Adhikāra 64

अरिष्टान्वधनं मन्त्रं प्रयोगश्च विषापहः ।
दंशनं दंशकस्याहेः फलस्य मृदुनोऽपि वा ॥ १ ॥
मूलं तण्डुलवारिणा पिबति यः
प्रत्यङ्गिरासम्भवं
निष्पिष्टं शुचि भद्रयोगदिवसे
तस्याहिभीतिः कुतः ।
दर्पादेव फणी यदा दशति तं
मोहान्वितो मूलपं
स्थाने तत्र स एव याति नियतं
वक्त्रं यमस्याचिरात् ॥ २ ॥
279-b
मसूरं निम्बपत्राभ्यां खादेन्मेषगते रवौ ।
अब्दमेकं न भीतिः स्याद्विषात्तस्य न संशयः ॥ ३ ॥
धवलपुनर्नवजटया तण्डुलजलपीतया च पुष्यर्क्षे ।
अपहरति विषधरविषोपद्रवमावत्सरं पुंसाम् ॥ ४ ॥
गृहधूमो हरिद्रे द्वे समूलं तण्डुलीयकम् ।
अपि वासकिनादष्टः पिबेद्दधि घृताप्लुतम् ।
कूलिकामूलनस्येन कालदष्टोऽपि जीवति ॥ ५ ॥
श्लेष्मणः कर्णगूथस्य वामानामिकया कृतः ।
लेपो हन्याद्विपं घोरं नृमूत्रासेचनं तथा ॥ ६ ॥
शिरीषपुष्पस्वरसे भावितं श्वेतसर्षपम् ।
सप्ताहं सर्पदष्टानां नस्यपानाञ्जने हितम् ॥ ७ ॥
द्विपलं नतकुष्टाभ्यां घृतक्षौद्रं चतुःपलम् ।
अपि तक्षकदष्टानां पानमेतत्सुखप्रदम् ॥ ८ ॥
वन्ध्यकर्कोटजं मूलं छागमूत्रेण भावितम् ।
नस्यं काञ्जिकसंयुक्तं विषोपहतचेतसः ॥ ९ ॥
280-a
त्रिवृद्विशालामधुकं हरिद्रे
मञ्जिष्ठवर्गो लवणं च सर्वम् ।
कटुत्रिकं चैव विचूर्णितानि
शृङ्गे निदध्यान्मधुना युतानि ॥ १० ॥
एषोऽगदो हन्त्युपयुज्यमानः
पानाञ्जनाभ्यञ्जननस्ययोगः ।
अवार्यवीर्यो विषवेगहन्ता
महागदो नाम महाप्रभावः ॥ ११ ॥
पीते विषे स्याद्वमनं च त्वक्स्थे
प्रदेहसेकादि सुशीतलं च ॥ १२ ॥
कपित्थमांसं ससिताक्षौद्रं कण्ठगते विषे ।
लिह्यादामाशयगते ताभ्यां चूर्णपलं नतात् ॥ १३ ॥
विषे पक्वाशयगते पिप्पलीरजनीद्वयम् ।
मञ्जिष्ठां च समं पिष्ट्वा गोपित्तेन नरः पिबेत् ॥ १४ ॥
रजनीसैन्धवक्षौद्रसंयुक्तं घृतमुत्तमम् ।
पानं मूलविषार्तस्य दिग्धविद्धस्य चेष्यते ॥ १५ ॥
सितामधुयुतं चूर्णं ताम्रस्य कनकस्य वा ।
लेहः प्रशमयत्युग्रं सर्वसंयोगजं विषम् ॥ १६ ॥
अङ्कोटमूलनिःक्वाथं फाणितं सघृतं लिहेत् ।
तैलाक्तः स्विन्नसर्वाङ्गो गरदोषविषापहः ॥ १७ ॥
कटभ्यर्जुनशैरीयशेलुक्षीरिद्रुमत्वचः ।
कषायचूर्णकल्काः स्युः कीटलूताब्रणापहाः ॥ १८ ॥
अगारधूममञ्जिष्ठारजनीलवणोत्तमैः ।
लेपो जयत्याखुविषं कर्णिकायाश्च पानतः ॥ १९ ॥
280-b
यः कासमर्दनपत्रं वदने प्रक्षिप्य कर्णे फूत्कारम् ।
मनुजो ददाति शीघ्रं जयति विषं वृश्चिकानां सः ॥ २० ॥
दंशेभ्रमेणविधिना वृश्चिकविषहृत्कुचैरपदगुडिका ।
पुरधूपपूर्वमर्कच्छदमिव पिष्ट्वा कृतोलेपः ॥ २१ ॥
जीरकस्य कृतः कल्को घृतसैन्धवसंयुतः ।
सुखोणो वृश्चिकार्तानां सुलेषो वेदनापहः ॥ २२ ॥
अमलाघर्षणं दंशे कण्टकं च तदुद्धरेत् ।
करणे विषजे लेपात्फणिज्जकरसोऽथवा ॥ २३ ॥
कुङ्कुमकुनटीकर्कटहरितालैः कुसुम्भसंमिलितैः ।
कृतगुडिकाभ्रामणतो विदष्टगोधासरटविषजित् ॥ २४ ॥
अङ्कोटपत्रधूमो मीनविषं झटिति विघटयेच्छृङ्गी ।
गोधावरटीविषमिवालेपेन कुटजकपालिजटा ॥ २५ ॥
कनकोदुंबरफलमिव तंडुलजलपिष्ठंपीतमपहरति ।
कनकदलद्रवघृतगुडदुग्धपलैकं शुनां गरलम् ॥ २६ ॥
लेप इव भेकगरलं शिरीषबीजैः स्नुहीपयःसिक्तैः
हरति गरलं त्र्यहमशिताङ्कोटजटाकुष्ठसम्मिलिता ॥ २७ ॥
मरिचमहौषधबालकनागाह्वैर्मक्षिकाविषे लेपः ।
लालाविषमपनयतोमूलेमिलितेपटोलनीलिकयोः ॥ २८ ॥
281-a
सोमवल्कोऽश्वकर्णश्च गोजिह्वा हंसपाद्यपि ।
रजन्यौ गैरिकं लेपो नखदन्तविषापहः ॥ २९ ॥
वचा हिङ्गु विडङ्गानि सैन्धवं गजपिप्पली ।
पाठाप्रतिविषा व्योषं काश्यपेन विनिर्मितम् ॥ ३० ॥
दशाङ्गमगदं पीत्वा सर्वकीटविषं जयेत् ।
कीटदष्टक्रियाः सर्वाः समानाः स्युर्जलौकसाम् ॥ ३१ ॥
पृक्काप्लवस्थौणेय-
काक्षी शैलेयरोचनातगरम् ।
ध्यामकं कुङ्कुमं मांसी
सुरसाग्रैलालकुष्ठघ्नम् ॥ ३२ ॥
बृहतीशिरीषपुष्प-
श्रीवेष्टकपद्मचारटिविशालाः ।
सुरदारुपद्मकेशर-
शारवकमनःशिलाकौन्त्यः ॥ ३३ ॥
जात्यर्कपुष्पसर्षप-
रजनीद्वयहिङ्गुपिप्पलीद्राक्षाः ।
जलमुद्गपर्णीमधुक-
मदनकमथसिन्धुवाराश्च ॥ ३४ ॥
सम्पाकलोध्रमयूरकगन्धफलीलाङ्गलीविडङ्गाः ।
पुष्ये समुद्धृत्य समं पिष्टा गुडिका विधेया स्युः
सर्वविषघ्नो जयकृ-
द्विषमृतसञ्जीवनो ज्वरनिहन्ता ॥ ३५ ॥
281-b
पेयविलेपनधारण-
धूमग्रहणैर्गृहस्थश्च ॥ ३६ ॥
भूतविषजन्त्वलक्ष्मी
कार्मणमन्त्राग्न्यशन्यरीन्हन्यात् ।
दुःस्वप्नस्त्रीदोषा-
नकालमरणाम्बुचौरभयम् ॥ ३७ ॥
धनधान्यकार्यसिद्धि-
श्रीपुष्टिवर्णायुर्वर्धनो धन्यः ।
मृतसञ्जीवन एव
प्रागमृताद्ब्रह्मणाभिहितः ॥ ३८ ॥