Adhikāra 65

यज्जराव्याधिविध्वंसि भेषजं तद्रसायनम् ।
282-a
पूर्वे वयसि मध्ये वा शुद्धदेहः समाचरेत् ॥ १ ॥
नाविशुद्धशरीरस्य युक्तो रसायनो विधिः ।
नाभाति वाससि म्लिष्टे रङ्गयोग इवार्पितः ॥ २ ॥
गुडेन मधुना शुण्ठ्या कृष्णया लवणेन वा ।
द्वे द्वे खादन्सदा पथ्ये जीवेद्वर्षशतं सुखी ॥ ३ ॥
सिन्धूत्थशर्कराशुण्ठीकणामधुगुडः क्रमात् ।
वर्षादिष्वभया सेव्या रसायनगुणैषिणा ॥ ४ ॥
त्रैफलेनायसीं पत्रीं कल्केनालेपयेन्नवाम् ।
तमहोरात्रिकं लेपं पिबेत्क्षौद्रोदकाप्लुतम् ॥ ५ ॥
प्रभूतस्नेहमशनं जीर्णे तस्मिन्प्रयोजयेत् ।
अजरोऽरुकसाभ्यासाज्जीवेच्चापि समाः शतम् ॥ ६ ॥
पञ्चाष्टौ सप्तदश वा पिप्पलीः क्षौद्रसर्पिषा ।
रसायनगुणान्वेषी समामेकां प्रयोजयेत् ॥ ७ ॥
तिस्रस्तिस्रस्तु पूर्वाह्णे भुक्त्वाग्रे भोजनस्य च ।
पिप्पल्यः किंशुकक्षारभाविता घृतभर्जिताः ॥ ८ ॥
प्रयोज्या मधुसंमिश्रा रसायनगुणैषिणा ।
जेतुं कासं क्षयं श्वासं शोषं हिक्कां गलामयम् ॥ ९ ॥
अर्शांसि ग्रहणीदोषं पाण्डुतां विषमज्वरम् ।
वैस्वर्यं पीनसं शोषं गुल्मं वातवलासकम् ॥ १० ॥
जरणान्तेऽभयामेकां प्राग्भक्ते द्वे बिभीतके ।
भुक्त्वा तु मधुसर्पिर्भ्यां चत्वार्यामलकानि च ॥ ११ ॥
282-b
प्रयोजयेत्समामेकां त्रिफलाया रसायनम् ।
जीवेद्वर्षशतं पूर्णमजरोऽव्याधिरेव च ॥ १२ ॥
मण्डूकपर्ण्याः स्वरसः प्रयोज्यः
क्षीरेण यष्टीमधुकस्य चूर्णम् ।
रसो गुडूच्यास्तु समूलपूष्प्याः
कल्कः प्रयोज्यः खलु शङ्खपुष्प्याः ॥ १३ ॥
आयुःप्रदान्यामयनाशकानि
बलाग्निवर्णस्वरवर्धनानि ।
मेध्यानि चैतानि रसायनानि
मेध्या विशेषेण तु शङ्खपुष्पी ॥ १४ ॥
पीताश्वगन्धा पयसार्धमासं
घृतेन तैलेन सुखाम्बुना वा ।
कृशस्य पुष्टिं वपुषो विधत्ते
बालस्य शस्यस्य यथाम्बुवृष्टिः ॥ १५ ॥
धात्रीतिलान्भृङ्गरजोविमिश्रान्
ये भक्षयेयुर्मनुजाः क्रमेण ।
ते कृष्णकेशा विमलेन्द्रियाश्च
निर्व्याधयो वर्षशतं भवेयुः ॥ १६ ॥
283-a
वृद्धदारकमूलानि श्लक्ष्णचूर्णानि कारयेत् ।
शतावर्या रसेनैव सप्तरात्राणि भावयेत् ॥ १७ ॥
अक्षमात्रं तु तचूर्णं सर्पिषा सह भोजयेत् ।
मासमात्रोपयोगेन मतिमाञ्जायते नरः ॥ १८ ॥
मेधावी स्मृतिमांश्चैव वलीपलितवर्जितः ।
हस्तिकर्णरजः खादेत्प्रातरुत्थाय सर्पिषा ॥ १९ ॥
यथेष्टाहाराचारोऽपि सहस्रायुर्भवेन्नरः ।
मेधावी बलवान्कामी स्त्रीशतानि व्रजत्यसौ ॥ २० ॥
मधुना त्वश्ववेगः स्याद्वलिष्ठः स्त्रीसहस्रगः ।
मन्त्रश्चायं प्रयोक्तव्यो भिषजा चाभिमन्त्रणे ॥ २१ ॥
“ओं नमो महाविनायकाय अमृतं रक्ष रक्ष मम
फलसिद्धिं देहि रुद्रवचनेन स्वाहा” ॥ २२ ॥
धात्रीचूर्णस्य कर्षं स्वरसपरिगतं
क्षौद्रसर्पिःसमांशं
कृष्णामानीसिताष्टप्रसृतयुतमिदं
स्थापितं भस्मराशौ ।
वर्षान्ते तत्समश्नन्भवति विपलितो
रूपवर्णप्रभावै-
र्निर्व्याधिर्बुद्धिमेधा स्मृतिबलवचन-
स्थैर्यसत्वैरुपेतः ॥ २३ ॥
283-b
गुडूच्यपामार्गविडङ्गशङ्खिनी-
वचाभयाकुष्ठशतावरीसमा ।
घृतेन लीढा प्रकरोति मानवं
त्रिभिर्दिनैः श्लोकसहस्रधारिणम् ॥ २४ ॥
समूलपत्रमादाय ब्रह्मीं प्रक्षाल्य वारिणा ।
उदूखले क्षोदयित्वा रसं वस्त्रेण गालयेत् ॥ २५ ॥
रसे चतुर्गुणे तस्मिन्घृतप्रस्थं विपाचयेत् ।
औषधानि तु पेष्याणि तानीमानि प्रदापयेत् ॥ २६ ॥
हरिद्रा मालती कुष्टं त्रिवृता सहरीतकी ।
एतेषां पलिकान्भागाञ्शेषाणि कार्षिकाणि तु ॥ २७ ॥
पिप्पल्योऽथ विडङ्गानि सैन्धवं शर्करा वचा ।
सर्वमेतत्समालोड्य शनैर्मृद्वग्निना पचेत् ॥ २८ ॥
एतत्प्राशितमात्रेण वाग्विशुद्धिश्च जायते ।
सप्तरात्रप्रयोगेण किन्नरैः सह गीयते ॥ २९ ॥
अर्धमासप्रयोगेण सोमराजीवपुर्भवेत् ।
मासमात्रप्रयोगेण श्रुतमात्रंतु धारयेत् ॥ ३० ॥
हन्त्यष्टादश कुष्ठानि अर्शांसि विविधानि च ।
पञ्च गुल्मान् प्रमेहांश्च कासं पञ्चविधं जयेत् ॥ ३१ ॥
वन्ध्यानां चैव नारीणां नराणां चाल्परेतसाम् ।
घृतं सारस्वतं नाम बलवर्णाग्निवर्धनम् ॥ ३२ ॥
284-a
कासश्वासातिसारज्वरपिडककटी-
कुष्ठकोठप्रकारान्
मूत्राघातोदरार्शःश्वयथुगलशिरः
कर्णशूलाक्षिरोगान् ।
ये चान्ये वातपित्तक्षतजकफकृता
व्याधयः सन्ति जन्तो-
स्तांस्तानभ्यासयोगादपनयति पयः
पीतमन्ते निशायाः ॥ ३३ ॥
व्यङ्गवलीपलितघ्नं पीनसवैस्वर्यकासशोथघ्नम् ।
रजनीक्षयेऽम्बुनस्यं रसायनं दृष्टिजनन च ॥ ३४ ॥
नागार्जुनो मुनीन्द्रः
शशास यल्लोहशास्त्रमतिगहनम् ।
तस्यार्थस्य स्मृतये
वयमेतद्विशदाक्षरैर्ब्रूमः ॥ ३५ ॥
मेने मुनिः स्वतन्त्रे
भूयः पाकं न पलपञ्चकादर्वाक् ।
सुबहुप्रयोगदोषा-
दूर्ध्वं न पलत्रयोदशकात् ॥ ३६ ॥
तत्रायसि पाचनीये
पञ्चपलादौ त्रयोदशपलकान्ते ।
284-b
लौहाद्द्विगुणा त्रिफला
ग्राह्या षड्भिः पलैरधिका ॥ ३७ ॥
मारणपुटनस्थाली-
पाकाः स्त्रिफलैकभागसम्पाद्यः ।
त्रिफलाया भागद्वितयं
ग्रहणीयं लौहपाकार्थम् ॥ ३८ ॥
सर्वत्रायस्तुटनाद्यर्थैकांशे शरावसंख्यातम् ।
प्रतिपलमेव त्रिगुणं पाथः क्वाथार्थमादेयम् ॥ ३९ ॥
सप्तपलादौ भागे पञ्चदशान्तेऽम्भमां शरावैश्च ।
द्व्याद्यैकादशकान्तैरधिकं तद्वारि कर्तव्यम् ॥ ४० ॥
तत्राष्टमो विभागः शेषः क्वाथस्य यत्नतः स्थाप्यः ।
तेन हि मारणपुटनस्थालीपाका भविष्यन्ति ॥ ४१ ॥
पाकार्थे तु त्रिफला
भागद्वितये शरावसंख्यातम् ।
प्रतिपलमम्बुसमं स्या-
दधिकं द्वाभ्यां शरावाभ्याम् ॥ ४२ ॥
तत्र चतुर्थो भागः
शेषो निपुणेन यत्नतो ग्राह्यः ।
अयसः पाकार्थत्वा-
त्स च सर्वस्मात्प्रधानतमः ॥ ४३ ॥
285-a
पाकार्थमश्मसारे पञ्चपलादौ त्रयोदशपलान्ते ।
दुग्धशरावद्वितयं पादैरेकादिकैरधिकम् ॥ ४४ ॥
पञ्चपलादिकमात्रा तदभावे तदनुसारतो ग्राह्यम् ।
चतुरादिकमेकान्तं शक्तावधिकं त्रयोदशकात् ॥ ४५ ॥
त्रिफलात्रिकटुकचित्रक-
कान्तक्रामकविडङ्गचूर्णानि ।
अन्यान्यपि देयानि
पलाशवृक्षस्य च बीजानि ॥ ४६ ॥
जातीफलजातीकोषैलाकक्कोलकलवङ्गानाम् ।
सितकृष्णजीरकयोरपि चूर्णान्ययसः समानि स्युः
त्रिफलात्रिकटुविडङ्गा नियता अन्ये यथाप्रकृति ॥ ४७ ॥
कालायसदोषहृतेर्जातीफलादेर्लवङ्गान्तस्य ।
क्षेपः प्राप्त्यनुरूपः सर्वस्योनस्य चैकाद्यैः ॥ ४८ ॥
कान्तक्रामकमेकं निःशेषं दोषमपहरत्ययसः ।
द्विगुणत्रिगुणचतुर्गुणमाज्यं ग्राह्यं यथाप्रकृति ॥ ४९ ॥
यदि भेषजभूयस्त्वं स्तोकत्वं वापि चूर्णानाम् ।
अयसा साम्यं संख्या भूयोऽल्पत्वेन भूयोऽल्पा ॥ ५० ॥
एवं धात्वनुसारात्तत्तत्कथितौषधस्य बाधेन ।
सर्वत्रैव विधेयस्तत्तदकथितस्यौषधस्योहः ॥ ५१ ॥
285-b
१०कान्तादिलौहमारण-
विधानसर्वस्वमुच्यते तावत् ।
यस्य कृते तल्लौहं
पक्तव्यं तस्य शुभे दिवसे ॥ ५२ ॥
समृदङ्गारकवालित
नतभूभागे शिवं समभ्यर्च्य ।
वैदिकविधिना वह्निं
निधाय हुत्वाहुतीस्तत्र ॥ ५३ ॥
धर्मात्सिध्यति सर्वं
श्रेयस्तद्धर्मसिद्धये किमपि ।
शक्त्यनुरूपं दद्या-
द्द्विजाय सन्तोषिणे गुणिने ॥ ५४ ॥
सन्तोष्य कर्मकारं
प्रसादपूगादिदानसम्मानैः ।
आदौ तदश्मसारं
निर्मलमेकान्ततः कुर्यात् ॥ ५५ ॥
तदनु कुठारच्छिन्न-
त्रिफलागिरिकर्णिकास्थिसंहारैः ।
करिकर्णच्छदमूलक-
शतावरीकेशराजाख्यैः ॥ ५६ ॥
शालिं च मूलककशी-
मूलप्रावृज्जभृङ्गराजैश्च ।
लिप्त्वा दग्धव्यं तद्
दुष्टक्रियलोहकारेण ॥ ५७ ॥
चिरजलभावितनिर्मल-
शालाङ्गारेण परित आच्छाद्य ।
कुशलाध्मापितभस्त्रा
नवरतमुक्तेन पवनेन ॥ ५८ ॥
वह्नेर्बाह्यज्वाला
बोद्धव्या जातु नैव कुञ्चिकया ।
मृल्लवणसलिलभाजा
किन्तु स्वच्छाम्बु संप्लुतया ॥ ५९ ॥
286-a
द्रव्यान्तरसंयोगा-
त्स्वां शक्तिं भेषजानि मुञ्चन्ति ।
मलधूलीमत्सर्वं
सर्वत्र विवर्जयेत्तस्मात् ॥ ६० ॥
सन्दंशेन गृहीत्वान्तः-
प्रज्वालिताग्निमध्यपमुनीय ।
गलति यथायथमग्रे
तथैव मृदु वर्धयेन्निपुणः ॥ ६१ ॥
तलनिहितोर्ध्वमुखा-
ङ्कुशलग्नं त्रिफलाजले ।
विनिक्षिप्य निर्वापये-
च्छेषं त्रिफलाम्बु रक्षेच्च ॥ ६२ ॥
यल्लौहं न मृतं त-
त्पुनरपि पक्तव्यमुक्तमार्गेण ।
यन्न मृतं तथापि
तत्त्यक्तव्यमलौहमेव ततः ॥ ६३ ॥
तदनु घनलौहपात्रे
कालायसो मुद्गरेण संचूर्ण्य ।
दत्त्वा बहुशः सलिलं
प्रक्षाल्याङ्गारमुद्धृत्य ॥ ६४ ॥
तदयः केवलमग्नौ
शुष्कीकृत्याथवातपे पश्चात् ।
लौहशिलायां पिंष्या-
दसितेऽश्मनि वा तदप्राप्तौ ॥ ६५ ॥
286-b
११अथ कृत्वायोभाण्डे
दत्त्वा त्रिफलाम्बुशेषमन्यद्वा ।
प्रथमं स्थालीपाकं
दद्याद्द्रवक्षयात्तदनु ॥ ६६ ॥
गजकर्णपत्रमूल-
शतावरीभृङ्गकेशराजरसैः ।
प्राग्वत्स्थालीपाकं
कुर्यात्प्रत्येकमेकैकं वा ॥ ६७ ॥
१२हस्तप्रमाणवदनं
श्वभ्रं हस्तैकखातसममध्यम् ।
कृत्वा कटाहसदृशं
तत्र करीषं तुषं च काष्ठं च ॥ ६८ ॥
287-a
अन्तर्घनतरमध्यं
शुषिरं परिपूर्य दहनमायोज्य ।
पश्चादयसश्चूर्णं
श्लक्ष्णं पङ्कोपमं कुर्यात् ॥ ६९ ॥
त्रिफलाम्बु भृङ्गकेशर-
शतावरीकन्दमाणसहजरसैः ।
भल्लातककरिकर्ण-
च्छदमूलपुनर्नवास्वरसैः ॥ ७० ॥
क्षिप्त्वाथ लोहपात्रे
मार्दे वा लौहमार्दपात्राभ्याम् ।
तुल्याभ्यां पृष्ठेना
च्छाद्यान्तेरन्ध्रमालिप्य ॥ ७१ ॥
तत्पुटपात्रम् तत्र
श्वभ्रज्वलने निधाय भूयोपिः ।
काष्ठकरीषतुषैस्त-
त्संच्छाद्याहर्निशं दहेत्प्राज्ञः ॥ ७२ ॥
एवं नवभिर्भेषज-
राजैस्तु पचेत्सदैवपुटपाकम् ।
प्रत्येकमेकमेभि-
र्मिलितैर्वा त्रिचतुरान्वारान् ॥ ७३ ॥
प्रतिपुटनं तत्पिंष्यात्
स्थालीपाकं विधाय तथैव ।
तादृशदिनं पिंष्यात्
द्विगलद्रजसा तु युज्यते यत्र ॥ ७४ ॥
तदयश्चूर्णं पिष्टं
घृष्टं घनसूक्ष्मवाससि श्लक्ष्णम् ।
यदि रजसा सदृशं स्यात्
केतक्यास्तर्हि तद्भद्रम् ॥ ७५ ॥
पुटने स्थालीपाके
धिकृतपुरुषे स्वभावरुगधिगमात् ।
कथितमपि हेयमौषध-
मुचितमुपादेयमन्यदपि ॥ ७६ ॥
287-b
१३अभ्यस्तकर्मविधिभि-
र्वालकुशाग्रीयबुद्धिभिर्लक्ष्यम् ।
लोहस्य पाकमधुना
नागार्जुनशिष्टमधिदध्नः ॥ ७७ ॥
लोहारकूटताम्रज-
कटाहे दृढमृण्मये प्रणम्य शिवम् ।
तदयः पचेदचपलः
काष्ठेन्धनेन वह्निना मृदुना ॥ ७८ ॥
निक्षिप्य त्रिफलाजल-
मुदितं यत्तद्घृतं च दुग्धं च ।
संचाल्य लौहमय्या
दर्व्या लग्नं समुत्पाट्य ॥ ७९ ॥
मृदुमध्यखरभावैः
पाकस्त्रिविधोऽत्र वक्ष्यते पुंसाम् ।
पित्तसमीरणश्लेष्म-
प्रकृतीनां मध्यमस्य समः ॥ ८० ॥
अभ्यक्तदर्विलोहं
सुखदुःखस्खलनयोगिमृदुमध्यम् ।
उज्झिंतदर्विखरं परि-
भाषन्ते केचिदाचार्याः ॥ ८१ ॥
288-a
अन्ये विहीनदार्वी-
प्रलेपमाखूत्कराकृतिं ब्रुवते ।
मृदुमध्यमर्धचूर्णं
सिकतापुञ्जोपमं तु खरम् ॥ ८२ ॥
त्रिविधोऽपि पाक ईदृक्
सर्वेषां गुणकृदेव न तु विफलः ।
प्रकृतिविषये च सूक्ष्मो
गुणदोषौ जनयतीत्यल्पम् ॥ ८३ ॥
विज्ञाय पाकमेवं
द्रागवतार्य क्षितौ क्षणान्कियतः ।
विश्राम्य तत्र लोहे
त्रिफलादेः प्रक्षिपेच्चूर्णम् ॥ ८४ ॥
यदि कर्पूरप्राप्ति-
र्भवति ततो विगलिते तदुष्णत्वे ।
चूर्णीकृतमनुरूपं
क्षिपेन्न वा न यदि तल्लाभः ॥ ८५ ॥
पक्वं तदश्मसारं
सुचिरघृतस्थित्यभाविरुक्षत्वे ।
गोदोहनादिभाण्डे
लौहभाण्डाभावे सति स्थाप्यम् ॥ ८६ ॥
यदि तु परिप्लुतिहेतो-
र्घृतमीक्षेताधिकं ततोऽन्यस्मिन् ।
भाण्डे निधाय रक्षे-
द्भाव्युपयोगो ह्यनेन महान् ॥ ८७ ॥
अयसि विरुक्षीभूते
स्नेहस्त्रिफलाघृतेन सम्पाद्यः ।
एतत्ततो गुणोत्तर-
मित्यमुना स्नेहनीयं तत् ॥ ८८ ॥
अत्यन्तकफप्रकृते-
र्भक्षणमयसोऽमुनैव शंसन्ति ।
केवलमपीदमशितं
जनयत्ययसो गुणान्कियतः ॥ ८९ ॥
288-b
१४अथवा वक्तव्यविधिः
संस्कृतकृष्णाभ्रकचूर्णमादाय ।
लौहचतुर्थांशसम-
द्वित्रिचतुःपञ्चगुणभागम् ॥ ९० ॥
प्रक्षिप्यायः प्राग्वत्
पचेदुभाभ्यां भवेदयो यावत् ।
तावन्मानानुस्मृतेः
स्यात्रिफलादिद्रव्यपरिमाणम् ॥ ९१ ॥
289-a
इदमाप्यायिकमिदमति-
पित्तनुदिदमेव कान्तिबलजननम् ।
स्तभ्नाति तृट्क्षुधौ तत्
परममधिकमात्रया युक्तम् ॥ ९२ ॥
१५कृष्णाभ्रकमेकवपु-
र्वज्राख्यं चैकपत्रकं कृत्वा ।
काष्ठमयोदूखलके
चूर्णं मुसलेन कुर्वीत ॥ ९३ ॥
भूयो दृषदि च पिष्टं
वासः सूक्ष्मावकाशतलगलितम् ।
मण्डूकपर्णिकायाः
प्रचुररसे स्थापयेत्त्रिदिनम् ॥ ९४ ॥
उद्धृत्य तद्रसादथ
पिंष्याद्धैमन्तधान्यभक्तस्य ।
अक्षोदात्यन्ताम्ल-
स्वच्छजलेन प्रयत्नेन ॥ ९५ ॥
मण्डूकपर्णिकायाः
पूर्वं स्वरसेनालोडनं कुर्यात् ।
स्थालीपाकं पुटनं
चाद्यैरपि भृङ्गराजाद्यैः ॥ ९६ ॥
ताडादिपत्रमध्ये
कृत्वा पिण्डं निधाय भस्त्राग्नौ ।
तावद्दहेन्न याव-
ल्लीनोऽनिर्दृश्यते सुचिरम् ॥ ९७ ॥
निर्वापयेच्च दुग्धे
दुग्धं प्रक्षाल्य वारिणा तदनु ।
पिष्ट्वा घृष्ट्वा वस्त्रे
चूर्णं निश्चन्द्रिकं कुर्यात् ॥ ९८ ॥
289-b
१६नानाविधरुक्शान्त्यै
पुष्ट्यै कान्त्यै शिवं समभ्यर्च्य ।
सुविशुद्धेऽहनि पुण्ये
तदमृतमादाय लौहाख्यम् ॥ ९९ ॥
दशकृष्णलपरिमाणं
शक्तिवयोभेदमाकलय्य पुनः ।
इदमधिकं तदधिकतर-
मियदेव न मातृमोदकवत् ॥ १०० ॥
सममसृणामलपात्रे
लौहे लौहेन मर्दयेद्दृढं भूयः ।
दत्वा मध्वनुरूपं
तदनु घृतं योजयेदधिकम् ॥ १०१ ॥
बन्धं गृह्णाति यथा
मध्वपृथक्त्वेन पङ्कमविशिंषेत् ।
इदमिह दुष्टोपकरण-
मेतद् दृष्टं तु मन्त्रेण ॥ १०२ ॥
स्वाहान्तेन विमर्दो
भवति फडन्तेन लोहवलरक्षा ।
सनमस्कारेण वलि-
र्भक्षणमयसो हूमन्तेन ॥ १०३ ॥
“ओं अमृतोद्भवाय स्वाहा ।
ओं अमृते ह्रीम् फट्
ओं नमश्चण्डवज्रपाणये ।
महायक्षसेनाधिपतये
290-a
सुरगुरुविद्यामहाबलाय स्वाहा ।
ओं अमृते ह्रीम् ॥ १०४ ॥”
१७जग्ध्वा तदमृतसारं
नीरं वा क्षीरमेवानु पिबेत् ।
कान्तक्रामकममलं
संचार्य रसं पिबेन्न तु तत् ॥ १०५ ॥
आचम्य च ताम्बूलं
लाभे घनसारसहितमुपयोज्यम् ।
नात्युपविष्टो नाप्यति-
भाषी नातिस्थितस्तिष्ठेत् ॥ १०६ ॥
अत्यन्तवातशीता-
तपयानस्नानवेगरोधादीन् ।
जह्याच्च दिवानिद्रा
सहितं चाकालभुक्तं च ॥ १०७ ॥
वातकृतः पित्तकृतः
सर्वान् कट्वम्लतिक्तककषायान् ।
तत्क्षणविनाशहेतून्
मैथुनकोपश्रमान्दूरे ॥ १०८ ॥
अशितं तदयः पश्चा-
त्पततु न वा पाटवं छद्म प्रथताम् ।
अर्तिर्भवति न वान्त्रं
कूजति भोक्तव्यमव्याजम् ॥ १०९ ॥
290-b
१८प्रथमं पीत्वा दुग्धं
शाल्यन्नं विशदसिद्धमक्लिन्नम् ।
घृतसंप्लुतमश्नीयात्
मांसैर्वैहङ्गमैः प्रायः ॥ ११० ॥
उत्तममूषरभूचर-
विष्किरमांसं तथाजमैणादिम् ।
अन्यदपि जलचराणां
पृथुरोमापेक्षया ज्यायः ॥ १११ ॥
मांसालाभे मत्स्या
अदोषलाः स्थूलसद्गुणा ग्राह्याः ।
मद्गुररोहितशकुला
दग्धाः पललान्मनागूनाः ॥ ११२ ॥
शृङ्गाटकफलकशेरु-
कदलीफलतालनारिकेलादि ।
अन्यदपि यच्च वृष्यं
मधुरं पनसादिकं ज्यायः ॥ ११३ ॥
केबुकताडकरीरान्
वार्ताकुपटोलफलदलसमठान् ।
मुद्गमसूरेक्षुरसान्
शंसन्ति निरामिषेष्वेतान् ॥ ११४ ॥
शाकं प्रहेयमखिलं
स्तोकं रुचये तु वास्तुकं दद्यात् ।
विहितनिषिद्धादन्य-
न्मध्यमकोटिस्थितं विद्यात् ॥ ११५ ॥
291-a
तप्तदुग्धानुपानं
प्रायः सारयति बद्धकोष्ठस्य ।
अनुपीतमम्बु यद्वा
कोमलफलनारिकेरस्य ॥ ११६ ॥
१९यस्य न तथा सरति
स यवक्षारं जलं पिबेत्कोष्णम् ।
कोष्णं त्रिफलाक्वाथस-
नाथं क्षारं ततोऽप्यधिकम् ॥ ११७ ॥
त्रीणि दिनानि समं स्या-
दह्नि चतुर्थे तु वर्धयेत् क्रमशः ।
यावच्चाष्टममासं
न वर्धयेत् पुनरितोऽप्यधिकम् ॥ ११८ ॥
आदौ रक्तिद्वितयं
द्वितीयवृद्धौ तु रक्तिकात्रितयम् ।
रक्तिपञ्चकपञ्चक-
मतऊर्ध्वं वर्धयेन्नियतम् ॥ ११९ ॥
वात्सरिककल्पपक्षे
दिनानिं यावन्ति वर्धितं प्रथमम् ।
291-b
तावन्ति वर्षशेषे
प्रतिलोमं ह्रासयेत्तदयः ॥ १२० ॥
तेष्वष्टमासकेषु प्रातर्माषत्रयंसमश्नीयात् ।
सायं च तावदह्नो मध्ये मासद्वयं शेषम् ॥ १२१ ॥
एवं तदमृतमश्नन्
कान्तिं लभते चिरस्थिरं देहम् ।
सप्ताहत्रयमात्रात्-
सर्वरुजो हन्ति किं बहुना ॥ १२२ ॥
आर्याभिरिह नवत्या
सप्तविधीनां यथावदाख्यातम् ।
अमतिविपर्ययसंशय-
शून्यमनुष्ठानमुपनीतम् ॥ १२३ ॥
मुनिरचितशास्त्रपारं
गत्वा सारं ततः समुद्धृत्य ।
निबबन्ध वान्धवाना-
मुपकृतये कोऽपि षट्कर्मा ॥ १२४ ॥
२०यत्र तत्रोद्भवं लौहं निःशेषं मारितं यदि ।
त्रिफलाव्योषसंयुक्तं भक्षयेद्वलिनाशनम् ॥ १२५ ॥
292-a
सामान्याद्द्विगुणं चौड्रं कलिङ्गोऽष्टगुणस्ततः ।
तस्माच्छतगुणं भद्रं भद्राद्वज्रं सहस्रधा ॥ १२६ ॥
वज्रात्षष्टिगुणः पाण्डिर्निरविर्दशभिर्गुणैः ।
ततः कोटिसहस्रं वा अयस्कान्तं महागुणम् ॥ १२७ ॥
रसतस्ताम्रं द्विगुणं
ताम्रात्कृष्णाभ्रकं द्विगुणम् ।
पृथगेवैषां शुद्धि-
स्ताम्रशुद्धिस्ततो द्विविधा ॥ १२८ ॥
२१पत्रीकृतस्य गन्धक-
योगाद्वा मारणं तथा लवणैः ।
आक्ते ध्मापितताम्रे
निर्गुण्डीकल्ककाञ्जिकनिमग्ने ॥ १२९ ॥
यत्पतति गैरिकाभं तत्पिष्टं चार्धगन्धकं तदनु ।
पुटपाकेन विशुद्धं शुद्धं स्यादभ्रकंतु पुनः ॥ १३० ॥
हिलमोचिमूलपिण्डे
क्षिप्तं तदनु मार्दसंपुटे लिप्ते ।
तीक्ष्णं दग्धं पिष्ट-
मम्लाम्भसा साधुचन्द्रिकारहितम् ॥ १३१ ॥
रेचितताम्रेण रसः
स्वल्पशिलायां घृष्य पिण्डिका कार्या ।
उत्स्वेद्य गृहसलिलेन
निर्गुण्डीकल्केऽसकृच्छुद्धौ ॥ १३२ ॥
एतत्सिद्धं त्रितयं
चूर्णितताम्रार्द्धिकैः पृथग्युक्तम् ।
पिप्पलिविडङ्गमरिचैः
श्लक्ष्णं द्वित्रिमासिकं भक्ष्यम् ॥ १३३ ॥
शूलाम्लपित्तश्वयथु-
ग्रहणीयक्ष्मादिकुक्षिरोगेषु ।
292-b
रसायनं महदेत-
त्परिहारो नियमतो नात्र ॥ १३४ ॥
२२तनु पत्रीकृतं ताम्रं नैपालं गन्धकं समम् ।
दत्त्वा चोर्ध्वमधो मध्ये स्थालिकामध्यसंस्थितम् ॥ १३५ ॥
कृत्वा स्वल्पविधानेन स्थालीमध्ये पिधाय च ।
शर्कराभक्तलेपेन लिप्त्वा सन्धिं तदूर्ध्वतः ॥ १३६ ॥
वालुकापूरितस्थाल्यां पिहितायां पुनस्तथा ।
सुलिप्तायां च यामैकमधोज्वालां प्रदापयेत् ॥ १३७ ॥
तत आकृष्टताम्रस्य मृतस्य त्विह योजना ।
अथ कर्षं गन्धकस्य वह्निस्थलोहपात्रगम् ॥ १३८ ॥
शिलापुत्रेण संमर्द्य द्रुतं घृष्टं पुनः पुनः ।
कृत्वा देयं मृतं ताम्रं कर्षमानं ततः पुनः ॥ १३९ ॥
रसोऽम्लमथितः शुद्धस्तावन्मात्रः प्रदीयते ।
ततस्तथैवं संमर्द्य पुनराज्यं प्रदापयेत् ॥ १४० ॥
अष्टबिन्दुकमात्रं च मर्दयेन्मूर्च्छितं तथा ।
सर्वं स्यात्तस्य आकृष्य शिलापुत्रादिकं दृढम् ॥ १४१ ॥
संहृत्यालम्बुषरसप्रसृतेन विलोडितम् ।
पुनस्तथैव वह्निस्थलौहपात्रे विमर्दयेत् ॥ १४२ ॥
यावद्द्रवक्षयं पश्चादाकृष्य संप्रपेषितम् ।
अलम्बुषरसेनैव गुडकं संप्रकल्पयेत् ॥ १४३ ॥
तत्पिण्डं वस्त्रविस्तीर्णं पिण्डे त्रिकटुजे पुनः ।
293-a
वसनान्तरिते दत्त्वा पोट्टलीं कारयेद्बुधः ॥ १४४ ॥
ततस्तां पोट्टलीमाज्यमग्नां कृत्वा विधारिताम् ।
सूत्रेण दण्डसंलग्नां पाचयेत्कुशलो भिषक् ॥ १४५ ॥
यदा निष्फेनता चाज्ये पुटिता च दृढा भवेत् ।
२३तदा पक्वं तमाकृष्य पञ्चगुञ्जातुलाघृतम् ॥ १४६ ॥
त्रिकटुत्रिफलाचूर्णं तुल्यं प्रातः प्रयोजयेत् ।
तक्रं स्यादनुपानं तु अम्लपित्तोच्छ्रये पुनः ॥ १४७ ॥
त्रिफलैव समादेया कोष्णं वारि पिबेदनु ।
सप्तमे दिवसे रक्तिवृद्धिस्ताम्रात्तु मासकम् ॥ १४८ ॥
यावत्प्रयोगश्च तथैवापकर्षः पुनर्भवेत् ।
योगोऽयं ग्रहणीयक्ष्मपित्तशूलाम्लपित्तहा ॥ १४९ ॥
रसायनं चैतदिष्टं गुदकीलादिनाशनम् ।
न चात्र परिहारोऽस्ति विहाराहारकर्मणि ॥ १५० ॥
293-b
२४हेमाद्याः सूर्यसन्तप्ताः स्रवन्ति गिरिधातवः
जत्वाभं मृदुमृत्स्नाच्छं यन्मलं तच्छिलाजतु ॥ १५१ ॥
अनम्लं चाकषायं च कटुपाकि शिलाजतु ।
नात्युष्णशीतं धातुभ्यश्चतुर्भ्यस्तस्य सम्भवः ॥ १५२ ॥
हेम्नोऽथ रजतात्ताम्राद्वरं कृष्णायसादपि ।
मधुरं च सतिक्तं च जवापुष्पनिभं च यत् ॥ १५३ ॥
विपाके कटु तिक्तं च तत्सुवर्णस्य निःस्रवम् ।
राजतं कटुकं श्वेतं स्वादु शीतं विपच्यते ॥ १५४ ॥
ताम्राद्वर्हिणकण्ठाभं तीक्ष्णोष्णं पच्यते कटु ।
यत्तु गुग्गुलुसङ्काशं तिक्तकं लवणान्वितम् ॥ १५५ ॥
विपाके कटु शीतं च सर्वश्रेष्ठं तदायसम् ।
गोमूत्रगन्धः सर्वेपां सर्वकर्मसु यौगिकः ॥ १५६ ॥
रसायनप्रयोगेषु पश्चिमं तु विशिष्यते ।
294-a
२५यथाक्रमं वातपित्ते श्लेष्मपित्ते कफे त्रिषु ॥ १५७ ॥
विशेषेण प्रशस्यन्ते मला हेमादिधातुजाः ।
लौहकिट्टायते वह्नौ विधूमं दह्यतेऽम्भसि ॥ १५८ ॥
तृणात्यग्रे कृतं सर्वमधो गलति तन्तुवत् ।
मलिनं यद्भवेत्तच्च क्षालयेत्केवलाम्भसा ॥ १५९ ॥
लौहपात्रेषु विधिना ऊर्ध्वभूतं च संहरेत् ।
वातपित्तकफघ्नैस्तु निर्यूहैस्तत्सुभावितम् ॥ १६० ॥
वीर्योत्कर्षं परं याति सर्वैरेकैकशोऽपि वा ।
प्रक्षिप्योद्धृतमावानं पुनस्तत्प्रक्षिपेद्रसे ॥ १६१ ॥
कोष्णे सप्ताहमेतेन विधिना तस्य भावना ।
तुल्यं गिरिजेन जले
चतुर्गुणे भावनौषधं क्वाथ्यम् ॥ १६२ ॥
ततः क्वाथे पादांशे
पूतोष्णे प्रक्षिपेद्गिरिजम् ।
तत्समरसतां यातं
संशुष्कं प्रक्षिपेद्रसे भूयः ॥ १६३ ॥
२६पूर्वोक्तेन विधानेन लौहैश्चूर्णीकृतैः सह ।
तत्पीतं पयसा दद्याद्दीर्घमायुः सुखान्वितम् ॥ १६४ ॥
जराव्याधिप्रशमनं देहदार्ढ्यकरं परम् ।
मेधास्मृतिकरं धन्यं क्षीराशी तत्प्रयोजयेत् ॥ १६५ ॥
प्रयोगः सप्त सप्ताहास्त्रयश्चैकश्च सप्तकः ।
निर्दिष्टस्त्रिविधस्तस्य पुरो मध्यो वरस्तथा ॥ १६६ ॥
294-b
मात्रा पलं त्वर्धपलं स्यात्कर्षं तु कनीयसी ।
शिलाजतुप्रयोगेषु विदाहीनि गुरूणि च ।
षर्जयेत्सर्वकालं च कुलत्थान्परिवर्जयेत् ॥ १६७ ॥
पयांसि शुक्तानि रसाः सयूषा-
स्तोयं समूत्रं विविधाः कषायाः ।
आलोडनार्थे गिरिजस्य शस्ता-
स्ते ते प्रयोज्याः प्रसमीक्ष्य कार्यम् ॥ १६८ ॥
२७चरकोक्तशिलाजतुनो
विधानं सोपस्करं ह्येतत् ।
काले तु रवितापाढ्ये
कृष्णायसजं शिलाजतु प्रवरम् ॥ १६९ ॥
त्रिफलारससंयुक्तं
त्र्यहश्च शुष्कं पुनः शुष्कम् ।
दशमूलस्य गुडूच्या
रसे बलायास्तथा पटोलस्य ॥ १७० ॥
मधुकरसैर्गोमूत्रे
त्र्यहं त्र्यहं भावयेत्क्रमशः ।
एकाहं क्षीरेण तु
तच्च पुनर्भावयेच्छुष्कम् ।
सप्ताहं भाव्यं स्या-
त्क्वाथेनैषां यथालाभम् ॥ १७१ ॥
काकोल्यौ द्वे मेदे
विदारियुग्मं शतावरी द्राक्षा ।
295-a
ऋद्धियुगर्षभवीरा
मुण्डितिकाजीरकेंऽशुमत्यौ च ॥ १७२ ॥
रास्नापुष्करचित्रक-
दन्तीभकणाकलिङ्गचव्याब्दाः ।
कटुकाशृङ्गीपाठा
एतानि पलांशिकानि कार्याणि ॥ १७३ ॥
अद्रोणे साधितानां
रसेन पादांशिकेन भाव्यानि ।
गिरिजस्यैवं भावित-
शुद्धस्य पलानि दश षट् च ॥ १७४ ॥
द्विपलं च विश्वधात्री
मागधिकायाश्च मरिचानाम् ।
चूर्णं पलं विदार्या-
स्तालीसपलानि चत्वारि ॥ १७५ ॥
पोडश सितापलानि
चत्वारि घृतस्य माक्षिकस्याष्टौ ।
तिलतैलस्य द्विपलं
चूर्णार्धपलानि पञ्चानाम् ॥ १७६ ॥
त्वक्क्षीरीपत्रत्वक्
नागैलानां च मिश्रयित्वा तु ।
गिरिजस्य षोडशपलै-
र्गुडिकाः कार्यास्ततोऽऽक्षसमाः ॥ १७७ ॥
ताःशुष्कानवकुम्भे जातीपुष्पाधिवासिते स्थाप्याः
तासामेका काले भक्ष्या पेयापि वा सततम् ॥ १७८ ॥
295-b
२८क्षीररसदाडिमरसाः
सुरासवं मधु च शिशिरतोयानि ।
आलोडनानि तासा-
मनुपाने वा प्रशस्यन्ते ॥ १७९ ॥
जीर्णे लध्वन्नपयो जाङ्गलिनिर्यूहयूषभोजी स्यात् ।
सप्ताहं यावदतः परं भवेत्सोपि सामान्यः ॥ १८० ॥
भुक्त्वापि भक्षितेयं
यदृच्छया नावहेद्भयं किञ्चित् ।
निरुपद्रवा प्रयुक्ता
सुकुमारैः कामिभिश्चैव ॥ १८१ ॥
संवत्सरप्रयुक्ता
हन्त्येषा वातशोणितं प्रबलम् ।
बहुवार्षिकमपि गाढं
यक्ष्माणं चाढ्यवातं च ॥ १८२ ॥
ज्वरयोनिशुक्रदोषप्लीहार्शःपाण्डुग्रहणीरोगान् ।
ब्रध्नवमिगुल्मपीनसहिक्काकासारुचिश्वासान् ॥ १८३ ॥
जठरं श्वित्रं कुष्ठं पाण्ड्यं क्लैब्यं मदं क्षयं शोषम् ।
उन्मादापस्मारौ वदनाक्षिशिरोगदान्सर्वान् ॥ १८४ ॥
आनाहमतीसारं
सासृग्दरं कामलाप्रमेहांश्च ।
यकृदर्बुदानि विद्रधिं
भगन्दरं रक्तपित्तं च ॥ १८५ ॥
अतिकार्श्यमतिस्थौल्यं
स्वेदमथ श्लीपदं च विनिहन्ति ।
दंष्ट्राविषं समौलं
गराणि च बहुप्रकाराणि ॥ १८६ ॥
296-a
मन्त्रौषधियोगादीन्
विप्रयुतान्भौतिकान्भावान् ।
पापालक्ष्म्यौ चेयं
शमयेद्गुडिका शिवा नाम्ना ॥ १८७ ॥
बल्या वृष्या धन्या कान्तियशःप्रजाकरी चेयम् ।
दद्यान्नृपवल्लभतां जयं विवादे सुखस्था च ॥ १८८ ॥
श्रीमान्प्रकृष्टमेधः
स्मृतिबुद्धिबलान्वितोऽतुलशरीरः ।
पुष्ट्योजोवर्णेन्द्रिय-
तेजोबलसम्पदादिसदुपेतः ॥ १८९ ॥
वलिपलितरोगरहितो
जीवेच्छरदां शतद्वयं पुरुषः ।
संवत्सरप्रयोगाद्
द्वाभ्यां शतानि चत्वारि ॥ १९० ॥
सर्वामयजित्कथितं
मुनिगणभक्ष्यं रसायनरहस्यम् ॥ १९१ ॥
समुद्बभूवामृतमन्थनोत्थः
स्वेदः शिलाभ्योऽमृतवद्गिरेः प्राक् ।
यो मन्दरस्यात्मभुवा हिताय
न्यस्तश्च शैलेषु शिलाजरूपी ॥ १९२ ॥
शिवागुडिकेति रसायन-
मुक्तं गिरी शेन गणपतये ।
शिववदनविनिर्गता यस्मा-
न्नाम्ना तस्माच्छिवागुडिकेति ॥ १९३ ॥
296-b
२९सुपक्वभल्लातफलानि सम्यक्
द्विधा विदार्याढकसंमितानि ।
विपाच्य तोयेन चतुर्गुणेन
चतुर्थशेषे व्यपनीय तानि ॥ १९४ ॥
पुनः पचेत्क्षीरचतुर्गुणेन
घृतांशयुक्तेन घनं यथा स्यात् ।
सितोपलाषोडशभिः पलैस्तु
विमिश्च संस्थाप्य दिनानि सप्त ॥ १९५ ॥
ततः प्रयोज्याग्निबलेन मात्रां
जयेद्गुदोत्थानखिलान्विकारान् ।
कचान्सुनीलान्घनकुञ्चिताग्रान्
सुपर्णदृष्टिं सुकुमारतां च ॥ १९६ ॥
जवं हयानां च मतङ्गजं बलं
स्वरं मयूरस्य हुताशदीप्तिम् ।
297-a
स्त्रीवल्लभत्वं लभते प्रजां च
नीरोगमब्दद्विशतानि चायुः ॥ १९७ ॥
न चान्नपाने परिहार्यमस्ति
न चातपे चाध्वनि मैथुने च ।
प्रयोगकाले सकलामयानां
राजा ह्ययं सर्वरसायनानाम् ॥ १९८ ॥
भल्लातकशुद्धिरिह प्रागिष्टचूर्णगुण्डनात् ।
घृताच्चतुर्गुणं क्षीरं घृतस्य प्रस्थ इष्यते ॥ १९९ ॥