297-a
स्त्रीवल्लभत्वं लभते प्रजां च
नीरोगमब्दद्विशतानि चायुः ॥ १९७ ॥
न चान्नपाने परिहार्यमस्ति
न चातपे चाध्वनि मैथुने च ।
प्रयोगकाले सकलामयानां
राजा ह्ययं सर्वरसायनानाम् ॥ १९८ ॥
भल्लातकशुद्धिरिह प्रागिष्टचूर्णगुण्डनात् ।
घृताच्चतुर्गुणं क्षीरं घृतस्य प्रस्थ इष्यते ॥ १९९ ॥

Adhikāra 66

पिप्पलीलवणोपेतौ बस्ताण्डौ क्षीरसर्पिपा ।
साधितौ भक्षयेद्यस्तु स गच्छेत्प्रमदाशतम् ॥ १ ॥
बस्ताण्डसिद्धे पयसि साधितानसकृत्तिलान् ।
यः खादेत्स नरो गच्छेत्स्त्रीणां शतमपूर्ववत् ॥ २ ॥
चूर्णं विदार्याः सुकृतं स्वरसेनैव भावितम् ।
सर्पिःक्षीरयुतं लीढ्वा शतं गच्छेद्वराङ्गनाः ॥ ३ ॥
एवमामलकं चूर्णं स्वरसेनैव भावितम् ।