमव्रणं च ॥ ४८ ॥
पीलुं च काचं च महारजश्च
नक्तान्ध्यरागं श्वयथुं सशूलम् ।
निहन्ति सर्वान्नयनामयांश्च
वासादिरेपः प्रथितप्रभावः ॥ ४९ ॥
पथ्यास्तिस्रोबिभीतक्यः षटू धात्र्योद्वादशैवतु ।
प्रस्थार्धे सलिले क्वाथमष्टभागावशेषितम् ॥ ५० ॥
पीत्वाभिष्यन्दमास्रावं रागश्च तिमिरं जयेत् ॥ ५१ ॥
संरम्भरागशूलाश्रुनाशनं दृक्प्रसादनम् ।
नेत्रे त्वभिहते कुर्याच्छीतमाश्च्योतनादिकम् ॥ ५२ ॥
दृष्टिप्रसादजननं विधिमाशु कुर्यात्
स्निग्धैर्हिमैश्च मधुरैश्च तथा प्रयोगैः ।
स्वेदाग्निधूमभयशोकरुजाभितापै-
रभ्याहतामपि तथैव भिषक्चिकित्सेत् ॥ ५३ ॥
240-b
आगन्तुदोषं प्रसमीक्ष्य कार्यं
वक्त्रोष्मणा स्वेदितमादितस्तु ।
आश्च्योतनं स्त्रीपयसा च सद्यो
यच्चापि पित्तक्षतजापहं स्यात् ॥ ५४ ॥
सूर्योपरागानलविद्युदादि-
विलोकनेनोपहतेक्षणस्य ।
सन्तर्पणं स्निग्धहिमादिकार्यं
सायं निषेव्यास्त्रिफलाप्रयोगाः ॥ ५५ ॥
निशाब्दत्रिफलादार्वी सितामधुकसंयुतम् ।
अभिघाताक्षिशूलघ्नं नारीक्षीरेण पूरणम् ॥ ५६ ॥
इत्कुटाङ्कुरजस्तद्वत्स्वरसो नेत्रपूरणम् ।
आजं घृतं क्षीरपात्रं मधुकं चोत्पलानि च ॥ ५७ ॥
जीवकर्षभकौ चापि पिष्ट्वा सर्पिर्विपाचयेत् ।
सर्वनेत्राभिघातेषु सर्पिरेतत्प्रशस्यते ॥ ५८ ॥
241-a
१०सैन्धवं दारु शुण्ठी च मातुलुङ्गी रसो घृतम् ।
स्तन्योदकाभ्यां कर्तव्यं शुष्कपाके तदञ्जनम् ॥ ५९ ॥
वाताभिष्यन्दवच्चान्यद्वाते मारुतपर्यये ।
पूर्वभुक्तं हितं सर्पिः क्षीरं चाप्यथ भोजने ॥ ६० ॥
वृक्षादन्यां कपित्थे च पञ्चमूले महत्यपि ।
सक्षीरं कर्कटरसे सिद्धं चापि पिबेद् घृतम् ॥ ६१ ॥
अभिष्यन्दमधीमन्थं रक्तोत्थमथवार्जुनम् ।
शिरोत्पातं शिराहर्षमन्यांश्चाक्षिभवान्गदान् ॥ ६२ ॥
स्निग्धस्याज्येन कौम्भेन शिराव्याधैः शमं नयेत् ।
अम्लाध्युषितशान्त्यर्थं कुर्याल्लेपान्सुशीतलान् ॥ ६३ ॥
तैन्दुकं त्रैफलं सर्पिर्जीर्णं वा केवलं हितम् ।
शिराव्यधं विना कार्यः पित्तस्यन्दहरो विधिः ॥ ६४ ॥
सर्पिः क्षौद्राञ्जनं च स्याच्छिरोत्पातस्य भेषजम् ।
तद्वत्सैन्धवकासीसं स्तन्यपिष्टं च पूजितम् ॥ ६५ ॥
शिराहर्षेऽञ्जनं कुर्यात्फाणितं मधुसंयुतम् ।
मधुना तार्क्ष्यशैलं वा कासीसं वा समाक्षिकम् ॥ ६६ ॥
११व्रणशुक्रप्रशान्त्यर्थं पडङ्गं गुग्गुलुं पिबेत् ।
कतकस्य फलं शङ्खं तिन्दुकं रूप्यमेव च ॥ ६७ ॥
241-b
कांस्ये निघृष्टं स्तन्येन क्षतशुक्रार्तिरागजित् ।
चन्दनं गैरिकं लाक्षामालती कलिकासमा ॥ ६८ ॥
ब्रणशुक्रहरी वर्तिः शोणितस्य प्रसादनी ।
शिरया वा हरेद्रक्तं जलौकाभिश्च लोचनात् ॥ ६९ ॥
अक्षमज्जाञ्जनं सायं स्तन्येन शुक्रनाशनम् ।
एकं वा पुण्डरीकं च छागीक्षीरावसेचितम् ॥ ७० ॥
रागास्रुवेदनां हन्यात्क्षतपाकात्ययाजकाः ।
तुत्थकं वारिणा युक्तं शुक्रं हन्त्यक्षिपूरणात् ॥ ७१ ॥
समुद्रफेनदक्षाण्डत्वक्सिन्धूत्थैः समाक्षिकैः ।
शिग्रुबीजयुतैर्वर्तिः शुक्रघ्नी शीग्रुवारिणा ॥ ७२ ॥
धात्रीफलं निम्बपटोलपत्रं
यष्ट्याह्वलोध्रं खदिरं तिलाश्च ।
क्वाथः सुशीतो नयने निपिक्तः
सर्वप्रकारं विनिहन्ति शुक्रम् ॥ ७३ ॥
१२क्षुण्णपुन्नागपत्रेण परिभावितवारिणा ।
श्यामाक्वाथेऽम्बुना वाथ सेचनं कुसुमापहम् ॥ ७४ ॥
दक्षाण्डत्वक्शिलाशङ्खकाचचन्दनगैरिकैः ।
तुल्यैरञ्जनयोगोऽयं पुष्पार्मादिविलेखनः ॥ ७५ ॥
242-a
शिरीषबीजमरिचपिप्पलीसैन्धवैरपि ।
शुक्रे प्रघर्षणं कार्यमथवा सैन्धवेन च ॥ ७६ ॥
बहुशः पलाशकुसुम-
स्वरसैः परिभाविता जयत्यचिरात् ।
नक्ताह्ववीजवर्तिः
कुसुमचयं दृक्षु चिरजमपि ॥ ७७ ॥
सैन्धवत्रिफलाकृष्णाकटुकाशङ्खनाभयः ।
सताम्ररजसो वर्तिः पिष्ट्वा शुक्रविनाशिनी ॥ ७८ ॥
चन्दनं सैन्धवं पथ्यापलाशतरुशोणितम् ।
क्रमवृद्धमिदं चूर्णं शुक्रार्मादिविलेखनम् ॥ ७९ ॥
१३दन्तैर्हस्तिवराहोष्ट्रगवाश्वाजखरोद्भवैः ।
सशङ्खमौक्तिकाम्भोधिफेनैर्मरिचपादिकैः ।
क्षतशुक्रमपि व्याधिं दन्तवर्तिर्निवर्तयेत् ॥ ८० ॥
शङ्खस्य भागाश्चत्वारस्ततोऽर्धेन मनःशिला ।
मनःशिलार्धं मरिचं मरिचार्धेन सैन्धवम् ॥ ८१ ॥
एतच्चूर्णाञ्जनं श्रेष्ठं शुक्रयोस्तिमिरेषु च ।
पिच्चटे मधुना योज्यमर्बुदे मस्तुना तथा ॥ ८२ ॥
ताप्यं मधुकसारो वा बीजं चाक्षस्य सैन्धवम् ।
मधुनाञ्जनयोगाः स्युश्चत्वारः शुक्रशान्तये ॥ ८३ ॥
वटक्षीरेण संयुक्तं श्लक्ष्णं कर्पूरजं रजः ।
क्षिप्रमञ्जनतो हन्ति शुक्रं चापि घनोन्नतम् ॥ ८४ ॥
242-b
त्रिफलामज्जमङ्गल्यामधुकं रक्तचन्दनम् ।
पूरणं मधुसंयुक्तं क्षतशुक्राजकाश्रुजित् ॥ ८५ ॥
तालस्य नारीकेलस्य तथैवारुष्करस्य च ।
करीरस्य च वंशानां कृत्वा क्षारं परिस्रुतम् ॥ ८६ ॥
करभास्थिकृतं चूर्णं क्षारेण परिभावितम् ।
सप्तकृत्वोऽष्टकृत्वो वा श्लक्ष्णं चूर्णं तु कारयेत् ॥ ८७ ॥
एतच्छुष्केष्वसाध्येषु कृष्णीकरणमुत्तमम् ।
यानि शुक्राणि साध्यानि तेषां परममञ्जनम् ॥ ८८ ॥
१४पटोलं कटुकां दार्वीं निम्बं वासां फलत्रिकम् ।
दुरालभां पर्पटकं त्रायन्तीं च पलोन्मिताम् ॥ ८९ ॥
प्रस्थमामलकानां च क्वाथयेदुल्वनेऽम्भसि ।
पादशेषे रसे तस्मिन्घृतप्रस्थं विपाचयेत् ॥ ९० ॥
कल्कैर्भूनिम्बकुटजमुस्तयष्ट्याह्वचन्दनैः ।
सपिप्पलीकैस्तत्सिद्धं चक्षुष्यं शुक्रयोर्हितम् ॥ ९१ ॥
घ्राणकर्णाक्षिवर्त्मत्वङ्मुखरोगव्रणापहम् ।
कामलाज्वरवीसर्पगण्डमालाहरं परम् ॥ ९२ ॥
243-a
१५कृष्णाविडङ्गमधुयष्टिकसिन्धुजन्म-
विश्वौषधैः पयसि सिद्धमिदं छगल्याः ।
तैलं नृणां तिमिरशुक्रशिरोऽक्षिशूल-
पाकात्ययाञ्जयति नस्यविधौ प्रयुक्तम् ॥ ९३ ॥
अजकां पार्श्वतो विद्ध्वा सूच्या विस्राव्य चोदकम् ।
व्रणं गोमयचूर्णेन पूरयेत्सर्पिषा सह ॥ ९४ ॥
सैन्धवं वाजिपादं च गोरोचनसमन्वितम् ।
शेलुत्वग्रससंयुक्तं पूरणं चाजकापहम् ॥ ९५ ॥
१६शशकस्य शिरःकल्के शेषाङ्गक्वथिते जले ।
घृतस्य कुडवं पक्वं पूरणं चाजकापहम् ॥ ९६ ॥
शशकस्य कषाये च सर्पिषः कुडवं पचेत् ।
ष्टीप्रपौण्डरीकस्य कल्केन पयसा समम् ॥ ९७ ॥
छगल्याः पूरणाच्छुक्रक्षतपाकात्ययाजकाः ।
हन्ति भ्रूशङ्खशूलं च दाहरागानशेषतः ॥ ९८ ॥
243-b
१७त्रिफला घृतं मधु यवाः
पादाभ्यङ्गः शतावरी मुद्गाः ।
चक्षुष्यः संक्षेपात्
वर्गः कथितो भिषग्भिरयम् ॥ ९९ ॥
लिह्यात्सदा वा त्रिफलां सुचूर्णितां
मधुप्रगाढां तिमिरेऽथ पित्तजे ।
समीरजे तैलयुतां कफात्मके
मधुप्रगाढां विदधीत युक्तितः ॥ १०० ॥
कल्कः क्वाथोऽथवा चूर्णं त्रिफलाया निषेवितम् ।
मधुना हविषा वापि समस्ततिमिरान्तकृत् ॥ १०१ ॥
यस्त्रैफलं चूर्णमपथ्यवर्जी
सायं समश्नाति हविर्मधुभ्याम् ।
स मुच्यते नेत्रगतैर्विकारै-
र्भृत्यैर्यथा क्षीणधनो मनुष्यः ॥ १०२ ॥
सघृतं वा वराक्वाथं शीलयेत्तिमिरामयी ।
जाता रोगा विनश्यन्ति न भवन्ति कदाचन ।
त्रिफलायाः कषायेण प्रातर्नयनधावनात् ॥ १०३ ॥
जलगण्डूषैः प्रातर्बहुशोऽम्भोभिः प्रपूर्य मुखरन्ध्रम् ।
निर्दयमुक्षन्नक्षि क्षपयति तिमिराणि नासद्यः ॥ १०४ ॥
भुक्त्वा पाणितलं घृष्ट्वा चक्षुषोर्यत्प्रदीयते ।
अचिरेणैव तद्वारि तिमिराणि व्यपोहति ॥ १०५ ॥
244-a
१८कतकस्य फलं शङ्खं त्र्यूषणं सैन्धवं सिता ।
फेनो रसाञ्जनं क्षौद्रं विडङ्गानि मनःशिला ।
कुक्कुटाण्डकपालानि वर्तिरेषा व्यपोहति ॥ १०६ ॥
तिमिरं पटलं काचमर्म शुक्रं तथैव च ।
कण्डूक्लेदार्बुदं हन्ति मलं चाशु सुखावती ॥ १०७ ॥
१९हरीतकी वचा कुष्ठं पिप्पली मरिचानि च ।
बिभीतकस्य मज्जा च शङ्खनाभिर्मनः शिला ॥ १०८ ॥
सर्वमेतत्समं कृत्वा छागक्षीरेण पेषयेत् ।
नाशयेत्तिमिरं कण्डूं पटलान्यर्बुदानि च ॥ १०९ ॥
अधिकानि च मांसानि यश्च रात्रौ न पश्यति ।
अपि द्विवार्षिकं पुष्पं मासेनैकेन साधयेत् ॥ ११० ॥
वर्तिश्चन्द्रोदया नाम नृणां दृष्टिप्रसादनी ॥ १११ ॥
हरीतकी हरिद्रा च पिप्पल्यो लवणानि च ।
कण्डूतिमिरजिद्वर्तिर्न क्वचित्प्रतिहन्यते ॥ ११२ ॥
244-b
२०अशीतिस्तिलपुष्पाणि षष्टिःपिप्पलीतण्डुलाः
जातीकुसुमपञ्चाशन्मरिचानि च षोडश ।
एषा कुमारिका वर्तिर्गतं चक्षुर्निवारयेत् ॥ ११३ ॥
२१त्रिफलाकुक्कुटाण्डत्वक्कासीसमयसो रजः ।
नीलोत्पलं विडङ्गानि फेनं च सरितां पतेः ॥ ११४ ॥
आजेन पयसा पिष्ट्वा भावयेत्ताम्रभाजने ।
सप्तरात्रं स्थितं भूयः पिष्ट्वा क्षीरेण वर्तयेत् ॥ ११५ ॥
एषा दृष्टिप्रदा वर्तिरन्धस्याभिन्नचक्षुषः ।
चन्दनत्रिफलापूगपलाशतरुशोणितैः ॥ ११६ ॥
जलपिष्टैरियं वर्तिरशेषतिमिरापहा ।
निशाद्वयाभयामांसीकुष्ठकृष्णाविचूर्णिता ॥ ११७ ॥
सर्वनेत्रामयान्हन्यादेतत्सौगतमञ्जनम् ।
व्योषोत्पलाभयाकुष्ठतार्क्ष्यैर्वर्ति कृताः हरेत् ॥ ११८ ॥
अर्बुदं पटलं काचं तिमिरार्माश्रुनिस्रुतिम् ।
त्र्यूषणं त्रिफलावक्रसैन्धवालमनःशिलाः ॥ ११९ ॥
क्लेदोपदेहकण्डूघ्नी वर्तिः शस्ता कफापहा ।
एकगुणा मागधिका
द्विगुणा च हरीतकी सलिलपिष्टा ॥ १२० ॥
वर्तिरियं नयनसुखा-
र्मतिमिरपटलकाचाश्रुहरी ॥ १२१ ॥
245-a
२२अञ्जनं श्वेतमरिचं पिप्पली मधुयष्टिका ।
बिभीतकस्य मध्यं तु शङ्खनाभिर्मनःशिला ॥ १२२ ॥
एतानि समभागानि अजाक्षीरेण पेषयेत् ।
छायाशुष्कां कृतां वर्तिं नेत्रेषु च प्रयोजयेत् ॥ १२३ ॥
अर्बुदं पटलं काचं तिमिरं रक्तराजिकाम् ।
अधिमांसं मलं चैव यश्च शत्रौ न पश्यति ।
वर्तिश्चन्द्रप्रभा नाम जातान्ध्यमपि शोधयेत् ॥ १२४ ॥
२३त्रिफलाव्योषसिन्धूत्थयष्टीतुत्थरसाञ्जनम् ।
प्रपौण्डरीकं जन्तुघ्नं लोध्रं ताम्रं चतुर्दश ॥ १२५ ॥
द्रव्याण्येतानि संचूर्ण्य वर्तिः कार्या नभोऽम्बुना ।
नागार्जुनेन लिखिता स्तम्भे पाटलिपुत्रके ॥ १२६ ॥
नाशनी तिमिराणां च पटलानां तथैव च ।
सद्यः प्रकोपं स्तन्येन स्त्रिया विजयते ध्रुवम् ॥ १२७ ॥
किंशुकस्वरसेनाथ पीलुपुष्पकरक्ततः ।
अञ्जनाल्लोध्रतोयेन चासन्नतिमिरं जयेत् ॥ १२८ ॥
चिरसंच्छादिते नेत्रे बस्तमूत्रेण संयुता ।
उन्मीलयत्यकृच्छ्रेण प्रसादं चाधिगच्छति ॥ १२९ ॥
245-b
२४पिप्पलीं सतगरोत्पलपत्रां
वर्तयेत्समधुकां सहरिद्राम् ।
एतया सततमञ्जयितव्यं
यः सुपर्णसममिच्छति चक्षुः ॥ १३० ॥
व्योषायश्चूर्णसिन्धूत्थत्रिफलाञ्जनसंयुता ।
गुडिका जलपिष्टेयं कोकिला तिमिरापहा ॥ १३१ ॥
त्रीणि कटूनि करञ्जफलानि
द्वे रजनी सहसैन्धवकं च ।
बिल्वतरोर्वरुणस्य च मूलं
वारिचरं दशमं प्रवदन्ति ॥ १३२ ॥
हन्ति तमस्तिमिरं पटलं च
पिच्चिटशुक्रकमथार्जुनं च ।
अञ्जनकं जनरञ्जनकं च
दृक्च न नश्यति वर्षशतं च ॥ १३३ ॥
२५नीलोत्पलं विडङ्गानि पिप्पली रक्तचन्दनम् ।
अञ्चनं सैन्धवं चैव सद्यस्तिमिरनाशनम् ॥ १३४ ॥
246-a
पत्रगैरिककर्पूरयष्टीनीलोत्पलाञ्जनम् ।
नागकेशरसंयुक्तमशेषतिमिरापहम् ॥ १३५ ॥
शङ्खस्य चतुरो भागास्तदर्धेन मनःशिला ।
मनःशिलार्धं मरिचं मरिचार्धेन पिप्पली ॥ १३६ ॥
वारिणा तिमिरं हन्ति अर्बुदं हन्ति मस्तुना ।
पिच्चिटं मधुना हन्ति स्त्रीक्षीरेण तदुत्तमम् ॥ १३७ ॥
हरिद्रानिम्बपत्राणि पिप्पल्यो मरिचानि च ।
भद्रमुस्तं विडङ्गानि सप्तमं विश्वभेषजम् ॥ १३८ ॥
गोमूत्रेण गुडी कार्या छागमूत्रेण चाञ्जनम् ।
ज्वरांश्च निखिलान्हन्ति भूतावेशं तथैव च ॥ १३९ ॥
वारिणा तिमिरं हन्ति मधुना पटलं तथा ।
नक्तान्ध्यं भृङ्गराजेन नारीक्षीरेण पुष्पकम् ।
शिशिरेण परिस्रावमर्बुदं पिच्चिटं तथा ॥ १४० ॥
२६संगृह्योपरतानलक्तकरसे-
नामृज्य गण्डूपदान्
लाक्षारञ्जिततूलवर्तिनिहितान्
यष्टीमधून्मिश्रितान् ।
प्रक्षाल्योत्तमसर्पिषानलशिखा-
सन्तापजं कज्जलं
दूरासन्ननिशान्ध्यसर्वतिमिर-
प्रध्वंसकृच्चोदितम् ॥ १४१ ॥
246-b
भूमौ निघृष्टयाङ्गुल्या अञ्जनं शमनं तयोः ।
तिमिरकाचार्महरं धूमिकायाश्च नाशनम् ॥ १४२ ॥
त्रिफलाभृङ्गमहौषधमध्वाज्यच्छागपयसि गोमूत्रे ।
नागं सप्त निषिक्तं करोति गरुडोपमं चक्षुः ॥ १४३ ॥
त्रिफलासलिलयोगे भृङ्गराजद्रवे च
हविषि च विषकल्के क्षार आजे मधूग्रे ।
प्रतिदिनमथ तप्तं सप्तधा सीसमेकं
प्रणिहितमथ पश्चात्कारयेत्तच्छलाकाम् ॥ १४४ ॥
सवितुरुदयकाले साञ्जना व्यञ्जना वा
करकरिकसमेता नर्मपैच्चिट्यरोगान् ।
असितसितसमुत्थान्सन्धिवर्त्माभिजातान्
हरति नयनरोगान्सेव्यमाना शलाका ॥ १४५ ॥
२७चिञ्चापत्ररसं निधाय विमले
चौदुम्बरे भाजने
मूलं तत्र निघृष्टसैन्धवयुतं
गौञ्ज्यं विशोष्यातपे ।
तच्चूर्णं विमलाञ्जनेन सहितं
नेत्राञ्जने शस्यते
काचार्मार्जुनपिच्चिटे सतिमिरे
स्रावं च निर्वासयेत् ॥ १४६ ॥
247-a
चित्राषष्ठीयोगे सैन्धवममलं विचूर्ण्य तेनाक्षि ।
शममञ्जनेन तिमिरं गच्छति वर्षादसाध्यमपि ॥ १४७ ॥
दद्यादुशीरनिर्यूहे चूर्णितं कणसैन्धवम् ।
तच्छ्रुतं सघृतं भूयः पचेत्क्षौद्रं क्षिपेद्धने ॥ १४८ ॥
शीते तस्मिन्हितमिदं सर्वजे तिमिरेऽञ्जनम् ॥ १४९ ॥
धात्रीरसाञ्जनक्षौद्रसर्पिर्भिस्तु रसक्रिया ।
पित्तानिलाक्षिरोगघ्नी तैमिर्यपटलापहा ॥ १५० ॥
२८शृङ्गवेरं भृङ्गराजं यष्टीतैलेन मिश्रितम् ।
नस्यमेतेन दातव्यं महापटलनाशनम् ॥ १५१ ॥
लिङ्गनाशे कफोद्भूते यथावद्विधिपूर्वकम् ।
विद्ध्वा दैवकृते छिद्रे नेत्रं स्तन्येन पूरयेत् ॥ १५२ ॥
ततो दृष्टेषु रूपेषु शलाकामाहरेच्छनैः ।
नयनं सर्पिषाभ्यज्य वस्त्रपट्टेन वेष्टयेत् ॥ १५३ ॥
ततो गृहे निराबाधे शयितोत्तान एव च ।
उद्गारकासक्षवथुष्ठीवनोत्कम्पनानि च ॥ १५४ ॥
तत्कालं नाचरेदूर्ध्वं यन्त्रणास्नेहपोतवत् ।
त्र्यहात्त्र्यहाद्धारयेत्तु कषायैरनिलापहैः ॥ १५५ ॥
वायोर्भयात्त्र्यहादूर्ध्वं स्नेहयेदक्षि पूर्ववत् ।
दशरात्रं तु संयम्य हितं दृष्टिप्रसादनम् ॥ १५६ ॥
पश्चात्कर्म च सेवेत लघ्वन्नं चापि मात्रया ।
रागश्चोषोर्वुदं शोथो वुद्बुदं केकराक्षिता ॥ १५७ ॥
247-b
अधिमन्थादयश्चान्ये रोगाः स्युर्दुष्टवेधजाः ।
अहिताचारतो वापि यथास्वं तानुपाचरेत् ॥ १५८ ॥
रुजायामक्षिरोगे वा भूयो योगान्निवोध मे ।
२९कल्किताः सघृता दूर्वायवगैरिकशारिवाः ॥ १५९ ॥
सुखलेपाः प्रयोक्तव्या रुजा रोगोपशान्तये ।
पयस्याशारिवापत्रमञ्जिष्ठामधुकैरपि ॥ १६० ॥
अजाक्षीरान्वितैर्लेपः सुखोष्णः पथ्य उच्यते ।
वातघ्नसिद्धे पयसि सिद्धं सर्पिश्चतुर्गुणे ॥ १६१ ॥
काकोल्यादिप्रतीवापं प्रयुञ्ज्यात्सर्वकर्मसु ।
शाम्यत्येवं न चेच्छूलं स्निग्धस्विन्नस्य मोक्षयेत् ॥ १६२ ॥
ततः शिरां दहेच्चापि मतिमान्कीर्तितां यथा ।
दृष्टेरतः प्रसादार्थमञ्जने शृणु मे शुभे ॥ १६३ ॥
248-a
३०मेषशृङ्गस्य पत्राणि शिरीषधवयोरपि ।
मालत्याश्चापि तुल्यानि मुक्तावैदूर्यमेव च ॥ १६४ ॥
अजाक्षीरेण संपिष्य ताम्रे सप्ताहमावपेत् ।
प्रणिधाय तु तद्वर्तिं योजयेदञ्जने भिषक् ॥ १६५ ॥
स्रोतोजं विद्रुमं फेनं सागरस्य मनःशिला ।
मरिचानि च तद्वर्तिं कारयेत्पूर्ववद्भिषक् ॥ १६६ ॥
रसाञ्जनं घृतं क्षौद्रं तालीसं स्वर्णगैरिकम् ।
गोशकृद्रससंयुक्तं पित्तोपहतदृष्टये ॥ १६७ ॥
३१नलिनोत्पलकिञ्जल्कं गोशकृद्रससंयुतम् ।
गुडिकाञ्जनमेतत्स्याद्दिनरात्र्यन्धयोर्हितम् ॥ १६८ ॥
नदीजशङ्खत्रिकटून्यथाञ्जनं
मनःशिला द्वे च निशे गवां शकृत् ।
सचन्दनेयं गुडिकाथ चाञ्जने
प्रशस्यते रात्रिदिनेष्वपश्यताम् ॥ १६९ ॥
कणाच्छागयकृन्मध्ये पक्त्वा तद्रसपेषिता ।
अचिराद्धन्ति नक्तान्ध्यं तद्वत्सक्षौद्रमूषणम् ॥ १७० ॥
पचेत्तु गौधं हि यकृत्प्रयुक्तं
प्रकल्पितं मागधिकाभिरम्बुना ।
निषेवितं तत्सकृदञ्जनेन
निहन्ति नक्तान्ध्यमसंशयं खलु ॥ १७१ ॥
दध्ना निघृष्टं मरिचं रात्र्यन्ध्याञ्जनमुत्तमम् ।
ताम्बूलयुक्तं खद्योतभक्षणं च तदर्थकृत् ॥ १७२ ॥
248-b
शफरीमत्स्यक्षारो नक्तान्ध्यं चाञ्जनाद्विनिहन्ति ।
तद्वद्रामठटङ्कणकर्णमलं चैकशोऽञ्जनान्मधुना ॥ १७३ ॥
केशराजान्वितं सिद्धं मत्स्यण्डं हन्ति भक्षितम् ।
नक्तान्ध्यं नियतं नॄणां सप्ताहात्पथ्यसेविनाम् ॥ १७४ ॥
३२त्रिफलाक्वाथकल्काभ्यां सपयस्कं शृतं घृतम् ।
तिमिराण्यचिराद्धन्ति पीतमेतन्निशामुखे ॥ १७५ ॥
३३त्रिफलाया रसप्रस्थं प्रस्थं भृङ्गरसस्य च ।
वृषस्य च रसप्रस्थं शतावर्याश्च तत्समम् ॥ १७६ ॥
अजाक्षीरं गुडूच्याश्च आमलक्या रसं तथा ।
प्रस्थं प्रस्थं समाहृत्य सर्वैरेभिर्घृतं पचेत् ॥ १७७ ॥
कल्कः कणासिताद्राक्षात्रिफलानीलमुत्पलम् ।
मधुकं क्षीरकाकोली मधुपर्णी निदिग्धिका ॥ १७८ ॥
तत्साधुसिद्धं विज्ञाय शुभे भाण्डे निधापयेत् ।
ऊर्ध्वपानमधःपानं मध्यपानं च शस्यते ॥ १७९ ॥
यावन्तो नेत्ररोगास्तान्पानादेवापकर्षति ।
सरक्ते रक्तदुष्टे च रक्ते चातिस्रुतेऽपि च ॥ १८० ॥
249-a
नक्तान्ध्ये तिमिरे काचे नीलिकापटलार्बुदे ।
अभिष्यन्देऽधिमन्थे च पक्षकोपे सुदारुणे ॥ १८१ ॥
नेत्ररोगेषु सर्वेषु वातपित्तकफेषु च ।
अदृष्टिं मन्ददृष्टिं च कफवातप्रदूषिताम् ॥ १८२ ॥
स्रवतो वातपित्ताभ्यां सकण्ड्वासन्नदूरदृक् ।
गृध्रदृष्टिकरं सद्यो बलवर्णाग्निवर्धनम् ।
सर्वनेत्रामयं हन्यात्त्रिफलाद्यं महद्धृतम् ॥ १८३ ॥
३४त्रिफला त्र्यूषणं द्राक्षा मधुकं कटुरोहिणी ।
प्रपौण्डरीकं सूक्ष्मैला विडङ्गं नागकेशरम् ॥ १८४ ॥
नीलोत्पलं शारिवे द्वे चन्दनं रजनीद्वयम् ।
कार्षिकैः पयसा तुल्यं त्रिगुणं त्रिफलारसम् ॥ १८५ ॥
घृतप्रस्थं पचेदेतत्सर्वनेत्ररुजापहम् ।
तिमिरं दोषमास्रावं कामलां काचमर्बुदम् ॥ १८६ ॥
वीसर्पं प्रदरं कण्डूं रक्तं श्वयथुमेव च ।
खालित्यं पलितं चैव केशानां पतनं तथा ॥ १८७ ॥
249-b
विषमज्वरमर्माणि शुक्रं चाशु व्यपोहति ।
अन्ये च बहवो रोगा नेत्रजा ये च वर्त्मजाः ।
तान्सर्वान्नाशयत्याशु भास्करस्तिमिरं यथा ॥ १८८ ॥
न चैवास्मात्परं किञ्चिदृषिभिः काश्यपादिभिः ।
दृष्टिप्रसादनं दृष्टं यथा स्यात्त्रैफलं घृतम् ॥ १८९ ॥
फलत्रिकाभीरुकषायसिद्धं
कल्केन यष्टीमधुकस्य युक्तम् ।
सर्पिः समं क्षौद्रचतुर्थभागं
हन्यात्त्रिदोषं तिमिरं प्रवृद्धम् ॥ १९० ॥
३५भृङ्गराजरसप्रस्थे यष्टीमधुपलेन च ।
तैलस्य कुडवं पक्वं सद्यो दृष्टिं प्रसादयेत् ।
नस्याद्वलीपलितघ्नं मासेनैतन्न संशयः ॥ १९१ ॥
गवां शकृत्क्वाथविपक्वमुत्तमं
हितं च तैलं तिमिरेषु नस्ततः ।
घृतं हितं केवलमेव पैत्तिके
तथानुतैलं पवनासृगुत्थयोः ॥ १९२ ॥
250-a
३६जीवकर्पभकौ मेदा-
द्राक्षांशुमती निदिग्धिका बृहती ।
मधुकं बला विडङ्गं
मञ्जिष्ठा शर्करा तथा रास्ना ॥ १९३ ॥
नीलोत्पलं श्वदंष्ट्रा प्रपौण्डरीकं पुनर्नवा लवणम् ।
पिप्पल्यः सर्वेषां भागैरक्षांशिकैः पिष्टैः ॥ १९४ ॥
तैलं यदि वा सर्पिर्दत्वा क्षीरं चतुर्गुणं पक्वम् ।
तिमिरं पटलं काचं नक्तान्ध्यं चार्वुदं तथान्ध्यं च ॥ १९५ ॥
श्वेतं च लिङ्गनाशं नाशयति परंच नीलिकाव्यङ्गम्
मुखनासादौर्गन्ध्यं पलितं चाकालजं हनुस्तम्भम् ॥ १९६ ॥
कासं श्वासं शोषं हिक्कां स्तम्भं तथात्ययं नेत्रे ।
मुखजैर्क्ष्य?मर्धभेदं रोगं वाहुग्रहं शिरःस्तम्भम् ।
रोगानथोर्ध्वजत्रोः सर्वानचिरेण नाशयति ॥ १९७ ॥
नस्यार्थं कुडवं तैलं पक्तव्यं नृपवल्लभे ।
अक्षांशैः शाणिकैः कल्कैरन्ये भृङ्गादितैलवत् ॥ १९८ ॥
250-b
३७तैलस्यपचेत्कुडवंमधुकस्य पलेन कल्कपिष्टेन
आमलकरसप्रस्थं क्षीरप्रस्थेन संयुतं कृत्वा ॥ १९९ ॥
अभिजिन्नाम्ना तैलं तिमिरं हन्यान्मुनिप्रोक्तम् ।
विमलां कुरुते दृष्टिं नष्टामप्यानयेदिदं शीघ्रं ॥ २०० ॥
३८अर्म तु छेदनीयं स्यात्कृष्णाप्राप्तं भवेद्यदा ।
बडिशाविद्धमुन्नम्य त्रिभागं चात्र वर्जयेत् ॥ २०१ ॥
पिप्पली त्रिफला लाक्षा लौहचूर्णं ससैन्धवम् ।
भृङ्गराजरसे पिष्टं गुडिकाञ्जनमिष्यते ॥ २०२ ॥
अर्म सतिमिरं काचं कण्डूं शुक्रं तदर्जुनम् ।
अजकां नेत्ररोगांश्च हन्यान्निरवशेपतः ॥ २०३ ॥
पुष्पाख्यतार्क्ष्यजसितोदधिफेनशङ्ख-
सिन्धूत्थगैरिकशिलामरिचैः समांशैः ।
पिष्टैश्च माक्षिकरसेन रसक्रियेयं
हन्त्यर्मकाचतिमिरार्जुनवर्त्मरोगान् ॥ २०४ ॥
कौन्तस्य सर्पिषः पानैर्विरेकालेपसेचनैः ।
स्वादुशीतैः प्रशमयेच्छुक्तिकामञ्जनैस्ततः ॥ २०५ ॥
प्रवालमुक्तावैदूर्यशङ्खस्फटिकचन्दनम् ।
सुवर्णरजतं क्षौद्रमञ्जनं शुक्तिकापहम् ॥ २०६ ॥
शङ्खः क्षौद्रेण संयुक्तः कतकः सैन्धवेन वा ।
सितयार्णवफेनो वा पृथगञ्जनमर्जुने ॥ २०७ ॥
पैत्तं विधिमशेषेण कुर्यादर्जुनशान्तये ।
वैदेही श्वेतमरिचं सैन्धवं नागरं समम् ॥ २०८ ॥
मातुलुङ्गरसैः पिष्टमञ्जनं पिटकापहम् ॥ २०९ ॥
251-a
३९भित्त्वोपनाहं कफजं पिप्पलीमधुसैन्धवैः ।
विलिखेन्मण्डलाग्रेण प्रच्छयेद्वा समन्ततः ॥ २१० ॥
पथ्याक्षधात्रीफलमध्यबीजै-
स्त्रिद्व्येकभागैर्विदधीत वर्तिम् ।
तयाञ्जयेदश्रुमतिप्रगाढ-
मक्ष्णोर्हरेत्कष्टमपि प्रकोपम् ॥ २११ ॥
स्रावेषु त्रिफलाक्वाथं यथादोषं प्रयोजयेत् ।
क्षौद्रेणाज्येन पिप्पल्या मिश्रं विध्येच्छिरां तथा ॥ २१२ ॥
त्रिफलामूत्रकासीससैन्धवैः सरसाञ्जनैः ।
रसक्रिया क्रिमिग्रन्थौ भिन्ने स्यात्प्रतिसारणम् ॥ २१३ ॥
४०स्विन्नां भित्त्वा विनिष्पीड्य भिन्नामञ्जननामिकाम् ।
शिलैलानतसिन्धूत्थैः सक्षौद्रैः प्रतिसारयेत् ॥ २१४ ॥
251-b
रसाञ्जनमधुभ्यां च भिन्नां वा शस्त्रकर्मवित् ।
प्रतिसार्याञ्जनैर्युञ्ज्यादुष्णैर्दीपशिखोद्भवैः ॥ २१५ ॥
स्वेदयेद्धृष्टयाङ्गुल्या हरेद्रक्तं जलौकसा ।
रोचनाक्षारतुत्थानि पिप्पल्यः क्षौद्रमेव च ॥ २१६ ॥
प्रतिसारणमेकैकं भिन्नेन गण इष्यते ।
निमिषे नासया पेयं सर्पिस्तेन च पूरणम् ॥ २१७ ॥
स्वेदयित्वा बिसग्रन्थि छिद्राण्यस्य निराश्रयम् ।
पक्वं भित्त्वा तु शस्त्रेण सैन्धवेनावचूर्णयेत् ॥ २१८ ॥
वर्त्मावलेखं बहुशस्तद्वच्छोणितमोक्षणम् ।
पुनः पुनर्विरेकं च पिल्लरोगातुरो भजेत् ॥ २१९ ॥
पिल्ली स्निग्धो वमेत्पूर्वं शिराव्याधं स्रुतेऽसृजि ।
शिलारसाञ्जनव्योषगोपित्तैश्चक्षुरंजयेत् ॥ २२० ॥
हरितालवचादारुमुरसारसपेषितम् ।
अभयारसपिष्टं वा तगरं पिल्लनाशनम् ॥ २२१ ॥
भावितं बस्तमूत्रेण सस्नेहं देवदारु च ।
काकमाचीफलैकेन घृतयुक्तेन बुद्धिमान् ॥ २२२ ॥
धूपयेत्पिल्लरोगार्तं पतन्ति क्रिमयोऽचिरात् ।
252-a
४१रसाञ्जनं सर्जरसो जातीपुष्पं मनः शिला ॥ २२३ ॥
समुद्रफेनो लवणं गैरिकं मरिचानि च ।
एतत्समांशं मधुना पिष्टं प्रक्लिन्नवर्त्मनि ॥ २२४ ॥
अञ्जनं क्लेदकण्डूघ्नं पक्ष्मणां च प्ररोहणम् ।
मस्तकास्थिचुलुक्यास्तु तुषोदलवणान्वितम् ॥ २२५ ॥
ताम्रपात्रेऽञ्जनं घृष्टं पिल्ले प्रक्लिन्नवर्त्मनि ।
ताम्रपात्रे गुहामूलं सिन्धूत्थं मरिचान्वितम् ॥ २२६ ॥
आरणालेन संघृष्टमञ्जनं पिल्लनाशनम् ।
हरिद्रे त्रिफलां लोध्रं मधुकं रक्तचन्दनम् ॥ २२७ ॥
भृङ्गराजरसे पिष्ट्वा घर्षयेल्लोहभाजने ।
तथा ताम्रे च सप्ताहं कृत्वा वर्तिं रजोऽथवा ॥ २२८ ॥
पिच्चिटी धूमदर्शी च तिमिरोपहतेक्षणः ।
प्रातर्निश्यञ्जयेन्नित्यं सर्वनेत्रामयापहम् ॥ २२९ ॥
मञ्जिष्ठामधुकोत्पलोदधिकफ-
त्वक्सेव्यगोरोचना-
मांसीचन्दनशङ्खपत्रगिरिमृ-
त्तालीसपुष्पाञ्जनैः ।
सर्वैरेव समांशमञ्जनमिदं
शस्तं सदा चक्षुषोः
कण्डूक्लेदमलाश्रुशोणितरुजा-
पिल्लार्मशुक्रापहम् ॥ २३० ॥
252-b
४२तुत्थकस्य पलं श्वेतमरिचानि च विंशतिः ।
त्रिंशता काञ्जिकपलैः पिष्ट्वा ताम्रे निधापयेत् ॥ २३१ ॥
पिल्लानपिल्लान्कुरुते बहुवर्षोत्थितानपि ।
तत्सेकेनोपदेहाश्रुकण्डूशोथांश्च नाशयेत् ॥ २३२ ॥
याप्यः पक्ष्मोपरोधस्तु रोमोद्धरणलेखनैः ।
वर्त्मन्युपचितं लेख्यं स्राव्यमुत्क्लिष्टशोणितम् ॥ २३३ ॥
प्रवृद्धान्तर्मुखं रोम सहिष्णोरुद्धरेच्छनैः ।
सन्दंशेनोद्धरेदॄष्ट्यां पक्ष्मरोमाणि बुद्धिमान् ॥ २३४ ॥
रक्षन्नक्षि दहेत्पक्ष्म तप्तहेमशलाकथा ।
पक्ष्मरोगे पुनर्नैवं कदाचिद्रोमसंभवः ॥ २३५ ॥
उत्सङ्गिनी बहुलकर्दमवर्त्मनी च
श्यावं च यच्च पटितं त्विह बद्धवर्त्म ।
क्लिष्टं च पोथकियुतं त्विह वर्त्म यच्च
कुम्भीकिनी च सह शर्करयावलेख्याः ॥ २३६ ॥
श्लेष्मोपनाहनगणौ च बिसं च भेद्यो
ग्रन्थिश्च यः क्रिमिकृतोऽञ्जननामिका च ॥ २३७ ॥
253-a
४३घृतसैन्धवचूर्णेन कफानाहं पुनः पुनः ।
विलिखेन्मण्डलाग्रेण प्रच्छयेद्वा समन्ततः ॥ २३८ ॥
पटोलामलकक्वाथैराश्च्योतनविधिर्हितः ।
फणिज्जकरसोनस्य रसैः पोथकिनाशनः ॥ २३९ ॥
आनाहपिडकां स्विन्नां तिर्यग्भित्त्वाग्निना दहेत् ।
अर्शस्तथा वर्त्म नाम्ना शुष्कार्शोऽर्बुदमेव च ॥ २४० ॥
मण्डलाग्रेण तीक्ष्णेन मूले छिन्द्याद्भिषक् शनैः ।
सिन्धूत्थपिप्पलीकुष्टपर्णिनीत्रिफलारसैः ॥ २४१ ॥
सुरामण्डेन वर्तिः स्याच्छ्लेष्माभिष्यन्दनाशिनी ।
पोथकीवर्त्मोपरोधक्रिमिग्रन्थिकतूणके ॥ २४२ ॥